________________ कम्म 291 - अमिधानराजेन्द्रः - भाग 3 कम्म पूर्वाद्या दिश: ऊ धो दिग्द्वयं चेदमेवं दिषट्कमत्र षड्दिग्गतं कर्म दीन्द्रियादिजीवान् एव अधिकृत्य संग्रहक्रियार्या योग्यं स्यादिति नियमः एकेन्द्रियाणां तु आगमेत्यादि दिक् र्थ कर्म ग्रहणक्रियायां योग्यमपि उक्तमस्ति। अपरत्रागमे चतदाह एगिदियांणं भंते! तेयाणं कम्म पुग्गलाणं गमणं करेमाणे किं तिदिसं करेइ गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं करेइ वेइंदियाणं भंते ! पुच्छा गोयमा ! वें दिया जाव पंचेंदिया नियमाछद्दिसिं करेइ” कथं संग्रहक्रियायां योग्यं केन सह कियद्वा स्यादित्याह सर्वैरप्यात्मप्रदेशैः सर्वज्ञानावरणादि सर्वेण प्रकृतिस्थित्यादिना प्रकारेण वद्धकभन्योऽन्यं उम्बन्धतया क्षीरोदकवत् आत्प्रदेशैः श्लिष्टं तदेव वद्धकं कर्म संग्रहे योग्यं भवति नत्वन्यत् / आत्मा हि सर्वप्रकृतिप्रायोग्यपुद्गलान् सामान्येन आदाय तान् पुद्गलान् अध्यवसायविशेषात् पृथग ज्ञानावरणादिरूपत्वेन परिणमयति। यत्र हि आकाशे जीवोऽवगाढस्तत्र ये आकाशप्रदेशा आत्मन्याश्रितास्तेषु ये कर्मपुद्रलादिरागादिस्नेहयोगत आत्मनि लगन्ति ते एव कर्मपुद्गला जीवानां संग्रहयोग्या नतु क्षेत्रान्तरावगाढा: कर्मपुद्गला तीवानां संग्रहणाऱ्या भिन्नदेशस्थानां ग्रहणयोग्याभावात् "सव्वेसु एएसेसु" इति प्राकृतत्वात् / तृतीया बहुवचनस्थाने सप्तमीबहुवचनं भिन्नप्रदेशस्था: कर्मपुद्गलाः कथं ग्रहणयोग्या भवन्ति अत्र दृष्टान्तो यथाऽग्निःस्वप्रदेशस्थान प्रायोग्यपुद्गलान् आत्मसात् करोति एवं जीवोऽपिस्वप्रदेशस्थान् कर्मपुद्गलान् आत्मसात् करोति किञ्चद्विदिक् स्थितमपि कर्म आत्मा गृह्णाति परमल्पत्वान्न विवक्षितम् उत्त०२३ अ० / कर्मणामुदय उदय शब्दे (एवं उईरणा शब्दे उदीरणा बन्धो बन्ध शब्द) एवं बन्धनादिकरणाष्टकं यावव्यक्तिकरणम् / अथ बन्धोदयसत्तास्थानानां संवेधः॥ सिद्धपएहिं महत्थं, बंधोदयसंतपयडिठाणाणि। वुच्छ सुणु संखेवं, नीसंदं दिहिवादस्स||१|| प्रकृतीनां स्थानानि द्वित्र्यादिप्रकृतिसमुदाया इत्यर्थः स्थानशब्दाऽतो समुदायवाची बन्धोदयसत्तासु प्रकृतिस्थानानि बन्धोदयसत्ताप्रकृतिस्थानानि तेषां संक्षेपं वक्ष्येतंच वक्ष्यमाणं शृणुण्विति क्रियापदं च श्रोतृणां कथंचिदनाभोगवशतः प्रमादसंभवेऽप्याचार्येण नोद्वेजितव्यं किन्तु सुमधुरवचोभिः शिक्षानिबन्धनैः श्रोतृणां मनासि प्रसाद्य यथार्हमागमार्थो निवेदनीय इति ख्यापनार्थं तदुक्तम् "अणुवत्तणापसेहा पायं पावंति जोग्गयं परमं / रयणं पियगुक्करिसं, उव्वेइ सोहभ्मगुण गणेणं / एत्थ य पमायखलिया, पुव्वभासेण कस्ससवन होति। जो तेवणेइ सम्म, गुरुत्तणं तस्स सफलंति। को नामसारहीणं, स होज जो भद्द वाइणो दमणे। दुट्टे वि य जो पासे, दमेइ तं सारहिं विति" संक्षेपस्यैव विशेषणार्थमाह। महार्थो महान् प्रभूतोऽर्थोऽभिधेयो यस्य स महार्थः ननु संक्षेपाविस्तरार्थसंग्रहस्ततः स महार्थएव भवतीति किमर्थमिति विशेषणं तदयुक्तं संक्षेपस्य अन्यथाऽपि संभवात् तथाह्यारुयानालापकसंगण्यसंग्रहण्यः संक्षेपरूपा दृश्यन्तेन च महार्थस्तत्तात्पर्यार्थस्याल्पीयस्त्वात्। ततस्तत्कल्पनममुं सेक्षेपं नाज्ञासी द्विनेयजन इत्यमहार्थत्वाच्छङ्कापनोदार्थ महार्थइति विशेषणम् पुनरप्यमुं विशेषयति नि:स्यन्ददृष्टिवादस्य दृष्टिवादमहार्णवस्य विन्दुभूतं निःस्यन्दकल्पदृष्टिवादो हि परिकर्म तत्र | प्रथमानुयोगपूर्वगतचूलिकारूपपञ्चप्रस्थानः तत्र पूर्वेषु मध्ये द्वितीये अग्रायणीयाभिधाने चतुर्दशवस्तुसमन्विते पूर्वे यत्पशमं वस्तु विंशतिप्राभृतपरिमाणं तस्य चतुर्थं यत् कर्मप्रकृतिनामकं चतुर्विंशत्यनुयोगद्वारमयं प्राभृतं तस्मादिभे त्रयोबन्धादय: सूत्रकृता लेशतो वक्ष्यन्तेततोऽन्यं बन्धोदयसत्प्रकृतिस्थानानां संक्षेपो दृष्टिवादस्य निस्यन्दरूपः अनेन च प्रकरणस्य सर्वविन्मूलता ख्यापिता द्रष्टव्या दृष्टिवादो हि भगवतापरमार्हन्त्यमहिम्ना विराजमानेनवीरबर्द्धमानस्वामिना साक्षादर्थताऽभिहितः सूत्रतस्तृ सुधर्मस्वामिना तन्निष्यन्दरूपं चेदं प्रकरणमतः सर्वविन्मूलमिति / ननु बन्धोदयसत्प्रकृतिस्थनानां संक्षेपौऽभिधातव्यः किं प्रत्येक्माहोश्वित् संवेधरूप उच्यते संवेधरूपस्तथा चामुमेव संवेधरूपं संक्षेपं विवक्षुः शिष्यान्प्रश्न कारयति / / कइबंधतो बेअइ, कइकइ वा संतपयडि ठाणाणि / मूलुत्तरपगईसुं, भंगविगप्पा उ बोद्धय्वो // 2 // कतिशब्दः परिमाण पृच्छायां कति कर्मप्रकृतीबंधनन् कति कर्मप्रकृतीर्वेदयते कति वा तथा बध्नतो वेदयमानस्य प्रकृतिसत्कर्मस्थानानि प्रकृतिसत्तास्थानानिएवं शिष्यैः प्रश्ने कृते सत्याचार्योऽस्मिन् विषये भंगजालमानकप्रकारं वचोमात्रेण यथावत्प्रतिपादयितुमशक्यं जानानः सामान्येनैव प्रत्युत्तरमाह मूले प्रकृतिषु ज्ञानावरणादिरूपासु उत्तरप्रकृतिषु च मतिज्ञानावरणादिश्रुतज्ञानावरणादिरूपासु उभयीषु च वक्ष्यमाणस्वरूपासु प्रत्येकं बन्धोदयसत्तासंवेधमधिकृत्य चिन्त्यमानासु वचोभङ्गः संभवति ते चास्मिन् प्रकरणे यथावत् वैविक्त्ये न प्रतिपाद्यमानाः सम्यग्वोद्धव्याः / तत्र मूलप्रकृतयोऽष्टौ तद्यथाज्ञान वरणं दर्शनावरणं वेदनीयं मोहनीयम्। आयुः नाम गोत्रमन्तरायं च (कर्म)। तत्र मूलप्रकृतीनामुक्तस्वरूपाणां बन्धम्प्रतीत्य चत्वारि प्रकृतिस्थानानि। तद्व्यथा अष्टौ सप्त षट् एकश्च / तत्र सर्वप्रकृतिसमुदायोऽष्टौ एतासांच बन्धो जघन्यतोत्कर्षेणान्तर्मुहूर्त-प्रमाण: आयुषि हि बध्यमाने अष्टानां प्रकृतीनां बन्ध: प्राप्यते आयुषश्च बन्धोऽन्तर्मुहूर्तमेव कालं भवति न ततोऽप्यधिकम् / तथा त एवाष्टावायुर्वर्जाः सप्त एतासां च बन्धो जघन्येनान्तर्मुहूर्त यावत् उत्कर्षेण च त्रयस्त्रिंशत्सागरोपमानि षण्मासोनानि अन्तर्मुहूतानपूर्वकोटित्रिभागाभ्यधिकानि / तथा ता एवाष्टावायुर्मोहनीय वर्जाः षट्। एतासांच बन्धोजघन्येनैकं समयं तथाहि एतासामुक्तरूपाणां षण्णां प्रकुतिरूपाणां षण्णं प्रकृतीनां बन्धः सूक्ष्मसंपराये सर्वोपशमश्रेण्यां कश्चिदेकं समयं भूत्वा द्वितीय समये भवक्षयेण दिवंगतः सन्नविरतो भवति अविरतत्वे चावश्यं सप्त प्रकृतीना बन्ध इति षण्णां बन्धो जघन्येनैकं समयं यावत् उत्कर्षण त्वन्तर्मुहर्त सूक्ष्मसंपरायगुणस्थानकस्यान्तर्मुहूर्त्तपगमाणत्वात् तथा सप्तानां प्रकृती नां बन्धव्यच्छेदे एकस्या वेदनीयरुपाया: प्रकृतेर्बन्ध: स च जघन्ये नै कं समयमे क समयभावोपशमश्रेण्यामुपशान्तं मोहगुणस्थाने प्रागुक्तप्रकारेण भावनीयः उत्कर्षेण पुनर्देशोनां पूर्वकोटिं यावत् / सर्वोत्कर्षतः कस्या वेदितव्य इति चेत् उच्यते यो गर्भवासे माससप्तकमुषित्वा ऽनन्तरं शीघ्रमेव योनिनिष्क्रमण जन्मना जातो वर्षाष्टकाचोपरि संयम प्रतिपन्नः प्रतिपत्यनन्तरे च क्षपक श्रेणिमारुह्योत्पादितके वलज्ञानदर्शनस्तस्य सयोगिके