SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ कम्म 289 - अभिधानराजेन्द्रः - भाग 3 कम्म स्थितिबन्धे वर्तमानो लघुस्थितिकं करीति तद्न्धकेष्वस्यैवातिविशुद्धत्वात् (विउवि छअसंनित्ति) वैक्रि यषट्क नरकद्विक वैक्रियदेवद्विकलक्षणम् असंज्ञी तिर्यक्पञ्चेन्द्रियः सर्वपर्याप्तिभिः पर्याप्ती लघुस्थितिकं करोति विमुक्तं भवति वैक्रियषट्कं हि नामप्रकृतय: नाम्नच द्रौ सप्तभागौ पल्योपमसंख्येयभागोनौ एकेन्द्रियाणां जघन्या स्थितिः प्रतिपादिता सा च सहस्रगुणिता सागरोपमसप्तभागसहस्रद्वयप्रमाणा वैक्रियषट्कस्य जघन्या स्थितिर्भवति। वैक्रियषट्कस्य जघन्यस्थितिबन्धका असंज्ञिपञ्चेन्निद्रयाएव नैकेन्द्रियादयस्ते वासंज्ञिपञ्चेन्द्रिया जघन्यां स्थितिमेतावतीमेव बध्नन्ति न न्यूनामपि यदुक्तम्। "वेउव्वियछक्के सहसताडियंजं असंनिणो तेसिं। पलिया संखंसूणं, ठिई अवाहूणिय निसेगो"। अस्याक्षरगमनिका "वागुकोसेठिईण, मिच्छतुकोसियाइ" इत्यनेन करणेन यल्लब्धं तत्सहस्रताडितं सहस्रगुणितं ततः पल्योपमासंख्येयांशोन भागेन न्यून सद्वैक्रियषट्के देवगतिदेवानुपूर्वी नरकगतिनरकानुपूर्वी वैक्रियशरीरवैक्रियाङ्गोपाङ्गलक्षणे जघन्यस्थितेः परिमाणमवसेयम्। कुत इत्याह यद्यस्मात्कारणात् तेषां वैक्रियत्फलक्षणानां कर्मणामसंज्ञिपञ्चेन्द्रिया एव जघन्यस्थितिबन्धकास्ते च जघन्यां स्थितिमेतावतीमेव बध्नन्ति न न्यूनान्तर्मु हूर्तमबाधा अबाधा हीना च कर्मस्थिति: कर्मदलिकनिषके इति। किंच एता: षट्प्रकृतयो यथासंभवं नरकदेवलोक्यायोग्या बध्यन्त तत्रच देवनारकासंज्ञिमनुष्यैकेन्द्रियविकलेन्द्रियनरकेषु देवलोकेषु नोत्पद्यन्त एवेति तेषामेतदबन्धासंभवः / तिर्यग्मनुष्यास्तु संज्ञिनः स्वभावादेव प्रकृतप्रकृतिषट्कस्य स्थिति मध्यमामुत्कृष्टां वा कुर्वन्तीति तेऽपीहोपेक्षिताः (संनीविआउत्ति) संज्ञी अपि शब्दादसंज्ञी गृह्यते ततः संज्ञी असंज्ञी वा आयुश्चतुःप्रकारमपि जघन्यस्थितिकं करोति तत्र देवनारकायुषोः पञ्चेन्द्रियतिर्यमनुष्या मनुष्यतिर्यगायुषोः पुनरेकेन्द्रियादयो जघन्यस्थितिकारो द्रष्टव्याः / उक्ताः पञ्चत्रिंशत्प्रकृतीनां जघन्यस्थितिबन्धस्वामिनः / शेषाणामाह (वायरपजेगिंदिओ सेसाणंत्ति) शेषाणां भणितोद्वरितानां निद्रापञ्चका