________________ कम्म . 288 अभिधानराजेन्द्रः भाग 3 कम्म चतुन्द्रियजातिलक्षणं सूक्ष्मत्रिकं सूक्ष्मापर्याप्तसाधारणरूपम् आयुस्विकं देवायुर्वज नारकतिर्यग्मनुष्यायुर्लक्षणम् / द्विकशब्दस्यापि प्रत्येक संबन्धात् सुरद्विकं सुरगतिसुरानुपूर्वीस्वरूपं वै क्रियद्विकं वैक्रियशरीरवैक्रियाङ्गोपाङ्गलक्षणं नरकद्रिकं नरकगतिनरकानुपूर्वीलक्षणमित्येतासांपञ्चदशप्रकृतीनामुत्कृष्टांस्थितिं नरकतिर्यड्मनुष्या एवं मिथ्यादृष्टयो बध्नन्ति न देवनारका होतासां मध्य तिर्यङ्गनुष्यायुद्धयं मुक्त्वा शेषास्त्रयोदश प्रकृतीर्भवप्रत्ययेनैव न बध्नन्ति तिर्यड्मनुष्याषोरपि देवगुर्वादिप्रायोग्य उत्कृष्टस्विपल्योपमलक्षणः स्थितिबन्धः प्रकृतस्तत्र च देवनारका भवप्रत्ययादेवनोत्पद्यन्ते इत्येतद्वन्धोऽप्यमीषां न संभवति तस्मादेते तिर्यङ्मनुष्यायुषी उत्कृष्टस्थितिके पूर्वकोट्यायुवस्तिबडमनुष्या मिथ्यादृष्टयस्तत्प्रायोग्या विशुद्धः स्वायुविभागाद्यसमये वर्तमाना बध्नन्ति सम्यग्दृष्टरतिविशुद्धद्धमिथ्यादृष्टश्च देवायुर्बन्धः स्यादिति मिथ्यादृष्टित्वतत्प्रायोग्यविशुद्धत्वरूपविशेषणद्वयं नारकायुषः पुनरेत एवं तत्प्रायोग्यसंक्लिष्टा वाच्याः अत्यन्तशुद्धस्यात्यन्तसंक्लिष्टस्य चायुर्बन्धस्य सर्वथा निषेधादिति नरकद्विकवैक्रियद्विकयोस्तव कवं सर्वसक्लिष्टाः पूर्वोत्कृष्ट स्थितेर्बन्धका वाच्याः / विकलजातित्रिकसूक्ष्मत्रियोस्तत्प्रायोग्यसंक्लिष्टा द्रष्टव्याः अतिसंक्लिष्टा हि प्रस्तुतप्रकृतिबन्धमुल्लध्य नरकप्रायोग्यमेव निवर्तयेयुर्विशुद्धस्तु विशुद्धितारतम्यात्पञ्चेन्द्रियतिर्यक्प्रायोग्यं वा मनुष्यप्रायोग्यं वा देवप्रायोग्यं वा बन्धयेयुरिति तत्प्रायोग्य-संक्लेशग्रहणम्। देवद्रिकस्यापि तत्प्रायोग्यसंक्लिष्टा द्रष्टव्याः / अतिसंक्लिष्टानामधोयर्तिमनुष्यादिप्रायोग्यबन्धप्रसङ्ग द्विद्धौ पुनरुत्कृष्ट बन्धाभावादिति भाविताः पञ्चदशादिप्रकृतयाः। तथा एकेन्द्रियजातिस्थावरनामातपनामलक्षणस्य प्रकृतित्रिकस्य आईशानात् ईशानदेवलोकममिव्याप्यसुरा देवाः। कोर्थः भवनपतयो व्यन्तरा ज्योतिप्काः सौधर्मेशानदेवाः (उक्तो संतिः उत्कृष्टां स्थितिं बध्नान्ति तथाहि ईशानादुपरितनदेवा नारकाश्च एकेन्द्रियेषु नोत्पद्यन्त इत्येकेन्द्रियप्रायोग्यान्येतानि न बध्नन्त्येवेतितन्निषेधः / तिर्यग्मनुष्यास्त्वेतावति