________________ कम्म 270 अभिधानराजेन्द्रः भाग 3 कम्म क्रमात केवलज्ञानावरणं केवलदर्शनावरणं चान विद्यते सर्वघ्नं यत्र तत् असर्वप्नं केवलज्ञानावरणकेवलदर्शनावणरहितमित्यर्थः। एतदुक्तं भवति केवलज्ञानावरणं च जातिविशेषाणि मतिश्रुतावधिमनः पर्यायज्ञानावरणलक्षणानिचत्वारि ज्ञानावरणानि केवलदर्शनावरणवानि, शेषाणि चक्षुरचक्षुर-वधिदर्शनावरणरूपाणि त्रीणि दर्शनावरणानि / तथा (पुंसंजलणंतरायत्ति) पुरुषवेदः चत्वारः संज्वलनक्रोधादयः पञ्चविधमन्तरायंदानान्तरायादि सर्वसंख्यया सप्तदश प्रकृतयश्चतुःस्थानपरिणता एक द्वित्रिचतु:स्थानकरसपरिणताः, प्राप्यन्ते / बन्धमधिकृत्यासामेकस्थानको द्विस्थानकः त्रिस्थानकः चतुःस्थानको वा रसः प्राप्यते इति भावः / तत्र यावन्नाद्यापि श्रेणिं प्रतिपद्यन्ते जन्तवस्तावदासां सप्तदशानामपि प्रकृतीनां यथाध्यवसायसंभवं द्विस्थानकं चतुरस्थानकं वा रसं बध्नन्ति / श्रेणिं तु प्रतिपन्ना अनिवृत्तिबादरसंपरायाद्धायाः संख्येयेषु भागेषु सत्सु ततः प्रभृत्येतासां प्रकृतीनां शुभत्वादत्यन्तं विशुद्धाध्यवसाययोगतः एकस्थानकं रसं बध्नन्ति तत एवं बन्धमधिकृत्य चतुःस्थानपरिणता प्राप्यन्ते शेषास्तु सप्तदशव्यतिरिक्ताःशुभा अशुभा वा (दुतिचउट्ठाणा उत्ति) बन्धमधिकृत्य द्विस्थानकरसास्त्रिस्थानकस्साश्चतुःस्थानकरसाश्चनतु कदाचनाष्येकस्थानकरसाः / कथमेतदवसेयमिति चेत् इह द्विधा प्रकृतयः / तद्यथा शुभा अशुभाश्च तत्र शुभप्रकृतीनामेकस्यानकरसबन्धसंभवोऽनिवृत्तिबादरसंपरायाद्धायाः संख्येयेभ्यो भागेभ्यः परतो नार्वागतयोग्याध्यवसायस्थानासंभवात् परतोऽप्युक्तरूपाः सप्तदश प्रकृतीर्व्यतिरिच्य शेषा अशुभप्रकृतयो बन्धमेव नायान्ति तद्वन्धहेतुव्यवच्छेदात् / येऽपि केवलज्ञानावरणकेवलदर्शनावरणे बन्धमायातस्तयोरपि सर्वधातित्वात् द्विस्थानक एव रसो बन्धमागच्छति नैकस्थानकः सर्वघातिनीनां जघन्यपदेऽपि द्विस्थानकरसबन्ध संभवात्। यास्तुशुभाः प्रकृतथस्तासामत्यन्तविशुद्धौ वर्तमानश्चतुःस्थानकमेव रसं बध्नातिन त्रिस्थानकं द्विस्थानकं वा मन्दमन्दतरविशुद्धौ तु वर्तमान-स्त्रिस्थानकं वा बध्नाति द्विस्थानकं वा / यदाऽत्यन्तविशुद्धसंक्लेशाद्धायां वर्तते तदा तस्य शुभप्रकृतयो बन्धमेव नायान्तिकुतस्तद्रतरसस्थानचिन्ता। या अपिच नरकगतिप्रायोग्यं बध्नतोऽतिसंक्लिष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बन्धमायान्ति तासामपि तथा स्वाभाव्यात् द्विस्थानकस्यैव रसस्य बन्धो नैकस्थानकस्य यत्तच्चाग्रे स्वयमेव वक्ष्यति परमिह प्रस्तावादुक्तम् तत इह शेषप्रकृतीनामेकस्थान-करसबन्धासंभवात् समिचीनमुक्तम् / द्वित्रिचतुःस्थानपरिणताः शेषाः प्रकृतयः इति / तदेवमुक्तानि विभागशः प्रकृतीनां रसस्थानानि // 28 // संप्रति यानि रसस्थानानि येभ्यः कषायेभ्यः उपजायन्ते तानि तथोपदर्शयति। उप्पलभूमीवालुय-जलरेहासरिससंपराएसु। चउठाणाई असुभाण, सेसयाणं तु वचामो ||29|| अशुभानामशुभप्रकृतीनां चतुःस्थानादिकः चतुःस्थानकः त्रिस्थानको द्विस्थानक एकस्थानकश्च रसो बन्धमायाति यथाक्रममुपलभूमिवालुकाजलरेखासदृशेषु संपरायेषु कषायेषु / इयमत्र भावना / उपलः पापाणस्तरेखासदृशैरनन्तानुबन्धसंज्ञैः संपरायैः सर्वासामशुभप्रकृतीनां चतुःस्थानकरसबन्धः क्रियते दिनकरातपशोषिततडागभूरेखासदृशैः प्रत्याख्यानसंहस्विस्थानकरसबन्धः सिकता कणसंहतिगतरेखा- / सदृशैः प्रत्याख्यानावरणसंज्ञैर्द्विस्थानकरसबन्धो जलगतरेखासदृशैः संज्वलनसंज्ञैरेकस्थानकरसबन्धः संभवति। चतुर्थपादे तुशब्दस्याधिकार्थसूचनात्पूर्वोक्तानामेव सप्तदशसंख्यानामवसेयोन सर्वाशुभप्रकृतीनाम् (सेसयाणं तु वचासो इति) शेषाणां शुभप्रकृतीनां व्यत्यासो विपर्यासोबोद्धव्यः स चैवमुपलरेखा सदशैः संपरायैर्द्विस्थानकरसबन्धो दिनकरातपभूरेखासदृशैस्त्रिस्थानकरसबन्धः सिकतागतरेखासदृशैश्चतुस्थानकरसबन्धः // 29 // संप्रति रसस्वरुपमेव शुभाशुभप्रकृतीनामुपमाद्वारेण प्ररूपयतिघोसायइनिंबुवमो, असुभाव सुभाण खीरखंडवमो। एगट्टाणो उ रसो, अणंतगुणिया कमेनियरे ||30|| अशुभानामशुभप्रकृतीनामेकस्थानको रसो घोषातकीनिम्योपमो धोषातकीनिम्बरसोऽतीवविपाककटुक इति भावः / शुभानां शुभप्रकृतीनामकस्थानकरसतुल्यः प्राथमिको द्विस्थानकरसः शुभप्रकृतीनां द्विस्थानकरसबन्धो न भवतिएतच्च प्रागेव भावितमतो यद्यप्येकस्थानको रस इत्युभयत्रापि साम्येनोक्तं तथापि शुभप्रकृतीनामेकस्थानकरसतुल्यः प्राथमिको द्विस्थाकएकस्थानकशब्देनोक्तो वेदितव्यः स क्षीरखण्डोमोपमः क्षीरखण्डमरसोपमः परममनःप्रह्लादहेतुरिति। यावत् तस्माश्च एकस्थानकात् रसादितरे द्विस्थानकादयो रसाः क्रमेण अनन्तगुणिता अवगन्तव्याः। तद्यथा एकस्यापकाद् द्विस्थानकोऽनन्तगुणस्तस्मादपि त्रिस्थानकोऽनन्तगुणः ततोऽपिचतुःस्थानकोऽनन्तगुणः इयमत्र भावना इहैकस्थानकोऽपि रसो मन्दतरादिभेदादनन्तभेदत्वं प्रतिपद्यते एवं प्रत्येकं द्विस्थानकादयोऽपि / एतच प्रागपि सप्रपञ्चमुदितं तत्राशुभप्रकृतीनां यः सर्वजघन्य एकस्थानको रसः स निम्बघोषातकीरसोपमः / यश्च शुभप्रकृतीनांसर्वजघन्यो द्विस्थानकरसः सक्षीरखण्डादिरसोपमः शेषाणित्वशुभप्रकृतीनामेकस्थानकरसोपेतानि शुभप्रकृतीनां तु द्विस्थानकरसोपेतानि स्पर्धकानि यथोत्तरमनन्तगुणान्यवसेयानि ततोऽप्यशुभप्रकृतीनां द्विस्थानकत्रिस्थानकचतुःस्थानकानि शुभप्रकृतीनां त्रिस्थानकचतुस्थानकानि रसस्पर्द्धकानि क्रमेणानन्तगुणानि भावनीयानि तदेवमुक्तं सकलमपि प्रसक्तानुप्रसक्तम् / / 30 / / संप्रति द्वारगाथाचशब्दसूचितं यत् प्रकृतीनां ध्रुवाध्रुवसत्ता कत्वं तदभिधित्सुराह। उचं तित्थं सम्म,मीसं वेटिवछक्कमाऊणि। मणुदुगआहारदुर्ग, अट्ठारस अधुक्सत्ता उ||३१|| उच्चैर्गोत्रं तीर्थ करनाम सम्यक्त्वं संख्यग्मिथ्यात्वं देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वी क्रियशरीरवैक्रियाङ्गोपाङ्ग लक्षणं वैक्रियषट्कं नरकायुःप्रभृतीनिचत्वार्यायूषि मनुष्यद्विकं मनुष्यगतिमनुष्यानुपूर्वीलक्षणमाहारद्विकमाहारशरीराहारकाङ्गोपाङ्गरूपमित्येता अष्टादश प्रकृतयोऽध्रुवसत्ताका अध्रुवाः कदाचिद्भवन्ति कदाचिन्न भवन्ति इत्येवमनियता सत्ता यासां ता अध्रुवसत्ताकाः / तथा हि उचैर्गोत्रं वैक्रियषट्कमित्येताः सप्त प्रकृतयोऽ प्राप्तत्रसत्वावस्थायां न भवन्ति त्रसत्वे तु प्राप्ते भवन्ति / यद्वा त्रसत्वावस्थायां लब्धा अपि स्थावरभावं गतेनावस्था विशेष प्राप्योदल्यन्ते ततोऽध्रुवसत्ताकाः / तथा सम्यक्त्वं सम्यग्मिथ्यात्वं च यावन्नद्यांपि तथा भव्यत्वं परिपाकमायाति तावन्न भवति तथा भव्यत्वपरिपाकसंभवे च भवति प्राप्त वा सन्मिथ्यात्वं गतेन भूयोऽप्युद्वल्यते अभव्यानां च तत्सर्वथा न