सातवेदनीयानन्तानुबन्धिचतुष्काप्रत्याख्यानावरणचतुष्कप्रत्याख्यानावरणचतुष्कन पुंसकदेवस्वीवेदहास्यादिषट्कमिथ्यात्वमनुष्यगतितिर्यतिजातिपञ्चकौदारिकशरीरौदारिकाङ्गोपाङ्गतैजसकामणसंहननषट् कवसंस्थानषट्कर्णचतुष्कमनुजानुपूर्वी तिर्यगानुपूर्वी प्रशस्ताप्रशस्तविहायोगतिपराघातोच्छ्वासातपोद्योता गुरुलधुनिर्माणोपघातत्रसनवकस्थावरदशकनीचैर्गोत्रलक्षणानां पञ्चाशीतःप्रकृतीनां बादर: पर्याप्तस्तद्गन्धकेषु सर्वविशुद्ध एकेन्द्रिय: पल्योपमासंख्येयभागहीनसागरोपमद्विसप्तभागादिकां जघन्यां स्थितिं करोति / अन्ये ह्ये केन्द्रियास्तथाविधविशुद्धभावावृहत्तरां स्थितितुपकल्पयन्ति विकलेन्द्रियपञ्चेन्द्रियेषु शुद्धिरधिकाऽपिलभ्यते केवलं तेऽपि स्वभावादेव प्रकृतीनां महतीं स्थितिमुपरचयन्तीति शेषपरिहारेण यथोक्तेकेन्द्रियस्य ग्रहणमिति प्रतिपादितंजघन्यस्थितिबन्धमाश्रित्यस्वामित्वम् (कर्म०)। (बन्धशब्दे स्थितिबन्धप्रस्तावे गुणस्थानकेस्वस्य चिन्ता) (अनुभागकर्म तचाऽनुभागशब्देदर्शितम्) प्रज्ञा०॥ अथप्रदेशकर्म तत्र यादृशं कर्मस्कन्धदलिकं जीवो गृह्णाति तदाह। अंतिमचउफासदुगंध-पंचवन्नरकम्मखंधदलं। सध्वजियणंतगुणरस-मणुजुत्तमणंतयपएसं॥७८|| जीवः कर्मस्कन्धदलं गृह्णातीत्युत्तरगाथायां संबन्धः। तत्र (अंतिमत्ति) अन्ते भवा अन्तिमाः पश्चादाद्यन्ताग्रादिम इतिमप्रत्ययः अन्त्याः पर्यन्तवर्तिनः अन्तिमत्वं च "फासागुरुलहुमिउखवरसी उण्हसिणिद्धरुक्ख?'' इति कर्मविपाकस्त प्रतिपादितक्रममाश्रित्य ज्ञेयं चत्वारश्चतुः संख्या: स्पर्शाः शीतोष्णस्निग्धरूक्षलक्षणा यस्य कर्मस्कन्धदलस्य कर्मस्कन्धद्रव्यस्येत्यर्थः तदन्तिमचतुःस्पर्शम् अयमत्राशयः अमीषां चतुर्णा स्पर्शानां मध्यात्कोऽपि परमाणुः केनाप्यविरुद्धेन संयुक्तस्तत्र विद्यते तथा हि स्निग्धोष्णस्पर्शद्वितीययोगातः कश्चित्परमाणुस्तक भवति कश्चन रूक्षशीतस्पर्शद्वययुक्तः परमाणु: कश्चिच स्निग्धशीतस्पर्शद्वयोपेतः कश्चित्तु रूक्षोष्णस्पर्शद्वयसमन्वित इत्यतः स्कन्धद्रव्यमभव्यानन्तगुणपरमाणुनिवृत्तं सिद्धानन्तभागवर्तिपरमाणु-कलितमविरुद्धस्पर्शद्वयोपेतपरमाणुसहिततया चतुःस्पर्शसंयुक्तं संगच्छतु एवं गुरुलधुमृदुकठिनस्पर्शवन्तश्च ये परमाणवस्ते कर्मस्कन्धद्रव्येन भवन्तीत्येतच प्रज्ञप्तिकर्मप्रकृत्याद्यभिप्रायेणोक्तं