________________ कम्म 268 अभिधानराजेन्द्रः भाग 3 उत्तणुति) तनुशब्देनोपलक्षितं चतुष्कं "तणुवंगागिइसंघयण'' इति गाथावयवेन प्रतिपादितं तनुचतुष्कं तत्र तैजसकार्मणयोधुंवोदयमध्ये पठितत्वादिह तनवः औदारिकवैक्रियाहारकलक्षणास्तिस्रः परिगृह्यन्ते उपाङ्गानि त्रीणि, आकृतयः संस्थानानि षट्, संहननानि षट्, तदेवं तनुचतुष्कशब्देन एता अष्टादश प्रकृतयो गृह्यन्ते। उपघातं साधारणमितरच तत्प्रतिपक्षभूतं प्रत्येकं (जोयतिगंति) 'उज्जोयायवपराघाइत्ति' वचनादुद्योतातपपरघातलक्षणमित्येताः षट्त्रिंशत्प्रकृतयः (पुग्गलविवागत्ति) पुद्गलेषु शरीरतया परिणतेषु परमाणुषु विपाक उदयो यासां ताः पुद्गलविपाकिन्यः शरीरपुद्गलेष्वेवात्मीयां शक्तिं दर्शयन्तीत्यर्थः / तथा हि निर्माणस्थिराधुदयाच्छरीरतया परिणतानां पुद्गलानामङ्गप्रत्यङ्गादिनियमनं दन्ताख्यादीनां स्थिरत्वं जिह्वादीनामस्थिरत्वं शिरःप्रभृतीनां शुभत्वं पादानामशुभत्वमित्यादि तनूदयाच्छरीरतया पुद्गला एव परिणमन्ते अङ्गोपाङ्गोदयाच शिरोग्रीवाद्यवयवविभागो जायते आकृतिनामोदयात्तेष्वेवाका-रविशेषाः संपद्यन्ते संहननोदयात्तेषामवे वजऋषभनाराचादितया विशिष्टा परिणतिर्भवति / उपघातसाधारणप्रत्येकोद्योतात-पादीनामपि सर्वेषां शरीरपुद्गलेष्वेव स्वविपाकस्य दर्शनात्सुप्रतीतमेवासां पुद्गलविपाकित्वमिति। उक्ताश्चतुर्विध-विपाकाः प्रकृतयः। कर्म। पं० सं०। इह पुद्गलविपा-किनीनामौदयिकभावत्वमुक्तं ततस्तत्प्रसङ्गेन शेष-प्रकृतीनामपि यथासंभवं भावानभिधित्सुराह। मोहस्सेव उवसमो, खाओवसमो चउण्ह घाईणं / खयपरिणामियउदया, अट्ठण्ह वि हॉति कम्माणं॥ अष्टानां कर्मणां मध्ये मोहस्यैव मोहनीयस्यैवोपशमो विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य विष्कम्भणं नान्येषामुपशमश्चेह सर्वोपशमो विवक्षितो न देशोपशमस्तस्य सर्वेषामपि कर्मणां संभवात् / तथा उदयावलिकाप्रविष्टस्यांशस्य क्षयेणानुदयावलिकाप्रविष्टस्योपशमेन विपाकोदयनिरोधवलक्षणेन निर्वृतः क्षायौपशमिकः / स च चतुर्णामेव घातिन्वर्गणां ज्ञानावरणदर्शनावरणमोहनीयान्तरायरूपाणां भवति न शेषकर्मणां चतुर्णामपि च केवलज्ञानावरणकेवलदर्शनावरणरहितानां तयोर्विपाकोदयविष्कम्भाभावतः क्षयोपशमासंभवात्। क्षयपारिणामिकौदयिकभावा अष्टानामपि कर्मणां भवन्ति। तत्र क्षय आत्यन्तिकोच्छेदः स च मोहनीयस्य सूक्ष्मसंपरायगुणस्थानकस्य चरमसयमे शेषाणां तु त्रयाणां घातिकर्मणां क्षीणकषायगुणस्थानस्य अघातिकर्मणामयोगिकेवलिनः / तथा परिणमनं परिणामः परिणाम एव पारिणामिकः जीवप्रदेशैः सह सबंद्धतया मिश्रीभावनमिति भावः। यद्वा तत्तद्रव्यक्षेत्रकालाध्यवसायापेक्षया तथा तथा संक्रमादिरूपतया यत्परिणमनं स पारिणामिको भावः / उदयस्तुप्रतीत एव सर्वेषामति संसारिजीवानामपि अष्टानामपि कर्मणामुदयदर्शनात् / एष चात्र तात्पर्यार्थः मोहनीयस्य क्षायिकक्षायोपशमिकौपशमिकौदयिकपारिणामिकलक्षणाः पञ्चापि भावाः संभवन्ति / ज्ञानावरणदर्शनावरणान्तरायाणामौपशमिकवर्जाः शेषाश्चत्वारः नामगोत्रवेदनीयायुषां क्षायिकौदयिकपारिणामिकलक्षणास्त्रय इति। संप्रति यस्मिन् भावे ये गुणाः प्रादुष्यन्ति तत्र तानुपदर्शयन्नाहसम्मत्ताइउवसमे,खाओवसमे गुणा चरित्ताई। खइए केवलमाई, तव्ववएसो उ ओदइए। उपशमे मोहनीयस्यौपशमिके भावे जाते सति सम्यक्त्वा दिसम्यक्त्वमौपशमिकमादिशब्दाचारित्रं च सर्वविरतिरूपमौपशमिकं भवति चतुर्णा आतिकर्मणां क्षायौपशमिके भावे वर्तमाने गुणाश्चारित्रादयो ज्ञानदर्शनलाभादयः प्रादुष्षन्ति / तत्र चारित्रं देशविरतिरूपं सर्वविरतिरूपं वा सर्वविरतिरूपमिति सामायिकं छेदोपस्थापन परिहारविशुद्धिकं सूक्ष्मसंपरायं वा यथाख्यातं तस्योपशमे क्षये वा संभवात् / ज्ञानं मतिश्रुतावधिमनः पर्यायलक्षणं न केवलज्ञानं तस्य क्षायिकत्वात्। दर्शनंचक्षुरवधिदर्शनरूपंतत्रेदंचिन्त्यतेन केवलदर्शनमपि तस्य क्षायिकत्वात्। सम्यक्त्वं क्षायोपशमिकं सुप्रतीतम्दानलाभादयो दानलाभभोगोपभोगवीर्याणि / आह ज्ञानदर्शने परित्यज्य किमिति चारित्रादयो गुणा इति अभिहितम् ? उच्यते चारित्रसद्भावे / ज्ञानदर्शनयोरवश्यंभाव इति ज्ञापनार्थं तथा क्षायिके भावे ज्ञाने सति केवलादयः केवलज्ञानकेवलदर्शनचारित्रज्ञान लब्ध्यादयः / तत्र ज्ञानावरणक्षये केवलज्ञाने दर्शनावरणक्षये केवलदर्शने मोहनीयक्षये चारित्रमन्तरायक्षये दानादिलब्धयः सकलकर्मक्षयपरिनिर्वृतत्वमिति औदयिके पुनर्भावे विजृम्भमाणे तेन तेनौदयिकेन भावेनैव व्यपदेशो भवति यथा प्रबलज्ञानावरणोदये अज्ञानी प्रबलदर्शनावरणोदये अन्धो वधिर एकाङ्ग चेतनाविकल इत्यादि वेदनीयोदये सुखी दुःखी वा। क्रोधाद्युदये क्रोधी मानी मायावी लोभीत्यादि / नामोदये नारकतिर्यङ्ग मनुष्यदेव एके न्द्रियोद्वीन्द्रियस्त्रीन्द्रियश्चतुरिन्द्रियः पञ्चेन्द्रियस्त्रसो बादरः पर्याप्त इत्यादि / उच्चैर्गोत्रोदये क्षत्रियपुत्रोऽयं श्रेष्ठिपुत्रोऽयमित्येवमुच्चैः कारं प्रशंसागर्भो व्यपदेशो नीचैर्गोत्रोदयो वेश्यासुतोऽयं श्वपाकोऽयमित्यादिरूपतया निन्दागर्भा व्यपदेशः / अन्तरायोदये अदाता अलाभी अभोगीत्यादि। संप्रति पारिणामिकभावगतविशेषप्रतिपादनार्थमाहनाणंतरायदंसण-वेयणियाणं तु भंगया दोन्नि। साइमपज्जवसाणो, वि होइसेसाण परिणामो।। ज्ञानावरणान्तरायदर्शनावरणवेदनीयानामपवादापेक्षया सामान्यतः पारिणामिके भावे चिन्त्यमाने द्वौ भङ्गौलभ्यतेन्ते। तद्यथा अनाद्यपर्यवसानोऽनादिपर्यवसानश्च। तत्र भव्यानधिकृत्यानादिसपर्यवसानस्तथा हि जीवकर्मणोरनादिः संबन्ध इत्यादेरभावादनादिर्मुक्तिगमनसमये च व्यवच्छेदात्सपर्यवसानः अभव्यानधिकृत्यानाद्यपर्यसानः तत्रानादित्वभावना प्राग्वत्। अपर्यवसानत्वं कदाचिदपिव्यवच्छेदाभावात् शेषकर्मणां मोहनीयायुर्नामगोत्राणां परिणामः सादिपर्यवसानोऽपि भवति / आस्तामनाद्यपर्यवसानोऽनादिपर्यवसानरूप इत्यपिशब्दार्थः / इह गाथापूर्वार्द्ध तुशब्दो भिन्नक्रमत्वादुत्तरार्द्ध सेसाणेत्यत्र योज्यते स च विशेषार्थसंसूचकत्वादमुं विशेष सूचयति / मोहनीयायुर्नामगोत्राणां काश्चिदेवोत्तरप्रकृतीरधिकृत्यायं सादिपर्यवसानलक्षणस्तृतीयो भङ्गः प्राप्यते। काश्चित्पुनरधिकृत्य पूर्वोक्तावेव द्वौ भनौतथा ह्यौपशमिकसम्यक्त्वावाप्तौ सम्यक्त्वसम्यग्मिथ्यात्वयोः संभवः / पञ्चेन्द्रियत्वप्राप्ती वैक्रियषट्कस्य सम्यक्त्वप्राप्तौ तीर्थङ्करनाम्नः संयमावाप्तावाहारकद्विकस्येति सादिपर्यवसानता अनन्तानुबन्धिमनुष्यद्विकोचैर्गोत्रादीनामुदलितानामपि भूयोऽपि बन्धसंभवादायुःप्रकृतीनां च पर्यायेण भवनात् स्फुटैव सादिपर्यवसानता। अप्रत्याख्यानक्रोधाद्यौदारिकशरीरादिनीचैर्गोत्रलक्षणाः पुनरुत्तरप्रकृतीरधिकृत्य भव्यानामनादिस पर्यवसानः अभव्यानामनाद्यपर्यवसान इति द्वावेव भङ्गो / यदापि