________________ 295 - अभिधानराजेन्द्रः - भाग 3 कम्म न्धकस्यैकस्य भावे द्वितीयो बहूनां भावे तृतीयः शेषेषु तु नैरयिकादिषु पदेषु अष्टभमष्टविधवेदका इति / सप्तविधयेदकत्वस्य तत्रासम्भवात् एवं दर्शनावरणीयान्तरायसूत्रेऽपि वक्तव्ये वेदनीयसूत्रे जीवपदे मनुष्यपदे च प्रत्येकमष्टविधवेदको वा सप्तविधवेदको वा चतुर्विधवेदको वेति व्यक्त व्यं शेषेषु तु नैरयिकादिषु अष्ठविधवेदक इत्येतेषामुपशान्तमोहत्वाद्यवस्थासम्भवात् तत्रैव वेदनीयसूत्रे बहुवचनचिन्तायां जीवपदे मनुष्यपदेच प्रत्येकं भङ्गत्रिकंतत्राष्टविधवेदकाश्चेत्येको भङ्गः एषा सर्वथा सप्तविधवेदकानामभावे ततः सप्तविधवेदकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ भङ्गाविति शेषेषुतुनैरयिकादिषु स्थानेष्वभङ्गकमष्टविधवेदका इति / एवमायुर्नामगोत्रसूत्राण्यपि भावनीयानि मोहनीयं कर्म वेदयमानो नियमादष्टविधवेदक इति जीवादिषु पञ्चविंशतौ पदेष्वेकेवचनचिन्तायां बहुवचनचिन्तायां सर्वत्राप्यभङ्गकम्। अष्टौ कर्मप्रकृतीर्वेदयते वेदयन्ते वा प्रज्ञा०२७ पद। भ०। सम्प्रति उदयमाश्रित्य प्रकृतिस्थानरूपणा क्रियते उदयम्प्रतित्रीणि प्रकृतिस्थानानि तद्यथा अष्टौ सप्त चतस्रः। तत्र सर्वप्रकृति समुदायोऽष्टौ तासां च उदयोऽभव्यानधिकृत्य अनाद्यपर्यवसितोभव्यानधिकृत्यानादिसपर्यवसान:उपशान्त मोहगुणस्थानकान् प्रतिपतितानधिकृत्य पुनः सादिस पर्यवसानः स च जघन्येनान्तर्मुहूर्तप्रमाण: उपशमश्रेणीतः प्रतिपतितस्य पुनरप्यन्र्मुहूर्तम् कस्यापि उपशमश्रेणिप्रतिपत्तेः उत्कर्षण तु देशोनापार्द्धपुद्गलपरावतः तथा ता एवाष्ठौ मोहनीयवर्जाः सप्त तासामुदयो जघन्येनैकं समयं तथा हि सप्तानामुक्तरूपाणां प्रकृतीनामुदय उपशान्तमोहं क्षीण मोहे वा प्राप्यते तत्र कश्चिदुपशान्तमोहगुणस्थानके एक समयं स्थित्वा द्वितीये समये भवक्षयेण दिवं गच्छन्नविरतो भवति अविरतत्वे चावश्यमष्टानां प्रकृतीनामुदय स्ततः सप्तानामुदयो जघन्येनैकं समयं यावत्प्राप्यते उत्कर्षेण तुअन्तर्मुहूर्त उपशान्तमोहगुणस्थानकस्य क्षीणमोहगुणस्थानकस्य वा सप्तोदयहेतोरान्तौ हूर्तिकत्वा तथा घातिकर्मवर्जाश्चतस्रः प्रकृतयः तासामुदयो जघन्येनान्तर्मुहूर्तिक उत्कर्षेण देशोनपूर्वकोटिप्रमाणः तदेवं कृता उदयमधिकृत्य स्थानप्ररूपणा / संप्रति कस्याः प्रकृतेरुदये कति प्रकृतिस्थानान्युदयमाश्रित्य प्राप्यन्ते इति निरूप्यते / तत्र मोहनीयस्योदये अष्टानामुदय: मोहनीयवर्जानां त्रयाणां घातिकर्मणामुदये अष्टानां वा ततोष्टानां सूक्ष्मसंपरायगुणस्थानकं यावत् सप्तानामुपशान्तमोहक्षीणमोहे वा वगदनीयायुनामगोत्राणा मुदये अष्टानां सप्तानां चतसृणां वा उदयः। तत्राष्टानां सूक्ष्मसम्परायां यावत् सप्तानामुपशान्तमोहो क्षीणमोहो चा चतसृणामेतासामेव वेदनीयादीनां सयोगिकेवलिन्ययोगिकेवलिनि च। सम्प्रति सत्तामधिकृत्य प्रकृतिस्थानप्ररूपणा क्रियते सत्ताम्प्रति त्रीणि प्रकृतिस्थानानि तद्यथा अष्टौ सप्त चतस्रः / तत्त्र सर्वप्रकृतिसमुदायोऽष्टौ एतासां चाष्टानां सत्ता अभव्यानाधिकृत्य अनादिपर्यवसानाभव्यानधिकृत्या नादिसपर्यवसाना तथा मोहनीये क्षीणे सप्तानां सत्ता / सा च जघन्योत्कर्षणान्तर्मुहूर्तप्रमाणा सा हि क्षीणमोहे क्षीणमोहगुणस्थानके चान्तर्मुहूर्तप्रमाणमिति घातिकर्म चतुष्टक्षये च चतसुणां सत्ता सा च जघन्येनान्तर्मुहूर्तप्रमाणात्कर्षेण पुनर्देशोनपूर्वकोटिमाना कृता सत्तामधिकृत्य प्रकृतिस्थानरूपणा / संप्रति कस्यां प्रकृतै सत्यां कति प्रकृतिस्थानानि सत्तामधिकृत्य प्राप्यन्ते इतिनिरूप्यते मोहनीयसप्ताशानामपि सत्ता ज्ञानवरणदर्शनावरणान्तरायाणां सत्ताया मष्टानां सप्तानां वा तत्राष्टानामुपशान्तमोहगुणस्थानकं यावन्मोहनीये क्षीणे सप्तानां सा च क्षीणमोहगुणस्थानके वेदनीयायुर्नामगोत्राणां सत्तायामष्टानां सप्तानां चतसृणां वा सत्ता तत्राष्टानां सप्तानां च भावना प्रागिव चतसृणा सत्ता वेदनीयादीनामेव सा च सयोगिकेवलिगुणस्थानके च द्रष्टव्या। कर्म०। सम्प्रति बन्धोदयसत्ताप्रकृतिस्थानानां परस्परं बन्धप्ररूपणार्थमाह।। अट्ठविह सत्त छ बंध गेसु छट्टे व दयसं तंसा। एगविहे तिविकप्या, एगविगप्पा अ अबंधम्मि।३। अष्ट विधबन्धकसप्तविधबन्धकषड्विधबन्धकेषु प्रत्येकमुदये सत्तायां चाऽष्टौ कम्माणि प्राप्यन्ते कथमिति चेदुच्यते इह अष्टविध-बन्धका अप्रमतान्ताः सप्तविधबन्धका अनिवृत्तिबादरसंपरायपर्यवसाना: षड् विघबन्धकीश्च सूक्ष्मसंपराया: / एते च सर्वेऽपि सरागा: सरागत्वं च मोहनीयोदयादुपणायते उदये च सत्यवश्यं सत्ताततो मोहनीयोदयसत्तासंभवात् सप्तविधाष्टविधषडविधबन्धकेष्ववश्य मुदये सत्तायां वा अष्टौ प्राप्यन्ते एतेन च यो भङ्गाः दर्शिताः। तद्यथा अष्टविधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता एष विकल्प आयुर्बन्धकाले एष च मिथ्यादृष्ट्यादीनामप्रमत्तानामवसेयोन शेषाणामायुर्वन्धासंभवात्तथा सप्तविधी बन्धोऽष्टविध उदयोऽष्टविधा सत्ता एषविकल्प आयुबंधभावे एष च मिथ्यादृष्ट्यादीनामनिवृत्तिबादर संपरायाणामवसेयः / तथा षड्विधो बन्धोऽष्टविध उदयोऽष्ट विधा सत्ता एष विकल्प: सूक्ष्मसंपराया (एगविहो तिविगप्पोत्ति) एकविधे एकप्रकारबन्धे एकस्मिन् केवलिवेदनीये बध्यमान इत्यर्थः। विकल्प इति समाहारद्विगुत्वेऽप्यार्षत्वात्पुंस्त्वानिर्देश: त्रयो विकल्पा भवन्तीत्यर्थः / तद्यथा एकविधो बन्धः सप्तविध उदयः अष्टविधा सत्ता एष विकल्प उपशान्तमोहगुणस्थानके प्राप्यते तत्र मोहनीयस्योदयो न विद्यते सत्ता पुनरस्ति तथा एकविधोबन्धः सप्तविधा सत्ता एष विकल्पः क्षीणमोहे गुणस्थानके प्राप्यते तत्र मोहनीयस्य नि:शेषतोऽपगमात् तथा एकविधो बन्धश्चतुर्विध उदयश्चतुर्विधा सत्ता एष पुनर्विकल्प: सयोगिकेवलिगुणस्थानके प्राप्यते तत्र मोहनीयस्य निः शेषतोऽपगमात् / तथा एकविधो बन्धश्चतुर्विध उदयश्चतुर्विधा सत्ता एष पुनर्विकल्पः सयोगिकेवलिगुणस्थानके प्राप्यते तत्र घातिकर्मणामवयवशोपगमात् चतसृणां चाघातिप्रकृ नीनामुदये सत्तायां प्राप्यमाणत्वात् (एगंविगप्पो अबंधम्मित्ति) अत्र बन्धाभावे एक एव विकल्पस्यद्यथा चतुर्विध उदयश्चतुर्विधा सत्ता एष चायोगि केवलिगुणस्थानके प्राप्यते। तत्र हियोगाभावात् बन्धो न भवति उदयसत्ते चाघातिकर्मणां भवतः तदेवं मूलप्रकृतीरधिकृत्य बन्धोदयसत्प्रकृतिस्थानानां परस्परं संवेधे सप्तविकल्पा उक्ताः कर्म०पं० सं०। जीवस्थानेषु विवृण्वन्नाह - सत्तट्ठबंध अतुदयसंततेरससुजीवठाणेसु / एगमि पंचद्विभंगा होति केवलिणो॥४॥ इह जीवस्थानानि चतुर्दश तद्यथा अपर्याप्तसूक्ष्म के न्द्रियः पर्याप्तसूक्ष्मैकेन्द्रिय: अपर्याप्तबादरैकेन्द्रिय: पर्याप्तबादरैकेन्द्रियः अपर्याप्तचतुरिन्द्रियः पर्याप्तचतुरिन्द्रियः अपर्याप्तासंज्ञिप