वृहच्छतकटीकायांतु मृदुघुलक्षणस्पर्शद्वयंतावदवस्थितं भवत्यपरौ च स्निग्धोष्णौ स्निग्धशीतौ वा रूक्षोष्णौ। रूक्षशीतौ वा द्वावविरुद्धौ भवत इति चतुःस्पर्शाक्तिरुक्ता। तथा द्वौसुरभिदुरभिलक्षणौ गन्धौ यस्य तद् द्विगन्धंपञ्चशब्दस्य प्रत्येक संबन्धात्पञ्चेति पञ्चसंख्या वर्णाः कृष्णनीललोहितहारिद्रशुक्ल-लक्षणा यस्यतत्पञ्चवर्णम् पञ्च रसास्तिक्तकटुककषायाम्लमधुर-स्वरूपा यस्य तत्पश्चरसम्। कार्मणवर्गणाप्रधानाः स्कन्धाः कर्मस्कन्धास्त एव यथा स्वकालं दलनाद्विशरारुभवात् दलत्रिफलाविशरणे इतिवचनाद्दल दलिकं कर्मस्कन्धदलं ततोऽन्तिमचतुःस्पर्श च तत् द्विगन्धं च अन्तिमचतुःस्पर्शद्विगन्धम् अन्तिमचतुःस्पर्शद्विगन्धं च तत्पञ्चवर्ण च अन्तिमचतुः स्पर्शद्विगन्धपञ्चवर्णम् अन्तिमचतुःस्पर्शद्विगन्धपञ्चवर्णं च पञ्चरसं अन्तिमचतुःस्पर्शद्विगन्धपञ्चवर्णपञ्चरसम् अन्तिमचतुःस्पर्शद्विगन्धपञ्चवर्ण पञ्चरसं च तत् कर्मस्कन्धदलं च अन्तिमचतुःस्पर्शद्विगन्धपञ्चवर्णपञ्चरसकर्मस्कन्धदलम् इह कर्मस्कन्धग्रहणेन एतत्सूचयतिये कर्मस्कन्धास्तएव चतुःस्पर्शवन्तो जीवेन गृह्याते औदारिकवैक्रियाहारकग्यास्तु स्कन्धा अष्टस्पी एव गृह्याते इति तैजसाद्याश्च ये ग्रहणप्रायोग्यास्तेऽपि सर्वे चतुःस्पर्शवन्त एव जीवेन गृह्यन्ते इति मन्तव्यमवर्णगन्धरसाः पुनरौदारिकादीनां सर्वेषामपि स्कन्धानां यथोक्तप्रमाणा एव भवन्ति / उक्तं च "पंचरसपंचवण्णेहि, परिणाया अट्ठफासदो गंधा / जीवाहारग जोगा, चउफासविसेसिया उवरि" आहारकस्कन्धेभ्य उपरितनास्तैजसाद्या: स्कन्धा ग्रहणप्रायोग्याः सर्वे चतुःस्पशी भवन्तीत्यर्थः। तथा सर्वजीवेभ्योऽनन्तो गुणो येषां ते सर्वजीवानन्तगुणाः। रस्य ते विपाकानुभवेननास्वाद्यत इति रसोऽनुभागस्तस्याणवोऽश: रसाणवः सर्वजीवानन्तगुणाश्च ते रसाणवश्च सर्वजीवानन्तगुणा: रसाणवस्तैर्युक्तं समन्वितं इदमत्र हृदयम् इह सर्वजघन्यरसस्यापि पुद्गलस्य रस: के वलिप्रज्ञया छिद्यमान: सर्वजीवनन्तगुणान् भागान् प्रयच्छति ते च भागा अतिसूक्ष्मतया परभागाभावान्निरंशा अंशा रसाणव इत्युच्यन्ते रसाणवो रसावभागा रसपरिच्छे दाभावपरमाणव इति पर्यायाः / ते च रसाणवः प्रतिस्कन्धं सर्व कर्म पररमाणु षु सर्वजी
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy