________________ कम्म 255 अमिधानराजेन्द्रः भाग.३ थ्यात्वलक्षणं कर्म परिणामवशात्पुञ्जत्रयं कुर्वन्मिश्रतां सम्यक्मिथ्यात्यपुञ्जरूपतां नयेत्प्रापयेदिति। इतरेतरभाव वा नयेत्सम्यक्त्वमिथ्यात्वञ्चेति / इदमुक्तम्भवति पूर्वबद्धात् मिथ्यात्वपुद्गलाद्विशुद्धपरिणामं संशोधयित्वा सम्यक्त्वरूपतां नयेदविशुद्धपरिणामंतु समुत्कर्ष नीत्वा सम्यक्त्वपुद्रलान् मिथ्यात्वपुजे संक्रमय्य मिथ्यात्वरूपता नयेदिति पूर्वगृहीतस्य सत्तावर्तिनः कर्मण इदं कुर्यात्। ग्रहणकाले पुनर्न मिश्रः पुण्यपापपरुषतया संकीर्णस्वभावं कर्म बध्नाति। नापि इतररूपता नयतीति विशे०। (पुण्यपापप्रकृतयः अत्रैव कम्मशब्दे वक्ष्यन्ते) तदेवं पुण्यपापे पृथग्व्यवस्याप्येदानीं तयोरेव पृथग्लक्षणमाह। सोहणवण्णाइगुणं, सुभाणुभावं च जं तयं पुण्णं / विवरीयमसुमपावं, न वायरं नाइसुहुमं च / / शोभनाः शुभा वर्णादयो गन्धरसस्पर्शलक्षणा गुणा यस्य / तच्छोभनवर्णादिगुणं तथा यच्छुभानुभावं शुभविपाकमित्यर्थः / तत्पुण्यमभिधीयते। यत्पुनरतः पुण्याद्विपरीतलक्षणशुभं वर्णादिगुणमशुभविपाकं चेत्यर्थः / तत्पापमुच्यते / एतचोभयमपि कथंभूतमित्याह। न मेर्वादिभावेन परिणतस्कन्धवदतिवादरं सूक्ष्मेण कर्मवर्गणा द्रव्येण निष्पन्नत्वान्नापि परमाण्वादि वदतिसूक्ष्मवदिति / आह ननु तत्पुण्यपापरूपं कर्मद्वयं गृह्णानो जीवः कीदृशं गृह्णाति कथं च गृह्णातीत्याह। गिण्हइ तं जोग्गं चिय, रेणुं पुरिसो जहा कयन्मंगो। एगक्खेत्तोगाढं,जीवो सव्वप्पएसेहिं / / तस्य पुण्यपापात्मकस्य कर्मणो योग्यमवे कर्मवर्गणागतं द्रव्यं जीवो | गृह्णाति। न तु परमाण्वादिकमौदारिकादिवर्गणागतं वा योग्यमित्यर्थः / तदप्येकक्षेत्रावगाढमेव गृह्णाति न तु स्वावगाढप्रदेशभ्यो भिन्न प्रदेशावगाढमित्यर्थः। तच यथा तैलादिकृताभ्यङ्गः पुरुषो रेणुं गृह्णाति / तथा रागद्वेष-क्लिनस्वरूपोजीवोऽपि गृह्णातिनतु निर्हेतुकमिति भावः। इदं च सर्वैरपि स्वप्रदेशै वो गृह्णातिन तु कैश्चिदित्यर्थः / उक्तं च। एगपएसोगाढं, सव्वपएसेहिं कम्मणो जोग। बंधइ जहुत्तहेउं, साइयमण्णाइयं वा वि॥ उपशमश्रेण्या प्रतिपतितो मोहनीयादिकं कर्मादि बध्नाति / शेषस्त्वनवाप्तोपशमश्रेणिजीवो नाद्यमेव बध्नातीत्यर्थः इति / अथ प्रेरकः प्राह। अविसिट्ठपोग्गलघणो, लोए थूलतणुकम्मपविभागो। जुञ्जेज गहणकाले, सुभासुभविएयणं कत्तो / / नन्ववशिष्टः प्रत्याकाशप्रदेशमनन्तानन्तशुभाशुभादिभेदनाव्यवस्थितैः पुद्गलैघनो निरन्तरं व्याप्तोयोलोकस्ततश्च ग्रहणकाले गृह्णतो जीवस्य स्थूलसूक्ष्मकर्मप्रविभागो युज्येता ततो "न बायरं नाइसुहुमं चे" ति विशेषणमुपपन्नमेतद्विशेषणविशिष्टादन्यस्य स्वभावत एव जीवैरग्रहणाद्यत्तु शुभाशुभविवेचनं तत्समयमात्ररूपे कर्मग्रहणकाले तत्क्षणएव गृह्णतो जीवस्यकुतः संभाव्यतेन कुतश्चिदिति परस्याभिप्रायः। ततश्च "सोहणवण्णाइगुणमि" त्यादिविशेषणं न युज्यत इति प्रेरकाकृतमिति / आचार्यः प्राह / अविसिट्ठ चियतं सो, परिणामासयसमावउक्खिप्पं / कुरुते सुभमसुभं वा, गहणे जीवो जहाहारं // स जीवस्तत्कर्मग्रहणे ग्रहणकाले शुभाशुभादिविशेषणाविशिष्टमपि गृहन् क्षिप्रं तत्क्षणमेव शुभमशुभं वा कुरुते शुभाशुभविभागेन स्थापयतीत्यर्थः / कुत इत्याह (परिणामासयसभावउ त्ति) इहाश्रयो द्विविधः कर्मत्वशुभाशुभत्वस्य तस्य द्विविधस्याप्याश्रयस्वभावः परिणामश्चाश्रयस्वभावश्च परिणामाश्रयस्वभादौ ताभ्यामेतत्कुरुते। इह मुक्तं भवति जीवस्य शुभोऽशुभो वा परिणामोऽध्यवसायस्तदशाद् ग्रहणसमय एव कर्मणां शुभत्वमशुभत्वं वा जनयति तथा जीवस्यापि कम्मश्रियभूतस्य स कोऽपि स्वभावोऽस्ति येन शुभाशुभत्वेन परिणमयतैव कर्म गृह्णति तथा कर्मणोऽपि शुभाशुभ-भावाद्याश्रयस्य स स्वभावः स कश्चिद्योग्यता विशेषोऽस्ति येन शुभाशुभपरिणामांन्वितजीवेन गृह्यमाणमेवैतद्रूपतया परिणमति उपलक्षणं चैतत्प्रकृतिस्थित्यनुभागवैचित्र्यं प्रदेशानामल्प-बहुभागवैचित्र्यं च जीवः कर्मणो ग्रहणसमय एव सर्वं करोतीत्युक्तञ्च "गहणसमयम्मि जीवो, उप्पाए य गुणेसव्वपव्वय-उ।सव्वजियाणंतगुणे,कम्मपएसेसुसव्वेसु।आउयभागो थोवो, नामे गोए तओ अहिगो / आवरणमंतराय-सरिसो अहिगोयमोपविसव्वो / वरिवेयणीयभागो, अहिगो ऊ कारणं किं तु / सुहदुक्खकारणत्ता, विईविसेसेण सेसासुत्ति' एतत्सर्व कर्मणो ग्रहणसमये आहारदृष्टान्तेन जीवः करोतीति / आहारदृष्टान्तमेव भावयति। परिणामासयवसओ, घेणुस्य जह पओ विसमहिस्स। तुल्लो वि तदाहारो, तह पुण्णापुण्णपरिणामो / / (तदाहारोत्ति) तयोरहिधेन्वोराहारस्तदाहारः स तुल्योऽपि- दुग्धादिको गृहीतः परिणामाश्रयवशाद्यथा धेन्वाः पयो दुग्धं भवति / अहेस्तु स एव विषं विषरूपतया परिणमति / तथा तेनैव प्रकारेण पुण्यापुण्यपरिणामः इदमुक्तं भवति अस्ति स कश्चित्तस्याहारस्य परिणामो येन तुल्योऽपि सन्नाश्रयवैचित्र्याद्विचित्रतया परिणमति आश्रयस्याप्यहिधेनुलक्षणस्यापि तत्तन्निजसामर्थ्य येन तुल्योऽपि गृहीत आहारस्तद्रूपतया परिणसति / तथा पुण्यपापयोरुपनययोजना कृतैवेति / अथवा अयमेवाहारदृष्टान्तो भाव्यते तद्यथा। जह वेगसरीरम्मि वि-सारासारपरिणामयामेइ। अविसिट्ठो आहारो, तह कम्मसुभासुभविभागो।। धेनुविषधरयोः भिन्नशरीरे आहारस्य परिणामवैचित्र्यं दर्शितम् / वा इत्यथवा यथा एकस्मिन्नपि पुरुषादिशरीरे विशिष्टेऽप्येकरूप आहारो गृहीतस्तत्क्षण एव सारासारपरिणामतामेति। रसासृग्मांसा हिरसपरिणाम मूत्रपुरीषरूपखलपरिणामं च युगपदागच्छतीत्यर्थः / तथा कर्मणोऽप्यविशिष्टस्य गृहीतस्य परिणामवशात् शुभाशुभविभागो द्रष्टव्य इति। तदेवं पुण्यपापयोर्लक्षणादिभेद प्रसाध्य तद्भेदभूतप्रकृतिभेदेनापितयोर्भेदभुपदर्शयन्नाह। सायं सम्मंहासं,पुरिसरइसुभाउनामगोत्ताई। पुन्नं सेसं पावं, नेयं सविवागमविवागं / / सातवेदनीयं शोधितमिथ्यात्वपुद्गलरूपं सम्यक्त्वं हास्यं पुरुषवेदो रतिः शुभायु मगोत्राणि चेत्येतत्सर्वं पुण्यमभिधीयते। तत्र नारकायूवर्ज शेषमायुस्वयं शुभं देवद्विकयशःकीर्तितीर्थकरनामाद्याः सप्तत्रिंशत्प्रकृतयो नामकर्माणि शुभाः / गोत्रे पुनरुच्चैर्गोत्रेशुभमेतोः षट्चत्वारिंशत्प्रकृतयः किल शुभत्वा-त्पुण्याः / अन्ये तु मोहनीयभेदात्सर्वानपि जीवस्य विपर्यासहेतुत्वात्पायमेवमन्यन्तेततः सम्यक्त्वादस्य पुरुष-वेदरतिवर्जा द्विचत्वारिंशद्देव प्रकृतय : पुण्यास्तद्यथा।।