SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ कम्म 266 अभिधानराजेन्द्रः भाग 3 कम्म मूलप्रकृतिविषया प्रत्येकं चिन्ता तदाप्येतावेव द्वौ भङ्गाविति / आह क्षायोपशमिको भावः कर्मणामुदये सति भवत्यनुदये वा ? न तावदुदये विरोधात्। तदादिक्षायोपशमिको भाव उदयावलिकाप्रविष्टस्यांशस्य क्षये सत्यनुदितस्य चोपशमेविपाकोदय विष्कम्भलक्षणे प्रादुर्भवति नान्यथा ततोयधुदयः कथं क्षयोपशमः क्षायोपशमश्चेत्कथमुदय इति। अथानुदय इति पक्षस्तथा सति किं तेन क्षायोपशमिकेन भावेन उदयाभावादेव विवक्षितफलसिद्धेः / तथा हि मतिज्ञानादीनि ज्ञानावरणाधुदयाभावादेव सेत्स्यन्ति किं क्षायोपशमिकभावपरिकल्पनेन / उच्यते उदये क्षायोपशमिको भावो नचतत्र विरोधोयत आह / "उदये व्विय अविरुद्धो खाउवसमो अणेगमे उत्ति" जइ भवइ तिण्ह एसो, पदेसउदयम्मि मोहस्स" इह ज्ञानावरणीयादीनि कर्माण्यासर्वक्षयात् ध्रुवोदयानि ततस्तेषामुदय एव क्षयोपशमोघटतेनानुदये उदयाभावे तेषामेवासंभवात् तत उदय एव विरुद्धः क्षायोपशमिको भावः। यदपि विरोधोद्भावनं कृत यधुदयः कथ क्षयोपशम इत्यादि तदप्ययुक्त दशघातिस्पर्द्धकानामुदये ऽपि कतिपयदेशधातिस्पर्धकापेक्षया यथोक्तक्षयोपशमाविरोधात् स च क्षयोपशमो नैकभेदस्तत्र द्रव्यक्षेत्रकालादिसामग्रीतो वैचित्र्यंसंभवादनेकप्रकारः। उदय एव वा विरुद्ध एष क्षायोपशमिको भावो यदि भवति तर्हि न सर्वप्रकृतीनां किं तु त्रयाणामेव कर्मणां ज्ञानावरणदर्शनावरणान्तरायाणां मोहनीयस्य तर्हि का वार्तेति चेदत आह / मोहस्य मोहनीयस्य प्रदेशोदये क्षायोपशमिको भावो विरुद्धो न विपाकोदये यतोऽनन्तानुबन्ध्यादिप्रकृतयः सर्वघातिन्यः सर्वघातिनीनां च रसस्पर्द्धकानि सर्वाण्यपि सर्वघातीन्येव न देशघातीनि सर्वधातीनि च रसस्पर्द्धकानि स्वघात्यं गुणं सर्वात्मना ध्नन्ति न देशतस्तेषां विपाकोदयेन क्षयोपशमसंभवः किं तु प्रदेशोदये। ननुप्रदेशोदयेऽपि कथं क्षायोपशमिकभावसंभवः? सर्वघातिरसस्पर्द्धकप्रदेशानां सर्वत्त्वघात्यगुणघातनस्वभावत्वात्तदयुक्तम् वस्तुतत्वापरिज्ञानात्ते हि सर्वघातिरसस्पर्धकप्रदेशास्तथाविधाध्यवसायविशेषतो मनाग्मन्दानुभावीकृत्यविरलविरलतया वेद्यमानदेशघातिरसस्पर्द्धकेष्वन्तः प्रवेशिता न यथावस्थितमात्ममाहात्म्यं प्रकटयितुंसमस्ततोन ते क्षयोपशमहन्तार इति न विरुध्यते प्रदेशोदये क्षायोपशमिको भावः "अणेगभेदोत्ति' इत्यत्रेति-शब्दस्याधिकस्याधिकार्थसंसूचनात् मिथ्यात्वाद्यदि द्वादशकषायरहितानां शेषमोहनीयप्रकृतीनां प्रदेशोदये विपाकोदये वा क्षयोपशमोऽविरुद्ध प्रति द्रष्टव्यम् / तासां देशघातित्वात् तत्राप्ययं विशेषस्ताः शेषा मोहनीयप्रकृतयो ध्रुवोदयास्ततो विपाकोदया भावे क्षायोपशमिके भावे विजृम्भमाणप्रदेशोदयसंभवेऽपि न ता मनागपि देशविघातिन्यो भवन्ति विपाकोदये तु प्रवर्तमाने क्षायोपशमिकभावे मनाग्मालिन्यमात्रकारित्वाद्देशघातिन्यो भवन्ति / / 26 / / इह प्रकृतीनामौदयिको भावो द्विधा भवति तद्यथा शुद्धः क्षायोपशमिकानुविद्धश्च / तत एतद्व्यक्तीकरणाय प्रथनतः स्पर्द्धकप्ररूपणामाह। चउतिहाणरसाई, सव्वघाईणि हों ति फड्डाई। दुट्ठाणियाणि मीसाणि, देसघाईणि सेसाणि // 27 // रसस्पर्द्धकानि कर्मप्रकृतिसंग्रहाधिकारे बन्धनकरणेऽनुभागबन्धावसरे स्वरूपतोऽभिधास्यन्ते तानि चतुर्द्धा तद्यथा | एकस्थानकानि द्विस्थानकानि त्रिस्थानकानि चतुःस्थानकानि च। अथ किमिदं रसस्यैकस्थानकत्वद्विस्थानकत्वादि उच्यते। इह शुभप्रकृतीनां रसक्षीरखण्डादिरसोपमोऽशुभप्रकृतीनांतु निम्बघोषातक्यादिरसोपमः वक्ष्यति च" घोसायइनिंबुवमो, असुभाण सुभाण खीरखंडुवमो' / क्षीरादिरसश्च स्वाभाविक एकस्थानक उच्यते द्वयोस्तु कर्षयोरावर्तने कृते सति योऽवशिष्यते एकः कर्षः स द्विकस्थानकः त्रयाणां कर्षाणामावर्तने कृते सति एकः कर्षोऽवशिष्टः त्रिस्थानकश्चतुर्णा कर्षाणामावर्तने कृते संत्युद्वरितो य एकः कर्षः स चतुःस्थानकः / एकस्थानकोऽपिच रसो जललवबिन्दुचुलकप्रसृत्यञ्जलिकरककुम्भद्रोणादिप्रक्षेपान्मन्दमन्दतरादिभेदत्वं प्रतिपद्यते / एवं द्विस्थानकादयोऽपि / तथा कर्मणामपि चतुःस्थानकादयो रसा भावनीयाः प्रत्येकमनन्तरभेदभिन्नाश्च कर्मणां चैकस्थानकरसात् द्विस्थान-कादयो रसा यथोत्तरमनन्तगुणाः। वक्ष्यतिचा "अनंतगुणिया कमे नियरे" तत्र सर्वघातिनीनां देशघातिनीनां वा प्रकृतीनां यानि चतुःस्थानकरसानि त्रिस्थानकद्विस्थानकरसानि वा स्पार्द्धकानि तानि सर्वघातिनीनां सर्वधातीन्येव देशघातिनीनां तु मिश्राणि कानिचित् सर्वधातीनि कानिचिद्देशघातीनि। शेषाणि त्वेकस्थानकरसानि स्पर्द्धकानि सण्यिपि देशघातीन्येव तानि च देशघातिनीनां संभवन्ति न सर्वधातिनीनां कृता स्पर्द्धकप्ररूपणा // 27 // संप्रति यथौदयिको भावः शुद्धो भवति यथा च क्षयोप शमानुविद्धस्तथोपदर्शयतिनिहएसु सव्वघाई, रसेसु फड्डेसु देसघाईणं। जीवस्स गुणा जायं-ति ओहिमणचक्खुमाई य / / 28 / / अवधिज्ञानावरणप्रभृतीनां देशघातिनां कर्मणां संबन्धिषु सर्वघातिरसस्पर्द्धकेषु तथाविधविशुद्धाध्यवसायविशेषबलेन निन्दितेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पर्द्धकेष्वपि चातिस्निग्धेष्वल्परसकृतेषु तेषां मध्ये कतिपयरसस्पर्द्धकयत्नस्योदयावलिकाप्रविष्टस्यांशस्य क्षये शेषस्य चोपशमे विपाकोदयविष्कम्भरूपे सति जीवस्यावधिमनःपर्यायज्ञानचक्षुर्दर्शनादयो गुणाः क्षायोपशमिका जायन्ते प्रादुर्भवन्ति। किमुक्तं भवति। यदा अवधिज्ञानावरणीयादीनां देशघातिनां कर्मणां सर्वघातीनि रसस्पर्द्धकानि विपाकोदयमागतानि वर्तन्ते तदा तद्विषय औदयिक एक एव भावः केवलोभवति।यदातुदेशधातिरसस्पर्द्धकानामुदयस्तदा तदुदयादौदयिको भावः कतिपयानां च देशधातिरसस्पर्द्धकानां संबन्धिन उदयाबलिका-प्रविष्टस्यांशस्य क्षये शेषस्य चानुदितस्योपशमे क्षायोपशमिक इति क्षयोपशमानुविद्ध औदयिकभावः / मतिश्रुतावरणचक्षुर्दर्शनावरणप्रकृतीनां तु सदैव देशघातिनामेव रसस्पर्द्धकानामुदयो न सर्वधातिनां तेन सर्वदापि तासामौदयिकक्षायोपशमिको भावौ सन्मिश्री प्राप्यते न केवल औदयिकः / इह प्राक् प्रकृतीनां रसश्चतुरादिस्थानक उक्तस्तत्प्रसङ्गेन संप्रति यासां प्रकृतीनां यावन्ति बन्धमधिकृत्य रसस्पर्द्धकानि भवन्ति तासां तावन्ति निर्दिदिक्षुराह। आवरणमसव्वग्छ, पुंसंजलणंतरायपगडीओ। चउठाण परिणयाओ, दुतिचउठाणरसा उसेसा उ॥ आवरणं ज्ञानावरणं दर्शनावरणं च / तत्कथं भूतमित्याह असर्वघ्नं सर्व ज्ञानं दर्शनं वा हन्तीति सर्वध्नं सर्वघातिनां च प्र
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy