________________ कम्म 287 अमिधानराजेन्द्रः भाग 3 कम्म माणो आउयबंधमो न कम्मए उरालियाइमिस्सी वा' इति औदारिककाययोगश्च विशिष्टो भवति शरीरेन्द्रियपर्यान्त्या पर्याप्तस्य न केवलं शरीरपर्याप्त्या पर्याप्तस्य तत एतत्सिद्धं शरीरपर्याप्त्या इन्द्रियपर्याप्त्या च पर्याप्तस्य मरणं नान्यथेति सर्वजघन्यामपि स्थिति निवर्तयति शरीरेन्द्रियपर्याप्त्यनिवर्त्तनसमर्थोन ततोऽपि हीनतरामिति / (एसणं गोयमे) त्याद्युपसंहारवाक्यं तदेवमुक्तो जघन्यस्थितिबन्धकः। सम्प्रत्युत्कृष्टस्थितिबन्धकं पृच्छति "उक्कोसेणं कालट्ठिइए णं भंते! नाणावरणिज्जंकम्मं किं नेरइयाओ बंधईत्यादि'' सुगमनैरयिकसूत्रे (सागारिइति) साकारोपयुक्तः (जागरे इति) जाग्रत् नारकाणोमपि कियानपि निद्रानुभवोऽस्ति तत उक्तं जाग्रदिति (सुत्तोवउत्ते इति) श्रुतोषयुक्तः साभिलापज्ञानोपयुक्तः इति भावः तिर्यग्योनिकसूत्रे (कम्मभूमिगपलिभागी च) कर्मभूमिगाः कर्मभूमिजातास्तेषां प्रतिभागः सादृश्यं तदस्यास्तीति कर्मभूमिगप्रतिभागी कर्मभूमिगसदृश इत्यर्थः कोऽसाविति चेदुच्यते। या कर्मभूमिजा तिर्यस्वी गर्भिणी सती केनाप्यपहृत्याकर्मभूमौ मुक्ता तस्यां जातः कर्मभूमिगसदृशः अन्ये तु व्याचक्षते कर्मभूमिग एव यदा के नाप्यकर्मभूमौ बीतो भवति तदा स कर्मभूमिगप्रतिभागी व्यपदिश्यते इति उत्कृष्ट-स्थितिकायुर्बन्धचिन्तायां नैरयिकतिर्यग्योनिकस्त्रीदेवदेवीनां प्रतिषेधस्तासामुत्कृष्टस्थितिषु नारकादिषूत्पत्त्यभावात् मनुष्यसूत्रे (सम्मदिट्ठी मिच्छट्ठिी या इति) इह देउत्कृष्ट आयुषी तद्यथा सप्तमनरकपृथिव्याबुबघ्नाति तदा मिथ्यादृष्टिः यदा पुनरनुत्तरसुरम्युस्तदा सम्यग्दृष्टिः (कण्हलेसेवा) नारका-युर्बन्धकः (सुकलेसा वा इतिः अनुत्तरसुरायुर्बन्धकः सम्यग्दृष्टिरप्रमत्तवतिः / उत्कृष्टपरिणामो नारकायुर्बन्धकस्तत्प्रायोग्यविशुद्धमानपरिणामोऽनुत्तरसुरायुर्वबन्धकः मानुषी दुसप्तमनरकपृथिवीयोग्यमायुर्न बध्नाति / अनुत्तरसुरायुस्तु बघ्नातीति तत्सूवं सर्व प्रशस्तं नेयम्। इहातिविशुद्धः आयुबन्धमेव न करोतीति तत्प्रायोग्यग्रहणं शेषं कण्ठ्यम् / प्रज्ञा० 23 पद / कर्म (29) अथोत्तरप्रकृतीनाश्रित्योत्कृष्टस्थितिबन्धस्वामित्वमाह। अविरयसम्मो तित्थं, आहारदुगामराउअपमत्तो। मिच्छादिट्ठी बंधइ, जिट्ठठि सेसपयडीणं ।।४शा अविरत सम्यक्त्वोऽविरतसम्यग्दृष्टिः "व्याख्यानतो विशेषप्रतिपत्तिरिति" न्यायान्मनुष्यः पूर्व नरकबद्धायुप्को नरकं जिगमिषुरवश्यं मिथ्यात्वं यत्र समये प्रतिपद्यते ततोऽनरन्तरेऽर्वाक् स्थितिबन्धे (तित्थंति) तीर्थकरनाम उत्कृष्टस्थितिकं बध्नाति "तित्थयरम्मि मणूसो, अविरयसम्मो समप्पेइ" इति वचनात् / इयमत्र भावना तीर्थकरनाम्नो ह्यविरतसम्यग्दृष्ट्यादयोऽपूर्वकरणावसाना बन्धका न भवन्ति किन्तूत्कृष्टा स्थितिरुत्कृष्ट संक्लेशेन बध्यते स च तीर्थकरनामबन्धकेप्वविरतस्यैव यथोक्तविशेषणविशिष्टस्यलभ्यत इति शेषव्युदासेन अस्यैवोपादानमिति भावः तत्र तिर्यञ्चस्तीर्थकरनामाम्नः पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च भवप्रत्ययेनैव भवन्तीति मनुष्यग्रहणम्। बद्धतीर्थकरनामकर्मा च पूर्वमबद्धनरकायुर्नरकं न व्रजतीति पूर्व नरकबद्धायुप्कस्य ग्रहणम् क्षायिकसम्यग्दृष्टिश्च श्रेणिकादिवत्सम्यक्त्वेऽपि कश्विचन्नरकं प्र याति किं तु तस्य विशुद्धत्वेनोत्कृष्टस्थित्यबन्धकत्वात्तस्या एव चेह प्रकृतत्वान्नासौ गृह्यतेऽत्सीतर्थकरनामक ोत्कृष्ट स्थितिबन्धकत्वान्मिथ्याभिमुखस्यैव ग्रहणमिति / तथा आहारद्विकमाहारकशरीराहार-काङ्गो पाङ्गलक्षणम / (अप्पमत्तत्ति) अप्रमत्तसंयतोऽप्रमतत्तभावानिवर्तमान इति विशेषो दृश्यः उत्कृष्टस्थितिकं बध्नाति अशुभा हीयं स्थितिरित्युत्कृष्टसंक्लेशेनेवोत्कृष्टा बध्यते तद्वन्धकश्च अप्र मत्तयतिरप्रमत्तभावान्निवर्तमान एवोत्कृष्टक्लेशयुक्तो लभ्यते इतीत्यथं विशिष्यते। तथा अमरायुर्देवायुष्कं प्रमत्तसंयतः पूर्वकोट्यायुरप्रमत्तभावाभिमुखो वेद्यमानपूर्वकोटिलक्षणायुषो भागद्वये गते सति तृतीयभागस्याद्यसमये उत्कृष्टस्थितिकं पूर्वकोटित्रिभागाधिक त्रयस्त्रिंशत्सागरोपमलक्षणं बध्नाति पूर्वकोटित्रिभागस्य द्वितीयादिसमयेषु बनतो नोत्कृष्ट लभ्यते अबाधायाः परिगलितत्वेन मध्यमत्वप्राप्तेरित्याधसमयग्रहणम् अप्रमत्तभावाभिमुखताविशेषणं तर्हि किमर्थमिति चेदुच्यते शुभेयं स्थितिर्विशुद्धा बध्यते सा चास्य अप्रमत्तभावभिमुखस्यैव लभ्यत इति तर्हाप्रमत्त एवं कस्मादेतद्वन्धकत्वेन नोच्यते इति चेदुच्यते अप्रमत्तस्यायुर्वन्धारम्भनिषेधात् "देवाउयं पमत्तो" इति वचनात् / प्रमत्तैनैवारब्धमायुर्बन्धमप्रमत्तः कदाचित्समर्थयते 'देवाउयंच इकं नायव्वं अप्पमत्तम्मि'' इति वचनात् / शेषानां षोडशोत्तरशतसंख्यप्रकृर्तानां ज्येष्ठस्थितिमुत्कृष्ठस्थिति मिथ्यादृष्टिः सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्टो बध्नातियतः स्थितिरशुभासंक्लेशप्रत्ययावसंक्लिष्टश्च बन्धकेषु मध्ये मिथ्यादृष्टिरेव भवतीति भावः / अत्र च प्रायोवृत्त्या सर्वसंक्लिष्टत्वमुच्यते यावता तिर्यड्मनुष्यायुषी उत्कृष्ट तत्प्रायोग्यो विशुद्धो बध्नातीति दृष्टव्यं तयोः शुभस्थितिकत्वेन विशुद्धिजन्यत्वात् उक्तं च "सव्वठिईणं उक्को-सओ उ उक्कोससंकिलेसेण। विवरीए य जहन्नो, आउगतिगवज्जसेसाणं 'ति ननु यदि विशुद्धित इदमायुष्कद्वयं बध्यते तर्हि मिथ्यादृष्टः सकाशात्सास्वादनो विशुद्धतरः प्राप्यते स कस्मादेतद्वन्धकत्वेन नोक्तो नच वक्तध्यं तिर्यमनुष्यायुषी सास्वादनो न बध्नाति तद्न्धस्य सप्ततिकादिष्वस्यानुज्ञा नात्तथा चोक्तमायुःसंवेधभङ्गकावसरे सप्ततिकाटीकायां तिर्यगायुषां बन्धो मनुष्यायुष उदयस्तिर्यड्मनुष्यायुषी सती एष विकल्पो मिथ्यदृष्टः सास्वादनस्य वा मनुष्यायुषो बन्धो मनुष्यायुष उदया मनुष्यमनुष्यायुषी सती एषोऽपि विकल्पो मिथ्यादृष्टेः सास्वादनस्य वा तत्कथमुक्तं "मिच्छदिट्ठी बंधइ जिट्ठठिइं सेसपयडीणमिति" / अत्र प्रतिविधीयते सत्यामपि हि सामान्यतो मनुष्यतिर्यगायुर्वन्धानुज्ञायामसंख्येयवर्षायुष्कयोग्यमुत्कृष्टं प्रस्तुतायुद्धयं सास्वादनो न निवर्तयति सारस्वादनस्य गुणप्रतिपाताभिमुखत्वेन गुणाभिमुखविशुद्धमिथ्यादृष्टः सकाशाद्विशुद्धधिकस्यानवगस्यमानत्वात् शास्त्रान्तरेऽपिच मिथ्यादृष्टः सकाशादविरतादय एव यथोत्तरमनन्तगुणविशुद्धः पठ्यन्तेन सास्वादनः नचै तन्निजमनीषिकाशल्पिकल्पितं यदाहुः श्रीशिवशर्मसूरिपूज्याः "सव्वुक्कोसठिईण, मिच्छट्ठिी न बंधओ भणिओ। आहारगतित्थर, देवाउंवा वि मुत्तूणं" इह पूर्वं संक्लिष्टो मिथ्यादृष्टिः षोडशोत्तरप्रकृतिशतस्योत्कृष्टस्थितिबन्धकः सामान्येनैवोक्तः स च नारकादिभेदेन चिन्त्यमानश्चतुर्द्धा भवति ततो नारकास्तिर्यचो मनुष्य देवाश्च मिथ्यादृष्टयः पृथक्केषां कर्मणां स्थितीरुत्कृष्टा बन्तीति भेदतश्चिन्तयन्नाह। विगल सुहुमाउगतिगं, तिरिमणुयासूरविउविनिरयदुर्ग। एगिदिथावराय आईसाणसुरुक्कोसं // 43|| त्रिकशब्दस्य प्रत्येकं संबन्धात् विकलत्रिकं द्वीन्द्रियत्रीन्द्रिय