SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ कम्म 272 अभिधानराजेन्द्रः भाग 3 कम्म वत् निश्छिद्रो घृतमिवातिशयेन स्निग्धः द्राक्षावत्तनुकतनु-प्रदेशोपचितः स्फाटिकाभ्रहारवच्चातीव निर्मलः / इह रसः केवलो न भवति ततो रसस्फर्द्धकसंघात एवंरूपो द्रष्टव्यः // 37|| देशघातिरसस्वरूपमाहदेसविघाइत्तणओ, इयरो कडकंबलसुसंकासो। विविहबहुच्छिदभरिओ, अप्पसिणेहो अविमलोय / / 38 / / इतरो देशघाती देशघातित्वात्स्वविषयैकदेशघातित्वाद्भवति एवं विविधबहुछिद्रभृतसतद्यथा कश्चिद्रंशदलनिर्मापितकट इवातिस्थूरछिद्रशतसंकुलः कश्चित्कम्बल इव मध्यमविवरशतसंकुलः कोऽपि पुनस्तथाविधमसृणवासोवदतीवसूक्ष्मविवरसंवृतः (कडकंबलंसुसंकास) इति कटो वंशदलनिर्मापितः, कम्बल ऊर्णामयः अंशुकं वस्त्र तत्संकाशस्तथा स्वरूपतोऽल्पस्नेहः स्तोकस्नेहो विभागसमुदायरूपोऽविमलश्च नैर्मल्यरहितश्चेति गाथार्थः / / 38 / / अथातिरसस्वरूपमाहजाणं न विसओ धाइ-तणम्मिताणं पिसव्वघाइरसो। जायइ घाइसगासेण-चोरया चेव चोराणं / / 39|| यासां प्रकृतीनां घातित्वे घातित्वमधिकृत्य न कोऽपि विषयःन किमपि याः प्रकृतयो ज्ञानादिकं गुणं घातयन्तीत्यर्थः। तासामपिघातिसकाशेन सर्वधातिप्रकृतिसंपर्कतोजायते सर्वघातीरसः। अत्रैव निदर्शनमाह। यथा स्वयमचौराणां सतां चौरसंपर्कतश्चौरता // 39|| संप्रति यदुक्तम् प्राग देशघातिकं तत्संज्वलननोकषायाणां विभावयन्नाह। घाइखओवसमेणं, सम्मचरित्ताइ जाइ जीवस्स। ताणं हणंति देसं, संजलणा नोकसाया य ||4|| मिथ्यानन्तानुबन्ध्यादीनां क्षयोपशमन ये जाते जीवस्यसम्यक्त्वचारित्रे तयोर्देशमेकदेशविपाकोदयं प्राप्ताः सन्तः संज्वलनाः क्रोधादयो नोकषाया हास्यादयो घ्नन्ति मालिन्यभावमुत्पादयन्तीति भावः। ततः संज्वलना नोकषायाश्च देशघातिनः। एवं ज्ञानदर्शनदानादिलब्ध्येकदेशघातित्वान्मतिज्ञानावरणीयादयोऽपि प्रकृतयो देशविघातिन्यो भावनीयाः / / 4 / / ___ संप्रति परावर्तमानप्रकृतीनां लक्षणमाह - विनिवारिय जा गच्छइ, बंधं उदयं च अन्नपगईए। साहु परियत्तमाणी, अणिवारेंती अपरियत्ताशा या प्रकृतिरन्यस्याः प्रकृतेर्बन्धमुदयं वा निवार्य स्वयं बन्धमुदयं वा गच्छति सा हु निश्चितं परावर्तमानाश्च सर्वसंख्यया एकनवतिस्तद्यथा निद्रापक्षक सातासातवेदनीयौ षोडश कषायाः वेदत्रयं हास्यरत्यारतिशोका आयुश्चतुष्टयं गतिचतुष्टयं जातिपञ्चकमौदादिकद्विक वैक्रियाद्विकमाहारद्विकं षट् संहननानि षट् स्थानानि चतस आनुपूर्यो विहायोगतिद्विकमातपनाम उद्योतनामत्रसादिविंशतिः उचैर्गोत्रं नीचैर्गोत्रं च। कथमेताः परावर्तमाना इतिचेदुच्यते इह यद्यपि षोडश कषायाः पञ्च निद्राश्च ध्रुवबन्धित्वात् युगपदापि बन्धमायान्ति न परस्परसजीतीयप्रकृतिबन्धनिरोधपुरस्सरं तथापि यदोदयमयन्ते तदा सजातीयप्रकृत्युदयं विनिवार्येव नान्यथा तत एता एकविंशतिरपि प्रकृतयः उदयमधिकृत्य परावर्तमानाः स्थिरशुभास्थिराशुभप्रकृतयो युगपदप्युदयमश्नुवते परं स्थिरशुभे अस्थिराशुभबन्धमस्थिराशुभे स्थिरशुभबन्ध निरुध्य तमपेक्ष्यैताः परावर्तमानाः शेषास्तु गत्यादयो बन्धमुदयं वा सजातीयप्रकृतीबन्धोदयनिरोधतः प्रपद्यन्ते ततस्ता उभयथापि