संक्लेशे वर्तमाना एतद्बन्धमतिक्रम्य नरकप्रायोग्यमेव बधन्तीति तेषामपि निषेधः। ईशानास्तु देवाः सर्वसंक्लिष्टा अप्येकेन्द्रियप्रायोग्यमेव बध्नन्त्यतस्त एव स्थावरैकेन्द्रि यातपलक्षणप्रकृतित्रयस्य विंशति-सागरोपमकोटीकोटीलक्षणामुत्कृष्टस्थिति बध्नन्तीति। तिरिउरलदुगुजोयं, छिवट्ठसुरनिरयसेसचउगइया। आहारजिणमपुव्वो, नियट्टिसजलणपुरिसलहु॥४४।। द्विकशब्दस्य प्रत्येक संबंन्धात् तिर्यग्द्विकं तिर्यग्गतितिर्यगानूपूर्वारूपमौदारिकद्विकमौदारिकशरीरौदारिकाङ्गोपाङ्ग लक्षणमुद्यातनाम सेवार्तसंहनननाम इत्येतासां षण्णां प्रकृतीनामुत्कृष्टस्थिति सुरनारका बध्नन्तिसर्वत्र विभक्तिलोपः प्राकृतत्वात् न मनुष्यतिर्यश्चः ते हि तद्न्धर्हसंक्लेशेवर्तमाना एतासां षट्प्रकृतीनात्कृष्टोऽप्यष्टादशकोटीकोटिलक्षणामेव मध्यमा स्थितिमुपरचयन्ति अथाभ्यधिसंक्लेशे वर्तमाना गृह्यन्ते तर्हि प्रस्तुतप्रकृतिबन्ध मतिक्रम्य नरकप्रायोग्यमुपरचयेयुः। देवनाराकास्तु सर्वोत्कृष्ट सर्वोत्कृष्ट संक्लेशा अपि तिर्यगतिप्रायोग्यमेव बध्नन्ति न नरकगतिप्रायोग्यं तत्र तेषामुत्पन्नभावात्तस्माईवनारका एवं संक्लिष्टाः / प्रसुततप्रकृतिष्ट कस्य विंशतिसागरोपमकोटीकोटीलक्षणामुत्कृष्टां स्थितिं रचयन्ति अत्र | सामान्योक्तावपि सेवार्तसंहननौदारिकाङ्गोपाङ्ग लक्षणप्रकृतिद्रयस्योत्कृष्टस्थितिबन्धका देवा ईशानादुपरितनसनत्कुमारादय एव दृष्टव्याः / ईशानान्ता देवास्ते हि तत्प्रायोग्यसंक्लेशे वर्तमानाः प्रकृतप्रकृतिद्वयस्योत्कृष्टतोऽप्यष्टादशकोटीकोटीलक्षणां मध्यमामेव स्थिति रचयन्ति। अथ सर्वोत्कृष्टसंक्लेशा गृह्यन्ते तāकेन्द्रि यप्रायोग्यमेव निर्वर्तयेयुर्नचैकेन्द्रियप्रायोग्यबन्धे एते प्रकृति बध्येते तेषां संहननोपाङ्गाभावात्।"सुरनेरइया एगिदिया जे सव्वे असंघयणा'' इति वचनात् / सनत्कुमारादिदेवाः पुनः सर्वसंक्लिष्टा अपि पञ्चेन्द्रि यतिर्यकप्रायोग्यमेव बध्नन्ति नैकेन्द्रियप्रायोग्यं तेषामेकेन्द्रियेषूत्पत्त्यभोवात्तस्मात्प्रस्तुतप्रकृति द्विकस्य विंशतिसागरोपमकोटीकोटीलक्षणामुत्कृष्टस्थितिं सर्वसंक्लिष्टाः सनत्कुमारादय एव बध्नाधस्तना देवा इति। तदेवं जिननाम आहारकद्विकदेवा युर्विकलत्रिकसूक्ष्मत्रिकायुष्कत्रिकदेवद्विका वैक्रि यद्विक नरकद्विकै के - न्द्रियजातिस्थावरनामातपनामतिर्यग्द्विकोदारिकद्विकोगद्योतनामसे वार्तसंहननलक्षणानामष्टाविंशतिप्रकृती नामुत्कृष्टस्थितिबन्धस्वामिन उक्ताः / शेषप्रकृतीनां तु का वार्तेत्या शङ्कयाह (सेसचउगश्यत्ति) भणिताष्टाविंशतिप्रकृतिभ्यः शेषाणां द्विनवतिसंख्यप्रकृती नां मिथ्यादृष्टयश्चतुर्गतिका अप्युत्कृष्टां स्थितिं बध्नन्ति तत्रैतासु मध्ये वर्णचतुष्कतैजसकार्मणागुरुलघुनिर्माणोपघातभयजुगुप्सामिथ्यात्वकषायषोडशकज्ञानावरणपञ्चकदर्शनावरणनवकान्तरायपञ्चकलक्षणानां सप्त चत्वारिंशतो ध्रुवबन्धिप्रकृती नां पूर्वव्यावर्णितस्वरूपणां तथा अध्रुवबन्धिनीनामपि मध्ये असातारतिशोकनपुंसकवेद पञ्चेन्द्रियजातिहुण्डसंस्धानपराघातोच्छ्वासाशुनविहायोगतित्रसबादरपर्याप्त प्रत्येकमस्थिराशुभदुःस्वरदुर्भगानादेयायशः कीर्तिनीचैर्गोत्रलक्ष्णानां च विंशते सर्वोत्कृष्टसंक्लेशेनोत्कृष्टां स्थितिं चतुर्गतिका अपि मिथ्यादृष्टयो बध्नन्ति शेषाणां त्वधुदबन्धिनीनां सातहास्यरतिस्त्रीपुंवेदमनुष्यद्विकसेवार्तवर्जसंहननपञ्चकहुण्डवर्जसंस्थापनपञ्चकप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशःकीयुयैर्गोत्रलक्षणानां पञ्चविंशतिप्रकृती नां तद्वन्धके तु तत्प्रायोग्यसंक्लिष्टाश्वतुर्गतिका अपि मिथ्यादृष्टयः उत्कृष्टां स्थिति बध्नन्तीति उक्ता उत्कृष्टस्थितिबन्धस्वामिनः / अथ जघन्यस्थितिबन्धस्वामिन आह "आहारजिणमपुव्वो" इत्यादि आहारकद्विकं जिननाम (लहुत्ति) लघुस्थितिकं जघन्यस्थितिकं करोतीति शेषः॥क इत्याह (अपुग्वित्ति) पदैकदेशे पदसमुदायोपचारादपूर्वोऽपूर्वाकरणक्षपकस्तद्वन्धस्य चरमस्थितिबन्धे वर्तमानः स्थितिमाश्रित्येत्यर्थः तद्वन्धकेष्वस्यैवातिविशुद्धत्वात्। तिर्यङ्मनुष्यदेवायुर्वर्जकर्मणां च चघन्यस्थितेर्विशुद्धिप्रत्ययत्वात् / तथा (अनियट्टिसंजलमपुरिसलहुत्ति) संज्वलनानां क्रोधमानामायालोभलक्षणमनां चतुर्णा पुरुषस्य पुरुषवेदस्य च (लहुत्ति) लघुस्थितिं जघन्यस्थितिबन्धनम् (अनियट्टित्ति) अनिवृत्तिबादरक्षपकस्तगन्धस्य यथा स्वचरमस्थितिबन्धे वर्तमानः करोति तद्वन्धकेष्वस्यैवातिविशुद्धद्धत्वादिति।। सायजसुधावरणा, विग्धं सुहमो विउवि छ असन्नी। सन्नी वि आउवायर, पझेगिंदी उसेसाणं // 45 // सातं सातवेदनीयं (जसुत्ति) यश कीर्तिनाम (उच्चति) उच्चैगर्गोत्रम् (आवरणं ति) ज्ञानावरणपञ्चक दर्शनावारणचतुष्के विघ्नमन्तरायपञ्चकं (सुहमत्ति) सूक्ष्मसंपरायक्षयक श्वरम