________________ 275 अभिधानराजेन्द्रः भाग 3 कम्म वोच्छिखंति समं चिय, कमसो सेसाण उक्कमेणं तु। अहण्हमजससुरतिग-वेउव्वाहारजुयलाणं / / 17 / / गतोऽपनीतश्वरमो लोभः संज्वनरूपो यस्य सः गतचरमलोभः सचासौ ध्रुवबन्धिप्रकृत्यात्मको मोहश्च गतचरमलोभध्रुवबन्धिमोहः मोहनीयसक्ताः संज्वलनलोभहीनाः पञ्चदशकषायमिथ्यात्वभवजगुप्सारूपाः अष्टादश ध्रुवबन्धिन्य इत्यर्थः तासां तथा हास्यरत्यरतिमनुजानुपूर्वीणां तथा सूक्ष्मापर्याप्तसाधारणरूपसूक्ष्मत्रिकातपनाम्नोः सपुरुषवेदयोः पुरुषवेदसहि तयोः सर्वसंख्यया षड्दिशतिप्रकृतीनां सममेवसमकालमेव बन्धोदयौ व्यवच्छिद्येते तथा हि सूक्ष्मक्रियातपमिथ्यात्वानां मिथ्यादृष्टावनन्तानुबन्धिनां सासादने मनुष्यानुपूर्वी द्वितीयकषायाणामविरते प्रत्याख्यानावरणकषायाणां देशविरते हास्यरतिभयजुगुप्सानामपूर्वकरणे संज्वनत्रिक पुंवेदयोरनिवृत्तिवादसंपराये बन्धोदयौ समकमेव व्यवच्छेदमाप्नुतःतत एताः समकव्यवच्छिद्यमानबन्धोदयाः शेषाणां तूक्तवक्ष्यमाणव्यतिरिक्तानां षडशीति प्रकृतीनां क्रमेण बन्धोदयौ व्यवच्छिद्येते तद्यतः पूर्व बन्धस्य व्यवच्छेदः पश्चादुदयस्य तथा हि ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयानां सूक्ष्मसंपरायचरमसमये बन्धव्यवच्छेदः उदयव्यवच्छेदः क्षीणकषायचरमसयमे निद्राप्रचलयोः बन्धव्यवच्छेदोऽपूर्वकरणप्रथमभागे उदयव्यवचछेदः क्षीणकषायाद्विचरमसमये तथा असातवेदनीयस्य प्रमत्तेसातवेदनीयस्य सयोगिचरमसमये तथा असातवेदनीयचरमसमये बन्धव्यवच्छेद उदयव्यच्छेदः पुनरुभयोरपिसयोगिकेवलिचरमसमये अयोगिकेवलिचरमसमये वा / तथा चरमसंस्थानस्य मिथ्यादृष्टौ मध्यमसंस्थान चतुष्टयाप्रशस्तविहायोगतिदुःस्वरनाम्नांसासादने औदारिकद्विकप्रथमसंहननयोरविरतसम्यग्दृष्टौ अस्थिराशुभयाः प्रमत्ते तैजसकार्मणसमचतुरस्रसंस्थानवर्णादिचतुष्कादिगुरुलघुचतुष्टय प्रत्येक स्थिरशुभसुस्वर निर्माणानामपूर्वकरणषष्ठे भागे बन्धव्यच्छेदः / पुनरासां सर्वासामपि प्रकृतीनामष्टाविंशतिसंख्यानां सयोगिके वलिचरमसमये तथा मनुप्यत्रिकस्य बन्धव्यवच्छेदोऽविरतसम्यग्दृष्टौ पञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेयतीर्थङ्करनाम्नामपूर्वक रणषष्ठ भागे यशःकीर्युचैर्गोत्रयोः सूक्ष्मसंपरायचरमसयमे उदयव्यवच्छेदः / पुनरासां द्वादशानामपि प्रकृतीनामयोगिकेवलिचरमसमये। तथा स्थावरैकद्वित्रिचतुरिन्द्रियजातीनां नरकत्रिकस्यान्तिमसंहननस्य नपुंसकवेदस्य मिथ्यादृष्टौ बन्धव्यवच्छेद उदयव्यवच्छेदः पुनर्यथाक्रम सासादने अविरतसम्यग्दृष्टावप्रमत्तसंयते अनिवृत्तिबादरसंपराये तथा तिर्यगानुपूर्वीदुर्भगानादेयानां तियर्गतितिर्यगायुरुद्योतनीचैर्गोत्राणांस्त्यानद्धित्रिकस्य चतुर्थपञ्चमसंहननयोर्द्वितीयतृतीय संस्थानयोश्च बन्धव्यवच्छदेः सासादनस्य सम्यग्दृष्टौ उदयव्यवच्छेदः पुनर्यथासंख्यमविरते देशविरते प्रमत्तसंयतेऽप्रमत्तसंयते उपशान्तमोहे तथा अरतिशोकयोर्बन्ध व्यवच्छेदः प्रमत्तसंयते उदयव्यवच्छेदोऽपूर्वकरणे संज्वलन लोभस्य बन्धे व्यवच्छेदोऽनिवृत्तिबादरसंपरायचरमसमये उदयव्यच्छेदः सूक्ष्मसंपरायान्तिमसमये तत एताः षडशीतिरपि प्रकृतयः क्रमव्यवच्छिद्यमानबन्धोदयाः। तथा अष्टानामयश कीर्तिसुरत्रिकवैक्रियद्विकाहारकद्विकरूपाणामुत्क्रमेण प्रागुदयस्य व्यवच्छेदः पश्चाद्वन्धस्यवैरूपेणं