परावर्तमानाः / / 41|| संप्रति विपाकतश्चतुर्थेति तदुक्तं तद्व्याख्यानयन्नाह - दुविहा विवागओ पुण, हेउविवागाउ रसविवागा उ। एकेका विय चउहा, जओ चसद्दो विगप्पेणं / / 42|| विपाकतो विपाकमाश्रित्य प्रकृतयो द्विविधा द्विप्रकारा भवन्ति तद्यथा हेतुविपाका रसविपाकाश्च। तत्र हेतुतो हेतुमधिकृत्य विपाको निर्दिश्यमानो यासां ताहेतुविपाकाः। रसतो रसमुररीकृत्य विपाको निर्दिश्यमानो यासां ता रसविपाकाः / रसविपाका अपि पुनश्चतुर्द्धा चतुःप्रकारास्तत्र पुगलक्षेत्रभवजीवहेतुभेदाच्चतुर्विधा हेतुविपाकास्तद्यथा पुद्गलविपाकाः क्षेत्रविपाकाः भवविपाका जीवविपाकाश्च / ताश्चप्रागेवोक्ताः / तथा चतुस्विट्येकस्थानकरसभेदाचतुर्विधा रसविपाकास्तद्यथा चतुःस्थानकरसास्त्रिस्थानकरसा द्विस्थानकरसा एकस्थानकरसाश्च / एकस्थानकादिभेदभिन्नश्च रसः प्रागेवोक्तः। ननु विपाकतो द्विधा प्रकृतयो भवन्तीति द्वारगाथायां नोपात्तं तत्कथमिदानीं विब्रियते तदयुक्तमनुपात्तत्वात् सिद्धेः तथा चाह यतश्चशब्दोऽपि विकल्पेन यथाऽतो यस्माद् द्वारगाथायां प्रकृतयश्चेत्यत्र चशब्दो विकल्पेन विकल्पलक्षणेनार्थेन बोद्धव्यस्ततोऽयमर्थो विपाकतश्चतुर्की भवत्यन्यथा वा / तत्रान्यथात्वं हेतुरसभेदात् द्वैविध्यरूपं द्रष्टव्यमिति।।४२|| संप्रति हेतुविपाकत्वमेव भावयन्नाह - जाजं समेच हेउ, विवागउदयं उवेति पगईओ। तातव्विवागसन्ना, सेसाभिहाणाइंसुगमाई॥४३ याः प्रकृतयः संस्थाननामादिका यं पुदलादिलक्षणं हेतुं कारणं समेत्य संप्रात्य विपाको दयमुपयान्ति तास्तद्विपाक संज्ञा यथा संस्थाननामादिकाः प्रकृतयः औदारिकादीन् पुद्गलान् संप्राप्य विपाकोदयमधिश्रयन्ते ततस्ताः पुद्गलविपाकाः आनुपूर्वश्च तथात्रापि क्षेत्रं प्राप्य विपाकोदयं गच्छन्तीति क्षेत्रविपाका इत्यपि शेषाभिधानानि तुध्रुवसत्कर्माध्रुवकर्मोद्वलनादीनि सुगमानिततोन विशेषतो विभाव्यन्ते एवमुक्ते सति पुद्गलविपाकत्वमधिकृत्य यत्परस्य वक्तव्यं तदनूध प्ररूपयति। अरइरईणं उदओ, किं न भवे पोग्गलाणि संपप्प। अप्पुढेहि वि किं नो, एवं कोहाइयाणं पि |4|| ननु यदि याः प्रकृतयः पुद्गलान् संप्राप्य विपाकोदयमधिश्रयन्ति ताः पुद्गलविपाकास्तर्हि रत्यरत्योरप्युदयः किं न पुद्गलान् संप्राप्य भवति तयोरपि पुद्गलानेव संप्राप्योदयो भवति इति भावः / तथा हि कण्टकादिसंस्पर्शादरतेर्विपाकोदयः पुप्पादिसंस्पर्शात्तु रतेः। ततस्ते अपि पुदलविपाकिन्यौ युक्तेन जीवविपाकिन्याविति एवं परेण काक्वा प्रश्ने कृते सत्याचार्योऽपि काक्वा प्रत्युत्तरमाह (अप्पुढे हि वि किं नो) अत्र सप्तम्यर्थे तृतीया अस्पृष्टे ष्वपि पुद्गलेष्वपि किं तयो रत्यरत्यो विपाकोदयो न भवति भवत्येवेति भावस्तथा हि कण्टकादिस्पर्शव्यतिरेकेऽपि प्रियाप्रियदर्शनस्मरणादिना दृश्यते रत्यरत्योर्विपाकोदयस्ततो न पुद्गलविपाकिन्यौ किं तु जीवविपाकिन्यौ एवं परोपनयस्तपूर्वपक्षव्युदासेन क्रोधादीनामपि जीवविपा कित्वं भावनीयम् / संप्रति भवविपाकित्वमधिकृत्य परो ब्रूतेनन्यायुषां यथा स्वस्वभव एव विपाकोदयो भवति नान्यत्र तथा गतीनामपि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy