________________ कम्म 275 अमिधानराजेन्द्रः भाग 3 कम्म स्थानकरसबन्धः / अत्रोत्तरमाह "तनेत्यादि" यदेतदुक्तं तन्न यस्मात् स्थितिरसंख्येयगुणा एवानुभागाः तुरेवकारार्थः / कोऽत्र भाव इति चेदुच्यते / इह प्रथमस्थितेरारभ्य समयसमयवृद्धया सर्वसंकलनेन परिभाव्यमानाः असंख्येयाः स्थितिविशेषा एकैकस्यां च स्थितावसंख्येया ये रसस्पर्द्धका रसस्पर्द्धक-संघातविशेषाः। तत् उत्कृष्टस्थिता बध्यमानायां प्रतिस्थितिविशेषमसंख्येया ये रसस्पर्द्धकसंघाताविशेषास्ते तावन्तो द्विस्थानकरसस्यैव घटन्ते नैकस्थानकस्येति न शुभप्रकृतीनामुत्कृष्टस्थिति बन्धोऽप्येकस्थानकरसबन्धः / / 51|| __ संप्रति सत्कर्माधिकृत्य परप्रश्नमपाकर्तुमाह - दुविहमिह संतकम्म, धुवाधुवं सूइयं च सद्देणं / धुव संतं चिय पढमा, जओन नियमा वि संयोगा ||5|| द्वारगाथोपन्यस्तेन चशब्देनेदं सत्कर्म द्विविधं द्विप्रकारं सूचितम् तद्यथा ध्रुवमधुवं च। तत्र यत्सर्वसंसारिणामनवाप्तोत्तरगुणानां सातत्वेन भवति तत्ध्रुवसत्कर्म। एतच प्रागेवोक्तम्। ध्रुवसत्कर्मप्रकृतयश्च चतुरुत्तरशतसंख्याकास्ताश्चेमास्तद्यथा ज्ञानावरणनवकं सातासातवेदनीये मिथ्यात्वं षोडश कषाया नव नोकषायास्तिर्यग्द्रिकं जातिपञ्चकमौदारिकद्विकं तैजसकार्मणे संस्थानषट्कं संहननषट्कं वर्णादिचतुष्कं विहायोगतिद्विकं पराघातोच्छ्वासातपोद्योतागुरुलघुनिर्माणोपघातनामानि सादिविंशतिर्नी चैर्गोत्रमन्तरायपञ्चकमिति / यत्पुनरवाप्तगुणानामपि कदाचिद्भवति कदाचिन्न तदध्रुवसत्कर्म एवं चसति यत्परेणोच्यते नन्वनन्तानुबन्धिनामप्युदलना संभवतीति कथं तेषामध्रुवसत्कर्मता नाभिधीयत इति तदषास्तमवगन्तव्यम्। तथा चाह "ध्रुवसंतमित्यादि'" यतो यस्मात्कारणात् न प्रथमानामनन्तानुबन्धिनां कषायाणां नियमात् गुणप्राप्तिमन्तरेणावश्यंभावितया विसंयोगो विसंयोजना भवति किं तु उत्तरगुणप्राप्तिवशात् नयोत्तरगुणप्राप्तिवशतः सत्तोपरमः प्रकृतीनामध्रुवसत्कर्मव्यपदेशहेतुरन्यथा सर्वासामपि कर्मप्रकृतीनां तत्तदुत्तरगुणयोगतः सत्तोपरमोऽस्तीति सर्वा अप्यध्रुवसत्कर्मव्यपदेशयोग्या भवेयुर्नचैतदस्ति तस्माद् प्रथमा अनन्तानुबन्धिनः कषाया ध्रुवसन्त एव सम्यक्त्वसम्यग्मिथ्यात्वतीर्थंकराहारकद्विकानि तदुत्तरगुणप्राप्तावेव सत्तां लभन्ते अतस्तानि सुप्रतीतान्येवाध्रुवसत्ताकानि // 12 // इदं वक्ष्यमाणप्रकृतिस्वरूपप्रतिपादकमन्यकर्तृकं द्वारगाथाद्वय-मस्ति तच मन्दमतीनां सुखावबोधहेतुरतस्तदपि लिख्यते। अणुदयउदओभयब-धिणीउ उभबंधउदयवोच्छेया। संतरउभयनिरंतर-बंधा(उ) दयसंकमुक्कोसा ||13|| अणुदयसंकमजेट्ठा, उदए णुदए य बंध उक्कोसा। उदयाणुदयवईओ, तितिचउदुहन सव्वाओ|१४|| इह प्रकृतयस्विधा तद्यथा स्वानुदयबन्धिन्यः स्वोदयबन्धिन्यः उभयबन्धिन्यश्च / तत्र स्वस्यानुदये एव बन्धो विद्यते यासां ताः स्वानुदयबन्धिन्यः / स्वस्योदय एव बन्धो विद्यते यासां ताः स्वोदयबन्धिन्यः / तथा उभयस्मिन् उदयेऽनुदये वा बन्धोऽस्ति यासां ता उभयबन्धिन्यः / पुनरव्यन्यथा त्रिधा प्रकृतयस्तद्यथा समकव्यवच्छिद्यमानबन्धोदयाः क्रमव्यवच्छिद्यमानबन्धोदयाः उत्क्रमव्यवच्छिद्यमानाबन्धोदयाश्च। तत्र समकमेककालं व्यवच्छिद्यमानो बन्धोदयोयासां ताः समकव्यवच्छिद्यमान-बन्धोदयाः। ताश्च "उभ'' इत्यनेन पर्दन गृहीताः। तथा क्रमेण पूर्व बन्धः पश्चादुदय इत्येवंरूपेण व्यवच्छिद्यमानी बन्धोदयौ यासां ताः क्रमव्यच्छिद्यमानबन्धदियाः। ताश्च "बंध" इत्यनेनांशेन परिगृहीताः / तथा उत्क्रमेण पूर्वमुदयः पश्चाद्न्धः इत्येवलक्षणेन व्यवच्छिद्यमानौ बन्धोदयो यासांता उत्क्रमव्यवच्छिद्यमानबन्धोदयाः। एताश्च "उदय" इत्यनेनावयवेन संगृहीताः। पुनरप्यन्यथा त्रिधा प्रकृतयस्तद्यथा "संतरउभयनिरंतरबंधाउत्ति" सान्तरबन्धाः उभयबन्धा इति सान्तरनिरन्तरबन्धाः निरन्तरबन्धाश्च / एतासां च लक्षणं स्वयमेवाचार्योऽग्रे वक्ष्यतीति नाभिधीयते पुनरप्यन्यथा चतुर्दा प्रकृतयस्तथा चाह। "उदयसंकमुक्कोसा इत्यादि" उदयसंक्रमोत्कृष्टा "अणुदयसंकमजेट्ठा इति" अनुदयसंक्रमोत्कृष्टा / "उदयणुदएयबंधउकोसा इति" उदयबन्धोत्कृष्टा अनुदयबन्धोत्कृष्टाश्च। तथा पुनरन्यथा द्विधा प्रकृतयस्तद्यथा उदयवत्योऽनुदयवत्यश्च। “तिति इत्यादि'' एताः सर्वा अपि प्रकृतयो यथाक्रमं त्रित्रिचतुर्दा भवन्ति ताश्च तथैव पूर्वमुद्दिष्टाः / संप्रत्येताः सर्वा अपि क्रमेण वक्तव्यास्तत्र प्रथमतः स्वानुदयोदयोभयबन्धिनीः प्रकृतीनिदिदि-क्षुराह।। देवनिरयवेनउदिव-यछक्कमा हारजुयलतित्थाणं / बंधो अणुदयकाले, धुवोदयाणं तु उदयम्मि / / 15 / / देवायुर्नरकायुर्देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वीवैक्रियशरीरवैक्रियाङ्गोपाङ्ग लक्षणं वैक्रियषट्कमाहारकद्विकमाहरकशरीरमाहारकाङ्गोपाङ्गरूपं तीर्थङ्करनामैतासामेकादशप्रकृतीनां बन्धः स्वस्वानुदयकाल एव तथा हि देवगतित्रिकस्य देवगतौ वर्तमानस्योदयो नरकत्रिकस्य नरकगतौ वैक्रियद्विकस्योभयत्र / न च देवा नारका वा एताः प्रकृतीबध्यन्ति तथा भवस्वाभाव्यात् / तीर्थकरनामापि च केवलज्ञानप्राप्तावुदयमागच्छतिनचतदानीं तस्य बन्धः अपूर्वकरणगुणस्थानक एव तस्य बन्धव्यवच्छेदात् / आहारककरणव्या तश्य लब्ध्युपजीवनेन प्रमादभावतस्तदुत्तरकालवी तु तथाविधविशुद्ध्यभावतो मन्दसंयमावस्थनवर्तित्वान्नाहारकद्विकबन्धमारभते तत एताः सर्वा अपि स्वानुदयबन्धिन्यः ध्रुवोदयानां पुननिावरणपञ्चक दर्शनावरणचतुष्टयान्तरायपञ्चकमिथ्यात्वनिर्माणतैजसकार्मणस्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुभाशुभलक्षणानां सप्तविंशति - प्रकृतीनामुदय एव सति बन्ध उपजायते धुवोदयतया तासां सर्वदोदयभावात् अतो ध्रुवोदयाः स्वोदयबन्धिन्यः शेषास्तु निन्द्रापञ्चकजातिपञ्चकसंस्थानषट्कसंहननषट्ककषायषोडशकनवनोकषायपराघातोपघातातपोद्योतोच्छवाससातासातवेदनीयोचनीचैर्गोत्रमनुष्यत्रिकतिर्यक् त्रिकोदारिक द्विकप्रशस्ताप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येकस्थावरसूक्ष्मापर्याप्तसाधारणसुस्वरशुभगादेययशःकीर्तिदुःस्वरदुर्भगानादेयायशःकीर्तिरूपा व्यशीतिसंख्याः स्वोदयानुदयबन्धिन्यः। तथा होताः प्रकृतयस्तिरश्वां मनुष्याणां वा यथायोगमनुदये उदयो वा बन्धमायान्ति ततः स्वोदयानुदयबन्धिन्य उच्यन्ते॥५५|| संप्रति समकव्यवच्छिद्यमानबन्धोदयादिप्रकृतीरभिधित्सुराह। गयचरिमलोभधुवब-धिमोहहारसरइअरइमणुयपुथ्वीणं / सुहुमतिगआयवाणं, सपुरिसवेयाण बंधुदया।।१६।।