SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कम्म 290- अभिधानराजेन्द्रः - भाग 3 कम्म वानन्तगुणा विद्यन्ते तैश्चैवं विधैरसाणुभिर्युक्तं परिगतं कर्मस्कन्धदलिकं जीवो गृह्णातीतिएतदुक्तं भवति निम्बेक्षुरसाद्यविश्रयणैस्तण्डुलेषु प्रत्येक यथारसविशेष तत्तद्रूपं पक्ताजनयति तथा अनुभागबन्धाध्यवसायैः सर्वस्कन्धेष्वभव्यानन्तगुणकर्मप्रदेशनिष्पन्नेषु प्रतिपरमाणु सर्वजीवेभ्योऽनन्तगुणान रसविभागपलिच्छेदान् जीवो जनयतीति / तथा (अणन्तए एसन्ति) अनन्ता अभव्यानन्तगुणाः सिद्धेभ्योऽनंतगुणहीनाः प्रदेशा: पुद्गलायत्रतदनन्तप्रदेशम्। इदमुक्तं भवति। अभव्येभ्योऽनन्तगुणैः सिद्धेभ्योऽनन्तगुणहीनैः परमाणुभिनिष्पन्नमेकैकं कर्मास्कन्धं गृह्णाति तानपि स्कन्धान प्रतिसमयमभव्येभ्योऽनन्तगुणान् सिद्धानामनन्तभागवर्तिन एव गृह्णातीति॥ एगपएसोगाडं, नियसव्वपएसओ गहेइ जिओ। थोवो आउतदंसो, नामेगो एसमो अहिओ७६|| एकस्मिन् प्रदेशेऽवगाढमेकप्रदेशावगाढमेकप्रदेशावगाढं येष्वाकाशप्रदेशेषु जीवोऽगाढस्तेष्वेव यत्कर्मापुद्गलद्रव्यं तद्रागदिस्नेहगुणयोगादात्मनि लगति यदाह वाचकमुख्य: "स्नेहाभ्यशरीरस्य, रेणुनाश्लिष्यते यथा। रागद्वेषानुरक्तस्य, कर्मबन्धस्तयाधुवम्" नत्वनन्तरपरंपरप्रदेशावगाढं भिन्नदेशस्थस्य कर्मपुगलद्रव्यस्य ग्राह्यत्वपरिणामाभावात् यथाहि देहिनः स्वप्रदेशस्थितान् योग्यपुद्गलानात्मभावेन परिणमयति इत्येवं जीवोऽपि स्वक्षेत्रस्थमेव द्रव्यमादत्ते नत्वनन्तरपरम्परप्रदेशस्थम् एतच द्रव्यं गृह्यमाणं जीवेन नैकेन प्रदेशेन न व्यादिभिर्वा प्रदेशैः किन्तु सर्वेरप्यात्मीयप्रदेशैरित्येतदेवाह निजा आत्मीया: सर्वे समस्ताः प्रदेशा निजसर्वप्रदेशास्तैर्निजसर्वप्रदेशतः आद्यादेराकृतिगणत्वात्तास्प्रत्ययः निजसर्वप्रदेशैः कर्मस्कन्धदलिकं गृह्णातीत्यर्थः। जीवप्रदेशानां सर्वेषामपि शृडग्लावयवानामिव परस्परं संबन्धविशेषभावात् / तथाहि एकस्य जीवस्य समस्तलोकाकाशप्रदेशराशिप्रमाणा: प्रदेशावर्तन्ते मिथ्यादिबन्धकारणोदये च सति एकस्मिन् जीवप्रदेशे स्वक्षेत्रावगाढ ग्रहणप्रायोग्यद्रव्यग्रहणाय व्याप्रियमाणे सर्वथात्मप्रदेशा अनन्तरपरम्परतया तव्यग्रहणाय व्याप्रियन्ते यथा हस्ताग्रेण कस्मिंश्चिद्वाह्ये कटादिके गृह्यमाणे मणिबन्धकुर्परांशादयोऽपि तद्ग्रहणाय अनन्तरपरम्परतया व्याप्रियन्ते इति। कर्म०५ क०॥ नाणावरणिजस्स णं भंते ! कम्मस्स केवइया अविभागपलिच्छेदा पण्णता? गोयमा ! अणंता अविभग पलिच्छेदा पण्णत्ता।। (अविभागपलिच्छेदेति) परिच्छिद्यन्त इति परिच्छेदा अंशास्ते च सविभागा अपि भवन्त्यतो विशेष्यन्ते अविभागाश्च ते परिच्छे दाश्चेत्याविभागपरिच्छे दा निरंशा अंशा इत्यर्थस्ते च ज्ञानावरणीयस्य कर्मणोऽनन्ता: कथं ज्ञानवरणीयं यावतो ज्ञानस्य विभागभेदानावृणोति तावन्त एव तस्याविभागपरिच्छेदा दलिकापेक्षया वाऽनन्ततत्परामाणुरूपाः॥ नेरइयाणं भंते!नाणावरणिजस्स कम्मस्स केवइया अविभागपलिच्छेदा | पण्णत्ता? गोयमा ! अणंता अविभागपलिच्छेदापण्णत्ताएवं सब्जीवाणं एवं जहा नाणावरणिज्जस्स अविभागपलिच्छेदा भणिया तहा अट्ठण्ह वि कम्मपगडीणं भाणियव्वा जाव वेमाणियाणं अंतराइयस्स। "अविभागपलिच्छे देहित्ति'तत्परमाणुभिः-- एगमे गस्स णं भंते ! जीवस्स एगमे गे जीवप्पएसे नाणावरणिज्जस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवढियपरिवेढिए? गोयमा! सिय आवेढियपरिवेढिए सियनो आवढियपरिवेढिए / जइ आवेढियपरिवेढिए नियमा अणंतेहिं एगमेगस्स णं भंते ! नेरइयस्स एगमेगे जीवप्पएसे नाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेढियपरिवेदिए ? गोयमा ! नियमं अणंतेहिं जहा नेरइयस्स एवं जाव वेमाणियस्स नवरं मणूसस्स जहा जीवस्स एगसेगस्स एगमेगस्स णं भंते ! जीवस्स एगमेगे जीवप्पएसे दरिसणावररणिजस्स कम्मस्स केवइएहिं एवं जहेव नाणावरणिज्जस्स तहेव दंडगो भाणियव्वोजाव वेमाणियस्स एवं जाव अंतराइयस्स भाणियव्वं / नवरं वेयणिजस्स आउयस्स नामस्सगोयस्स ! एएसिं चउण्हवि कम्माणं मणुस्सस्स जहा नेरइयस्स तहा भाणियव्वं सेसं तं चेव। तत्परमाणुभिः (आवेढियपरिवेढियत्ति) आवेष्टितपरिवेवष्टितो-ऽत्यन्तं वेष्टित इत्यर्थः आवेष्ट्यपरिवेष्टित इति वा (सिय नो आवेढियपरिवेढिएत्ति) केवलिनं प्रतीत्य तस्य क्षीणज्ञानावरणत्वेन तत्प्रदेशस्य ज्ञानावरणीयाविभागपरिच्छे दैरावेष्टन परिवेष्टानाभावादिति (मणूसस्स जहा जीवस्सत्ति) "सिय आवेढियेत्यादि' वाच्यमित्यर्थो मनुष्यापेक्षया आवेष्टितपरिवेष्टित्वस्य तदितरस्य च सम्भवात् / एवं दर्शनावरणीयमोहनीयप्न्तरायेष्वपि वाच्यं वेदनीयायुष्कनामगोत्रेषु पुनर्जीवपदएव भजना वाच्या सिद्धापेक्षया मनष्यपदे तु नासौ तत्र वेदनीयादीनां भावादित्येतदेवाह नवरं "वेयणिज्जस्सेत्यादि" भ०८ श०१६ उ०। उत्त०(बन्धाइ शब्देषु प्रदेशबन्धाद्यधिकारेऽन्यत्) प्रथमतः करणाष्टकमभिधित्सुराहबंधण 1 संकमणु 2 व्वट्टणा य 3 अववट्टणा 4 उदीरणया 5 उवसाामणा 6 निहत्ती ७निकायणाचतिकरणाई। इह करणशब्देन सह पर्यन्ते सामानाधिकरण्याभिधानात् प्रत्येक करणशब्दोऽभिसंबन्धनीयः तद्यथा बन्धनकरणं संक्रमकरणमित्यादि। क०प्र०ा प्रदेशागमुक्त्वा कर्मणां क्षेत्रं वदन्ति। सजीवाणं कम्मं तु, संगहेछद्दिसागयं / सव्वेसु वि पएसेसु, सव्वं सवेण वद्धगं ||18|| कर्म ज्ञानावरणीयादीकं सर्वजीवानां एके न्द्रियादीनां संग्रहे संग हक्रि यायां योग्यं तु षट् दिशागतं स्यात् शण्णा दिशा समाहार: षड्दिशं तत्र गतं षड् दिकस्थितमित्यर्थः। तत्र चतस्त्र:
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy