________________ कम्म 278 अभिधानराजेन्द्रः भाग 3 कम्म णं भंते ! गोयं तस्स अंतराइयं पुच्छा गोयमा ! जस्स गोयं तस्स अंतराइयं सिय अस्थि सिय नत्थि जस्स पुण अंतराइयं तस्स गोयं नियम अस्थि / / 7 / / यस्य मोहनीयं तस्यायुर्नियमादकेवलिन इव यस्य पुन-रायुस्तस्य मोहनीयं भजनया यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति क्षीणमोहस्य त्वायुरेवेति (एवं नाम गोयं अंतराइयं च भाणियव्वंति ) अयमर्थो यस्य मोहनीयं तस्य नाम गोत्रमन्तरायं च नियमादस्ति यस्य पुनर्नामादित्रयं तस्य मोहनीयं स्यादस्त्यक्षीणमोहस्येव स्यान्नास्ति क्षीणमोहस्येवेति! अथायुरन्यैस्विभिः सह चिन्त्यते (जस्सणं भंते! आउय मित्यादिदो वि परोप्यरं नियमत्ति) कोऽर्थः / "जस्स आउयं तस्स नियमा नामं जस्स नाम तस्स नियमा आउयं" इत्यर्थः। एवं गोत्रेणापि (जस्स आउयंतस्स अंतराइयं सिय अत्थि सिय नत्थि त्ति) य स्यायुस्तस्यान्तरायं स्यादस्त्यकेवलिवत्स्यान्नास्ति केवलिवदिति "जस्सणं भंते! नाम" इत्यादिना नाम अन्येन द्वयेन सह चिन्त्यते / तत्र यस्य नाम तस्य नियमानोत्रं यस्य गोत्रं तस्य नियमान्नाम। तथा यस्य नाम तस्यान्तरायं स्यादस्त्य-केवलिवत्स्यानास्तिकेवलिवदिति। एवं गोत्रान्तराययोरपि भजना भावनीयेति भ०८ श०१० उ० / इत्युक्तं प्रकृतिकर्म। अथ स्थितिकर्म तंत्र कर्मणा स्थितिनिषेकौ - नाणावरणिजस्स णं भंते ! कम्मस्स केवतियं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुत्तं उक्कोसेणं तीसं / सागरोवमकोडाकोडीओ तिण्णि य वाससहस्साइं अवाहा अवाहूणि ता कम्मठिई कम्मणिसेगो। ज्ञानावरणीयस्य मतिश्रुतावधिमनःपर्यायके वलावरणभेदतः पञ्चप्रकारस्य कर्मणो भदन्त ! कियन्तं कालं यावत् स्थितिः प्रज्ञप्ता एवमुक्ते भगवानाह / गौतम ! जघन्येनान्तर्मुहूर्त तच सर्वलघु सूक्ष्मसंपरायस्य क्षपकस्य स्वगुणस्थानकचरमसमये वर्तमानस्य वेदितव्यम् / उत्कर्षतस्त्रिंशत्सागरोपमकोटीकोटयः सा च मिथ्यादृष्टगत्कृष्ट संक्लेशे वर्तमानस्यावसातव्या तदेवं नियताप्रागुक्तस्य प्रश्नस्योत्तरसिद्धिः / इदमपृष्टव्याकरणं त्रीणि वर्षसहस्राणि अबाधा अबाधोना कर्मस्थितिः कर्मदलिकनिषेक इति / किमर्थमिति चेदुध्यते स्थितिद्वैविध्यप्रदर्शनार्थ तथा हि द्विविधा स्थितिः कर्मरूपतावस्थानलक्षणा अनुयोग्याच। तत्र कर्मरूपतावस्थानलक्षणां स्थितिमधिकृत्येदमुक्तम् त्रिंशत्सागरोपमकोटीकोटय इति / अनुभवयोग्या च वर्षसहस्रत्रयोना यत आह च त्रीणि वर्षसहस्राण्याबाधा इदमुक्तं भवति ज्ञानावरणीयं कर्मउत्कष्टस्थितिकं बन्धं सत् बन्धसमयादारभ्य त्रीणि वर्षसहस्राणि यावन्न किंचिदपि स्वादयते जीवस्य बाधामुत्पादयति तावत्कालमध्ये दलिकनिषेकस्याभावात् / तत ऊर्थ हि दलिक निषेकः / तथा चाह अबाधोना अबाधाकालपरिहीना अनुभवयोग्या कर्मस्थितिः किमुक्तं भवति कर्मनिषेकः / स चैवं प्रथमस्थितौ प्रभूतो द्वितीयस्थितौ विशेषहीन एवं विशेषहीनो विशेषहीनश्च तावद्वक्तव्यो यावत् स्थितिचरमसमयः / एतावता च यदुक्तमग्रायणीयाख्ये द्वितीये पूर्वकर्मप्रकृते प्राभृते बन्धविधाने स्थितिबन्धाधिकारे चत्वार्यनुयोग- | द्वाराणि तद्यथा स्थितिबन्धस्थानप्ररूपणा अबाधाकण्डकप्ररूपणा उत्कृष्टनिषेकप्ररूपणा अल्पबहुत्वप्ररूपणाचेति तत्रोत्कृष्टाबाधाकण्डक प्ररूपणा उत्कृष्टनिषेकप्ररूपणा च दर्शिता भवति / आबाधाकालपरिज्ञानीयश्चायं यस्य यावत्यः सागरोपमकोटीकोट्यस्तस्य तावन्ति वर्षशतान्याबाधा। यस्य पुनः सागरोपमकोटीकोट्यो मध्ये स्थितिस्तस्यायुर्वर्जस्यान्तर्मुहूर्तमायुषस्तु जघन्यतोऽन्तर्मुहूर्तमयाधा उत्कर्षतः पूर्वकोटीत्रिभागः / तत एवमबाधाकालं परिभाव्याबाधाविषयाणि स्वयं भावनीयानि। तत्र निद्रापञ्चकविषयं सूत्रमाहनिहापंचयस्सणं भंते ! कम्मस्स केवइयं कालं ठिई पण्णत्ता ? गोयमा! जहण्णेणं सागरोवमस्स तिन्निसत्त भागा पलिओवमस्स असंखेजइभागेणं ऊणता उक्कोसेणं तीसं सागरोवमकोडाकोडीओ तिनि वाससहस्साई अवाहा अवाहूणि ता कम्मद्विई कम्मनिसेगो। अत्र जघन्यतः त्रयः सागरोपमस्य सप्त भागाः पल्योपमासंख्येयभागोनाः। काऽत्र भावनेति चेदुच्यतेपञ्चानां ज्ञानावरणप्रकतीनां चतसृणां दर्शनावरणप्रकृतीनां चक्षुर्दर्शनादीनां संज्वलनलोभस्यपश्चानामन्तरायप्रकृतीनां च जघन्या स्थितिरन्तर्मुहूर्त सातवेदनीयस्य सकषायिकस्य द्वादश मुहूर्ताः / इतरस्य तु द्वौ प्रथमसमये बन्धो द्वितीयसमये वेदनं तृतीयसमये त्वकर्मी भवनमिति यशःकीयुथैर्गोत्रयोरष्टौ मुहूर्ताः / पुरुषस्याष्टौ संवत्सराणिसंज्वलनक्रोधस्यद्वौ मासौ संज्वलनमानस्यैको मासः संज्वलनमायाया अर्द्धमासःशेषाणां तु प्रकृतीनां या या स्वकीया स्थितिस्तस्या उत्कृष्टायाः सप्ततिसागरोपमकोटीकोटीप्रमाणायामिथ्यात्यस्थित्या भागे हृते यल्लभ्यते तत्पल्योपमा संख्येयभागहीनं जघन्यस्थितिपरिमाणम् / तत्र निद्रापञ्चकस्योत्कृष्टा स्थितिविंशत्सागरोपमकोटीकोट्यस्तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे ह्रियमाणे शून्यं शुन्येन पातयेदिति वचनात् लब्धाश्चात्र ये सागरोपमस्य सप्त भागाः ते पल्योपमसंख्येयभागहीनाः क्रियन्ते ततो भवति यथोक्तं जघन्यस्थितिपरिमाणमिति॥ दर्शनचतुष्कस्यदंसणचउक्कस्सणं भंते ! पुच्छा गोयमा! जहन्नेणं अंतो-मुहुत्तं उक्कोसेणं तीसं सागरोवमकोडीकोडीओ तिनिय वाससहस्सं अबाहा।। वेदनीयस्यसातवेदणिज्जस्स इरियावहियबंधगं पडुच अज-हन्नमणुकोसेणं दो समया संपराइयबंधगं पडुच जहन्नेणं बारस मुहुत्ता उक्कोसेणं पन्नरस सागरोवमकोडाकोडी पन्नरस यवाससहस्साइंअबाहा। असातावेदणिज्जस्स जहन्नेणं सागरोवमस्स तिनि सत्त भागा पलिओवमस्स असंखेज्जइ-भागेण ऊणता उक्कोसेण तीसं सागरोवमकोडाकोडी तिन्नि वाससहस्साई अबाहा / सम्मत्तवेदणिज्जस्स पुच्छागोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं छावठिसागरोवमाइं सातिरेगाई।। (सायावे यणि स्स इति) "इरियायहिब धगं पडु च अजहन्नमणुक्कोसेणं दो समया संपराइबंधगं पडुच जहन्नेणं वारस मुहुत्ता'" इति प्रागेव भावितम् / असातवेदनीयस्य जघन्यास्त्रयः सप्त भागाः पल्योपमासंख्येयभागोना निद्रापञ्चकबद् भावनीया