व्यवच्छिद्येते बन्धोदयौ / तथा हि अयशः कीर्तिसुरत्रिकवैक़ियद्विकाहारकद्विकरूपाणमुत्क्रमेण प्रागुदयस्यव्यवच्छेदः पश्चाद्वन्धस्यैवंरूपेण व्यवच्छिद्येते बन्धोदयौ / तथा हि अयशः कीर्ति प्रमत्ते देवायुषोऽप्रमत्ते देवद्विकवैक्रियद्विकयोरपूर्वकरणे बन्धव्यवच्छेद उभयव्यवच्छेदस्तु षण्णामप्यविरतसम्यग्दृष्टौ आहारकद्विकस्य पुनरपूर्वकरणे बन्धव्यवच्छेद उदयव्यवच्छेदोऽप्रमत्तसंयते तत एता अष्टावपि उत्क्रमबन्धव्यवच्छिद्यमानबन्धोदयाः। सांप्रतं सान्तरादिप्रकृतीः प्ररूपयति। धुवबंधिणी उ तित्थगर, नाम आउयचउक्कवावन्ना / एया निरंतराओ, सगवीसुभसंतरा सेसा / / 18 / / ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणनयकषायषोडशकमिथ्यात्वभयजुगुप्साऽगुरुलघुनिर्माणतैजसकार्मणोपघातवर्णादिचतुष्टयरूपाः सप्तचत्वारिंशद् ध्रुवबधिन्यः तीर्थङ्करनाम आयुश्चतुष्टयमिति द्विपञ्चाशत्संख्याः प्रकृतयो निरन्तरा वक्ष्यमाणशब्दार्था वेदितव्याः / तथा वक्ष्यमाणाः सप्तविंशतिप्रकृतय (उभ) इति उभयाः सान्तरनिरन्तरा इत्यर्थः शेषास्तु एकचत्वारिंशत्प्रकृतयः सान्तराः। अधुना पूर्वोद्दिष्टाः सप्तविंशतिप्रकृतीरुपदर्शयति। चउरंसउसमपरघाय-उसासपुंसरगलसायसुभखगई। वेउव्विउरलसुरनर-तिरिगोयसुसरतसतिचउ / / 6 / / समचतुरस्रसंस्थानं वज्रर्षभनाराचसहननं पराधातनाम उच्छ्वासनाम पुरुषवेदः पञ्चेन्द्रियजातिः सातवेदनीयं शुभविहायो गतिः वैक्रियद्विकमौदारिकद्विकं सुरद्विकं मनुष्यद्विकं तिर्यग्द्विकं गोत्रद्विकं (सुसरतिचउत्ति) यथाक्रममत्र संख्यासंख्येययोजना सुस्वरत्रिकं सुस्वरं सुभगानादेयरूपं त्रसचतुष्कं त्रसबादरपर्याप्तप्रत्येकलक्षणमित्येताः सप्तविशति-प्रकृतयः सान्तरनिरन्तराः। ___ सांप्रतं सान्तरादिव्यपदेशनिबन्धनामाहसमयाउ अंतमुहुत्त-उकोसो जाण संतरा ताओ। बंधे हियम्मि उमया-निरंतरा तम्मि उ जहन्ने / / 6 / / यासां प्रकृतीनां जघन्यतः समयमात्रबन्ध उत्कर्षतः समयादारभ्य यावदन्तर्मुहूर्त न परतस्याः सान्तराभिधानाः बन्धमधिकृत्यान्तमुहूर्तमध्येऽपि सह अन्तरेण अवधानेन व्यवच्छेदलक्षणेन वर्तन्ते यास्ताः सान्तरा इति व्युत्पत्तिबलात्ताश्चेमास्तद्यथा। असातवेदनीयस्त्रीवेदनपुंसकवेद हास्यरत्यतिशोकनरकद्विकाहारकद्विकाद्यरहितसंस्थानपञ्चकाधरहितसंहननपञ्चकजातिचतुष्टयातपोद्योप्रशस्त-विहायोगति स्थिरशुभयश-कीर्तयः स्थावरादिदशकं च / एता हि जघन्यतः समयमात्रं बध्यन्ते उत्कर्षतः अन्तर्मुहूर्त परतस्तु निजबन्धहेतुसद्भावेऽपि तथास्वाभाव्यतस्तद्योग्याध्यवसायपरावर्तनेन नियमतः प्रतिपक्षप्रकृतीवध्नाति ततः सान्तरा अभिधीयन्ते। तथा यासां प्रकृतीनां जधन्यतः समयमात्रं बन्धमुत्कर्षतः समयादारभ्य नैरन्तर्येणान्तर्मुहुर्तस्योपर्यपि असंख्येयं कालं यावत्ता उभयाः सानतरनिरन्तरा इत्यर्थः / बन्धमधिकृत्यान्तमुहूर्तमध्ये सान्तराश्च निरन्तराश्चेति कृत्वा ताश्च प्रागुक्ताः समचतुरस्रादयः सप्तविंशतिप्रकृतयःता हि जघन्यतः समयमात्रं बध्यन्ते ततः सान्तरा उत्कर्षतोऽनुत्तरसुरादिभिरसंख्येयमपि कालं ततोऽन्तर्मुहूर्तमध्ये व्यवच्छेिदाभावान्निरन्तराः। (तम्मि उ जहन्ने इत्ति) जघन्ये इति जघन्येनापियाः प्रकृतयोऽन्तमुहूर्तं यावत् नैरन्तर्येण बध्यन्ते ता निरन्तराः। निर्गतं बन्धमधिकृत्यान्तर्मुहूर्तमध्ये अन्तरं व्यवधानं