SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ कम्म 271 अभिधानराजेन्द्रः भाग 3 कम्म भवति ततस्तदप्यध्रुवसत्ताकं तीर्थकरनामसम्यक्त्वे तथाविधविशुद्धिविशेष समन्विते भवति। आहारद्विकमपि तथारूपे संयमे सति बन्धमायाति न तदभावे। अपिच बद्धमपि तदा विरतिप्रत्ययतो भूयोऽन्युदर्तते मनुष्यद्विकमपि तेजोभवं वायुभवं वा गतेनौदलते ततस्तीर्थङ्करनामादीन्यप्यध्रुवसत्ताकादि। देवभवे नारकायु रकभवे देवायुरानतादिदेवानां तिर्यगायुस्तेजोवायुभवे सप्तमपृथिवीनारक भवे वा मनुष्यापुर्न सत्तायामिति चत्वार्यप्यायूंषि अध्रुवसत्ताकानि शेषास्तु त्रिंशदुत्तरशतसंख्याकाः प्रकृतयोऽध्रुवसत्ताकाः। आह अनन्तानुबन्धिनामपि कषायाणामुलनासंभवादध्रुवसत्ताकतैव युज्यते कथमुक्ता ध्रुवसत्ताकता ? तदप्ययुक्तमभिप्रायापरिज्ञानात् / इह यानि कर्माणि प्रतिनियतामेवावस्थामधिकृत्य बन्धमायान्तिन सर्वकालं यानि च विशिष्टगुणावाप्तिमन्तरेण तथाविधभवप्रत्ययादिकारणवशतः उदलनयोग्यानि भवन्ति तान्यधुवसत्ताकान्यभिप्रेतानि विशिष्टगुणप्रतिपत्तितःसत्ताक्षयात् विशिष्टगुणप्रतिपत्त्या सर्वेषामपि कर्मणां सत्ताच्छे दसंभवात् / अनन्तानुबन्धिनश्चानवाप्तसम्यक्त्वा-दिगुणानां सर्वजीवानामप्यविशेषण सकलकालं विद्यन्ते उद्घलना च तेषां विशिष्टसम्यक्त्वादिगुणप्रतिपत्ति निबन्धना न सा सामान्यभवादि प्रत्यया ततो न ते अध्रुवसत्ताकाः। इहोचैर्गोत्रा-दीनि कर्माणि विशिष्टावस्थाप्रतिन्नानि बन्धसंभवात्तथाविधविशिष्टगुणप्रतिपत्तिमन्तरेण चोदलनयोगादध्रुवसत्ताकानि भवन्ति नान्यथा // 31 // ततएतत्प्रसङ्गतःश्रेण्यारोहाभावे या उद्वलनयोग्याः प्रकृतयस्तासां परिमाणमाह। पढमकसायसमेया, एयाओ आउतित्थवज्जाओ। सत्तरसुव्वलणाओ, तिगेसु गइआणुपुथ्वीओ ||32| एता एवानन्तरोक्ता अष्टादश प्रकृतयः आयुश्चतुष्टयतीर्थकरनामवर्जाः प्रथमकषायसमेता अनन्तानुबनिधचतुष्टयसहिताः सप्तदश उद्वलनयोग्या वेदितव्याः। यास्तुशेषाः षट्त्रिंशत्प्रकृतय उद्वलनयोग्यास्ताः श्रेण्यारोहे एवनान्यत्र ततो नेह प्रतिपादिताः किं त्वग्रे प्रवेशसंक्रमाधिकारे वक्ष्यन्ते। तथा यत्र कुत्रापि देवत्रिकं मनुष्यत्रिकमित्येवं त्रिकमुपादीयते तत्र न तगतिस्तदानुपूर्वी तदायुरिति त्रिकमवगन्तव्यम्। तदेवमुक्ताः सप्रतिपक्षाः ध्रुवसत्त काः प्रकृतयः। संप्रति द्वारगाथोपन्यस्तानां ध्रुवबन्ध्यादिपदानामर्थं स्पष्ट-यितुकाम आहनियहेउ संभवे वि हु, माणिज्जो जाण होइ पयडीणं / बंधो ता अधुवाओ,धुवा अभयनिजबंधाउ ||3|| यासां प्रकृतीनां निजबन्धहेतुसंभवेऽपि बन्धो भजनीयो विकल्पनीयो भवतियथा कदाचिद्भवति कदाचिन्न ताः अध्रुवाः अध्रुवबन्धिन्यस्ताश्चेमास्तद्यथा नरकद्विकमाहारद्विकं गतिचतुष्टयं जातिपञ्चकं विहायोगतिद्विकमानुपूर्वीचतुष्टयं संस्थानषट्कं संहननषट्कंत्रसादिविंशतिरुच्छ्चासनामतीर्थकरनामातपनाम उद्योतनाम पराघातनाम सातासातवेदनीये आयुश्चतुष्टयं द्विविधं गोत्रं हास्यरतिशोका वेदत्रयमिति एता हि त्रिसप्ततिसंख्याकाः प्रकृतयो निजबन्धहेतुसंभवेऽपि नावश्यं बन्धमायान्ति तथा हि पराघातोच्छ्वासनाम्नोरविरत्यादिनिजबन्धहेतु संभवेऽपि यदा पर्याप्तकनाम बध्यते तदा बन्धमायातो नाम पर्याप्तकनाम / बन्धकाले आतपनामाप्येकेन्द्रियप्रायोग्यप्रकृतिबन्धे बन्ध-मागच्छतिन शेषकालम्। तीर्थंकरस्याहारकद्विकस्य च यथाक्रमं सम्यक्त्वे संयमे च सामान्यतो निजबन्धेहतौ विद्यमानेऽपि कदाचिदेव बन्धः शेषाणामपि नरकद्विकादीनां सप्तषष्टिप्रकृतीनां स्वबन्धहेतुसद्भावेऽप्यवश्यं बन्धाभावः सुप्रतीत एव तदेताः सर्वा अप्यधुवबन्धिन्यः याः पुनर्निजबन्धहेतुसद्भावे सत्यभजनीयबन्धा अवश्यभाविबन्धात्ता ध्रुवबन्धिन्यो मतिज्ञानावरणीया-दयस्ताश्च प्रागवे प्रतिपादिताः // 33 // (24) संप्रति ध्रुवोदयानां प्रकृतीनार्मथमाचिख्यासुः प्रथमत उदयहेतुमुपदशयति। दव्वं खेत्तं कालो, भवो य भावो य हेयवो पंच। हेउसमासेणुदओ, जायइ सव्वाण पगईणं ||34|| इह सर्वासां प्रकृतीनां सान्यतः पञ्च उदयहेतवस्तद्यथा द्रव्यं क्षेत्रं कालो भवश्व भावश्च / तत्र द्रव्यं कर्मपुद्गलरूपं यदि वा बाह्यं किमपि तथाविधमुदयप्रादुर्भावनिमित्तं यथा श्रूयमाणं दुर्भाषित-भाषापुद्गलद्रव्यं क्रोधोदयस्य क्षेत्रमाकाशं कालः समयादिरूपो भवो मनुष्यादिभवः भावो जीवस्यपरिणामविशेषः। एतेचनैकैकश उदयहेतवः किंतुसमुदितास्तथा वा हेतुसमासेन समुदायेन उक्तसवरूपाणां द्रव्यादीनां हेतुना समासेन समुदायेन जायते सर्वासां प्रकृतीनामुदयः केवलं कापि द्रव्यादिसामग्री कस्याश्चित्प्रकृतेरुदयहेतुरिति न हेतुत्वव्यभिचारः / उक्त उदयहेतवः // 34 // संप्रति ध्रुवत्वमुदयमधिकृत्य चिन्तयन्नाहअव्वोच्छिन्नो उदओ, जाणं पगईण ता धुवोदइया। वोच्छिन्नो विहु संभवइ, जाण अधुवोदयो ताओ ||35|| यासां प्रकृतीनां स्वोदयकालव्यवच्छेदादाक् अव्यवच्छिन्नोऽनुसातत उदयस्ता ध्रुवोदया मतिज्ञानावरणादयः / यासां पुनः प्रकृतीनां व्यवच्छिन्नोऽपि विनाशमुपगतोऽपि हु निश्चितं तथाविधद्रव्यादिसामग्रीविशेषरूपं हेतु संप्राप्य भूयोऽप्युदय उपजायते ता अध्रुवोदयाः सातवेदनीयादयः ||35|| सांप्रतं सर्वधात्यसर्वघातिशुभाशुभलक्षणमाहअसुभसुभत्तणघाइ-ताणाइ रसभेयओ मुणिजाहि। सविसयथायणभेए-ण वा विघाइत्तणं भेयं / / 3 / / अशुभत्वं शुभत्वं च घाति सर्वदेशभेदभिन्न प्रकृतीनां रसभेदतो मन्दीथाः। तथा हि या विपाकदारुणकटुरसाः प्रकृतयस्ता अशुभाः यास्तुजीवप्रमोदहेतुरसोपेतास्ताः शुभाः। तथा याः सर्वथा सर्वघातिरसस्पर्द्धकान्विताः ताः सर्वघातिन्यो यास्तु देशघातिरसस्पर्द्धकान्वितास्ता देशघातिन्यः प्रकारान्तरेण सर्वघातित्वंच प्रतिपादयति सविषयो ज्ञानादिलक्षणो गुणस्तस्य यत्पातनं तस्य यो भेदो देशका विषयस्तेन वाशब्दः पक्षान्तरद्योतने अपिः समुच्चये घातित्वं सर्वघातित्वं देशघातित्वंच ज्ञेयं सर्वस्वविषयघातिन्यः सर्वघातिन्यः स्वविषयैकदेशघातिन्यो देशघातिन्यः एतच प्रागेव भावितमिति न भूयो भाव्यते // 36 / / इह रसभेदतः प्रकृतीनां सर्वघातित्वं देशघातित्वं च ज्ञेयमतो रसमेव सर्वदेशघातित्वेन प्ररूपयति। जो घाएइ सविसयं, सयलं सो होइ सव्वघाइ रसो। निच्छिद्दो निद्धो तणु, फलिहब्महारअइ विमलो ||37 / / यः स्वविषयं ज्ञानादिकं सकलमपि घातयति स्वकार्यसाधनं प्रत्यसमर्थ करोति स रसः सर्वधाती भवति स च ताम्र भाजन
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy