________________ कम्म 276 अभिधानराजेन्द्रः भाग 3 कम्म व्यवच्छेदो यकाभ्यः ता निरन्तरा इति व्युत्पत्तेः ताश्च प्रागुक्ता ध्रुवबन्धिन्यादयः ता हि जघन्येनाप्यतमुहूर्तं यावदवश्यं नैरन्तर्येण बध्यन्ते इति। तदेवमुक्ता निरन्तरादि प्रकृतयः // 60|| संप्रत्युदयबन्धोत्कृष्टादि प्रकृतीर्विवक्षुः प्रथमतोऽभिधानकारणमाह। उदए व अणुदय वा, बंधाओ अन्नसंकमाओवा। ठिइसंत जाण भवे, उक्कोसं ता तदक्खाओ ||1|| यासां प्रकृतीनामुदये वा अनुदये वा बन्धादन्यप्रकृतिदलिकसंक्रमतो वा स्थितिसत्कर्मोत्कृष्टं भवति तास्तदाख्यास्तदनुरूपसंज्ञका वेदितव्यास्तद्यथा / यासां प्रकृतीनां विपाकोदये सति बन्धादुत्कृष्ट स्थितिसत्कर्मावाप्यतेता उदयबन्धोत्कृष्टसंज्ञाःयासां तु विपाकोदयाभावे बन्धादुत्कृष्टस्थितिसत्कर्मावाप्तिस्ता अनुदयबन्धोत्कृष्टा यासां पुनर्विपाकोदये प्रवर्तमाने सति संक्रमत उत्कृष्ट सत् स्थितिकर्म लभ्यते न बन्धतस्या उदयसत्कर्मोत्कृष्टाभिधानाः। यासां पुनरनुदये संक्रमतः उत्कृष्टस्थितिलाभस्ता अनुदयसंक्रमोत्कृष्टाख्याः ||6|| तत्रानुपूर्व्यप्यस्तीति ख्यापनाय प्रथमत उदय ___संक्रमोत्कृष्टाख्याः प्रकृतीः कथयति। मणुगइसायं सम्म, थिरहासाइछ वेयसुभखगई। रिसहचउरस्सगाई, पडुच उदसंतमुकोसा / / 6 / / मनुष्यगतिः सातवेदनीयं सम्यक्त्वं स्थिरादिषट्कं स्थिरशुभसुभगसुस्वरादेययशः कीर्तिलक्षणं हास्यादिषट्कं हास्यरतिशोकभयजुगुप्सालक्षणं वेदत्रिकं पुन्नपुंसकस्त्री वेदरूपं शुभविहायोगतिवजर्षभनाराचादीनि संहननानि समचतुरस्रादीनि पञ्च संस्थानानि उचैर्गोत्रमित्येतास्त्रिंशत्प्रकृतय उदयसंक्रमोत्कृष्टाः आसां हि प्रकृतीनामुदयप्राप्तानां या विपक्षभूता नरकगत्यसातवेदनीयमिथ्यात्वादयः प्रकृतयस्तासामुत्कृष्टां स्थिति बध्वा भूय आसामेवोदयप्राप्तानां बध्यमानासु चैतासु अनन्तरबद्धनरकगत्यादिविपक्षे प्रकृतिदलिक संक्रमयति शुभप्रकृतीनां स्थितिः स्वबन्धेन स्तो कै व भवति अशुभानामुत्कृष्टा ततः संक्रमतः आसामुत्कृष्टा स्थितिरवाप्यते इत्येता उदय-संक्रमोत्कृष्टाभिधानाः ||2|| सांप्रतमनुदयसंक्रमोत्कृष्टाः प्रतिपादयति-- मणुयाणुपुटवीमीसग, आहारगदेवजुगलविगलाणि। सुहुमाइ तिगं ति अ-णुदयसंकमणउकोसा ||6|1 . मनुष्यानुपूर्वी सम्यग्मिथ्यात्वमाहारकयुगलमाहारकाङ्गोपाङ्ग लक्षणं देवयुगलं देवगतिदेवानुपूर्वी रूपं विकलत्रिकं विकलेन्द्रियजातित्रिकम् दीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिरूपं सूक्ष्मत्रिकं सूक्ष्मापर्याप्तसाधारणलक्षणं तीर्थङ्करनाम एतास्त्रयोदश प्रकृतयः अनुदयसक्रमोत्कृष्टा यत एवासामुत्कृष्टा स्थितिः स्वबन्धतो नावाप्यते किं तु संक्रमतः संक्रमतोऽप्युत्कृष्टा स्थितिस्तदावाप्यते यदा एतद्विपक्षप्रकृतीरुत्कृष्टस्थिती-ध्वा तदनन्तरमेतासु बध्यमानासु तद्दलिकं संक्रमयति एतद्विपक्षप्रकृतीनांच उत्कृष्टस्थितिबन्धकः प्रायो मिथ्यादृष्ट्यादिमनुष्यो नच तदानीभासामुदयोऽस्तीत्यनुदयसंक्रमोत्कृष्टाः / / 63|| संप्रत्यनुदयबन्धोत्कृष्टोदयबन्धोत्कृष्टप्रकृतीराहनारयतिरिसरलदुगु, छेवढेगिंदिथावरायावं / निहा अणुदय जेहा, उदउक्कोसा पराणाउ ||6|| नरकतिर्यद्विकौदारिकद्रिकसेवार्तसंहननैकेन्द्रियजातिस्थावरनामतपनामानि पञ्च निद्रा इत्येता पञ्चदश प्रकृतयोऽनुदयबन्धोत्कृष्टाः शेषाः पुनरनायुष आयुश्चतुष्टयरहिताः पञ्चेन्द्रियजातिवैक्रियद्विकहुण्डसंस्थानपराघातोच्छवासोद्योतविहायोगतयोऽगुरुलधुतैजसकार्मणनिर्माणोपघातवर्णादिचतुष्कान्यस्थिरादिषट्कंत्रसादिचतुष्कमसातवेदनीयं नीचैर्गोत्रं षोडश कषाया मिथ्यात्वं ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनावरणचतुष्टयमित्येताः षष्टिः प्रकृतय उदयबन्धोत्कृष्टाः एतासामुदयप्राप्तानां स्वबन्धनतः उत्कृष्टा स्थितिरवाप्यते एता उदयबन्धोत्कृष्टाभिधानाः आयुषांतुन परस्परसंक्रमो नापि बध्यमानायुर्दलिक पूर्वबद्धस्यायुष उपचयाय भवति तत एके नापि प्रकारेण तिर्यग्मनुष्यायुषोरुत्कृष्टा स्थिति वाप्यते इति ते अनुदयबन्धोत्कृष्टादि संज्ञाचतुष्टयातीते। देवनारकायुषी तु यद्यपि परमार्थतोऽनुदयबन्धोत्कृष्ट तथापि प्रयोजनाभावतः पूर्वसूरिभिः संज्ञाचतुष्टयातीते विवक्षिते इति तयोरपि प्रतिषेधः। संप्रत्युदयवत्यनुदयवत्योः प्रकृत्योर्लक्षणमाहचरिमसमयम्मि दलियं, जासिं अन्नत्थ संकमे ताओ। अणुदयवयइयरा उ, उदयवई हॉति पगईओ ||6|| यासां प्रकृतीनां दलिकं चरमसमयेऽन्त्यसमये अन्यत्रान्यासु प्रकृतिषु स्तिवुकसंक्रमेण संक्रमयेत् संक्रमय्य चान्यप्रकृतिव्यपदेशेनानुभवेत् न स्वोदयेनता अनुदयवत्योऽनुद यवतीसंज्ञाः इतरास्तु प्रकृतयः उदयवत्यो भवन्ति यासां दलिकं चरमसमये स्वविपाकेन वेदयते। संप्रति ता एवोदयवतीरभिधातुकाम आहनाणंतरायआउग-दंसणचउ वेयणीयमपुमित्थी। चरिमुदयउयवेयग-उदयवई चरिमलोभो य / / 6 / / ज्ञानावरणपञ्चकमन्तरायपञ्चकमायुश्चतुष्टयं दर्शनचतुष्टयं सातासातवेदनीये स्त्रीनपुंसकवेदौ चरमोदया नामनवकरुपास्ताश्चेमा मनुष्यगतिः पञ्चेन्द्रियजातिस्वसनाम बादरनाम पर्याप्तकनाम शुभनाम सुस्वरनाम आदेयनाम तीर्थङ्करनाम तथा उचैर्गोत्रं वेदकसम्यक्त्वं चरमलोभः संज्वलनलोभः इत्येताश्चतुस्त्रिंशत् प्रकृतयः उदयवत्यस्तथा हि ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायान्त्यसमये चरमोदयानां च नामनवकलक्षणानां साता-सातवेदनीययोरुच्चैर्गोत्रस्य च सर्वसंख्यया द्वादशप्रकृतीनामयोगिकेवलिचरमसमये संज्वलनलोभस्य सूक्ष्मसंपरायान्त्यसमये वेदकसम्यक्त्वस्य स्वक्षपणपर्यवसानसमये स्त्रीनपुंसकवेदयोः क्षपकश्रेण्यामनिवृत्तिबादरसंपराद्धायाः संख्येयेषु भागेष्वतिक्रान्तेषु तदुदयान्तरसमये आयुषां चस्वस्वभवचरमसमये स्ववेदनमस्ति तत एता उदयवत्योऽभिधीयन्ते। यद्यपि सातासातवेदनीययोः स्त्रीनपुंसकवेदयोश्चानुदयवतीत्वमपि संभवति तथाऽपि प्रधानमेव गुणमवलम्ब्य सत्पुरुषा व्यपदेशं प्रयच्छन्तीति उदयवत्यः पूर्वपुरुषैरुपदिष्टाः शेषास्तु चतुर्दशोत्तरशतसंख्या अनुदयवत्यः तासां दलिकस्य चरमसमये अन्यत्र संक्रमणतः स्वविपाकवेदनाभावात् तथाहि चरमोदयसंज्ञा नामनवकनरकतिर्यग्द्वकैवद्वित्रिचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणातपोद्योतवर्जाः शेषा नाम एकसप्ततिप्रकृतयो नीचैर्गोत्रं चेत्येता द्विसप्ततिप्रकृतिः सजातीयासु परप्रकृतीषूदयमागतासु चरमसमये स्तिवुक संक्रमणे प्रक्षिप्य परप्रकृतीव्यपदेशेनानुभवत्ययोगिके वली एवं निद्राप्रचले क्षीणकषायः तथा मिथ्यात्वं सम्य