SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ कम्म 254 अभिधानराजेन्द्रः भाग 3 कम्म इत्येवं पञ्चविकल्पोपन्यस्तस्वभाववादनिरासेन पुण्यपापात्मकस्य कर्मणः सुखदुःखकारणत्वे रूपित्वे च सिद्धे पुण्यापकर्षमात्रेण यत् दुःखबहुलत्वं प्रथमविकल्पोपन्यासे प्रोक्तं तदयुक्तमिति कुतोऽयुक्तमित्याह। कम्मप्पगरिसजणियं, तदवस्सं पगरिसाणुभूई। सोक्खप्पगरिसभूई,जह पुण्णप्पगरिसप्पभवा॥ तत् दुःखबहुलत्वं पुण्यापकर्षजनितं न भवति किंतु स्वानुरूपकर्मप्रकर्षजनितंप्रकर्षानुभूतित्वादप्रकर्षानुभवरूपत्वादिति हेतुः यथा सौख्यप्रकर्षानुभूतिः स्वानुरूपकर्मप्रभवा इति दृष्टान्तः। ___ उपपत्त्यन्तरमाहतह बज्झसाहणप्पग-रिसंगभावादिहण्णया न तयं / विवरीयवज्झसाहण-बलप्पगरिसं अवेक्खेज॥ तथेत्युपपत्त्यन्तरार्थः इह देहिनां दुःखबहुत्वं केवलपुण्यापकर्षमात्रजनितं न भवति कुत इत्यत्र हेतुमाह। बाह्यानि यान्यनिष्टाहारादीनि साधनानि तेषा यस्तदनुरूपः प्रकर्षस्तस्याङ्गभावात्कारणभावादिति / विपर्यते बाधकमाह। इहेत्यादि तद्दुःखमन्यथा यदि पुण्यापकर्षमात्रजन्य भवेत्तदा पुण्यसंपाद्येऽष्टाहारापचयमात्रादेव भवेन्न तु पापोदयसंपाद्यानिष्टाहारादिरूपविपरीतबाह्ये साधनानां यदलं सामर्थ्य यस्य स्वानुरूपो यः प्रकर्षस्तमपेक्षेत। इदमत्र हृदयं यदिपुण्यापकर्षमात्रजन्यं दुःखं भवेत्तदा पुण्योदयप्राप्येष्टाहारादिसाधनापकर्षमात्रादेव भवेन्न चैतदस्ति इष्टविपरीतानिष्टाहारादिसाधनसामर्थ्यादेव तद्भावादिति। अपि च / / देहो नोपचयकओ, पुण्णुक्करिसे व मुत्तिमत्ताओ। होज सुभहीणतरओ, कहमसुभयरो महल्लो व॥ वो दुःखितहस्त्यादिदेहः केवलपुण्यापचयमात्रकृतो न भवति मूर्तिमत्वाद्यथा पुण्योपकर्षस्तजन्योऽनुत्तरसुरचक्रवादिदेहः यश्व पुण्यापचयमात्रजन्यः स मूर्त्तिमानपि न भवति यथा न कोऽपि यदि च पुण्यापचयमात्रेण देहो जन्येत तदा हीनतरः शुभ एव च स्यात्कथं महानशुभतरश्च भवेन्महतो महापुण्योपचयजन्यत्वादशुभस्य वा शुभकर्मनिवर्तित्वात्पुण्येन पुनरणीयसापिशुभदेहोजन्येताननुदुःखितः अणीयसापि हि सुवर्णलवेन अणीयानपि सौवर्ण एव घटो भवति न तु मार्तिकस्ताम्रादिर्वेदि। अथ केवलपापपक्षं संकीर्ण्य पुण्यपापपक्षं च दूषयितुमाह। एवं चिय विवरीयं, जोएजा सव्वपावपक्खे वि। नय साहारणरूवं, कम्मं तकारणाभावा / / सर्व पापमेवास्ति न तु पुण्यं पापापचयमात्रन्यत्वात्सुखस्येत्येतस्मिन्नपि पक्षे एवमेव केवलपुण्यवादोक्तदूषणाद्विपरीतगत्या सर्व योजयेत्तद्यथा पापपकर्षमात्रजनितं सुखं न भवति पापस्याल्पीयसोऽपि दुःखजनकत्वान्न ह्यणीयानपि विषलवः स्वास्थ्यहेतुर्भवति तस्मात्पुण्यजनितमेवाल्पमपि सुखमित्यादिस्वबुद्ध्याऽभ्यूह्य वाच्यमिति पृथक् सुखदुखयोः कारणभूते स्वतन्त्रे पुण्यपापे द्रष्टव्ये। अत एव साधारणेऽपि संकीर्णे पुण्यपापे नेष्टव्ये कुत इत्याह / नयेत्यादि न च साधारणरूपं संकीर्णस्वभावंपुण्यपापात्मकमेकं कम्मास्ति तस्यैवंभूतस्य कर्मणः कारणा-भादत्र प्रयोगो नास्ति संकीर्णो भयरूपं कर्म असंभाव्यमानैवं-विधकारणत्वाद्वन्ध्यापुत्रवदिति हेतोरसिद्धता परिहरन्नाह। कम्मं जोगनिमित्तं, सुमो सुभो वा भवेगसमयम्मि। होज न उ उभयरूवो, कम्म पि तओ तयणुरूवं / / मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतव इति पर्यन्ते योगाभिधानात्सर्वत्र कर्मबन्धहेतुत्वस्य योगाविनाभावात् योगानामेव बन्धहेतुत्वमिति कर्मयोगनिमित्तमुच्यते। स च मनोवाकायात्मको योग एकस्मिन्समये शुभोऽशुभो वा भवेन्न तूभयरूपोऽतः कारणानुरूपत्वाकार्यस्य कम्मापि तदनुरूपं शुभं पुण्यरूपं वध्यते / ननु संकीर्णस्वभावमुभयरूपमेकमिहैव वध्यत इति प्रेरकः प्राह।। नणु मणवइकायजोगो, सुभासुभा एगसमयम्मि दीसंत / दवम्मि मीसमावो, भवेज न उ भाव करणम्मि। ननु मनोवाकाययोगाः शुभाशुभाश्च मिश्रा इत्यर्थः / एकस्मिन् समये दृश्यन्त तत्कथमुच्यते / शुभोऽशुभो वा (एगसमयम्मित्ति) तथा हि किञ्चिदविधिना दानादिवितरणं चिन्तयतः शुभोऽशुभो मनोयोगस्तथा किमप्यविधिनैव दानादिधर्ममुपदिशतः शुभाशुभो वाग्योगस्तथा किमप्यविधिनैव जिनपूजावन्दनादिकाय चेष्टां कुर्वतःशुभाशुभकाययोग इति तदेतत् अयुक्तं कुत इत्याह "दव्वम्मीत्यादि" इदमुक्तं भवति इह द्विविधो योगो द्रव्यतो भावतश्च तत्र मनोवाकाययोगप्रवर्तकानि द्रध्याणि मनोवाक्काय-परिस्पन्दात्मको योगश्च द्रव्ययोगः यस्त्वेतदुभयरूपयोगहेतुरध्यवसायः स भावयोगस्तत्र शुभाशुभरूपाणां यथोक्तचिन्तादेशनाकायचेष्टानां प्रवर्तको द्विविधेऽवि द्रव्ययोगेव्यवहारनयविवक्षादर्शनमात्रेणभवेदपि शुभाशुभत्वोपलक्षणो मिश्रभावः न तु मनोवाकाययोगनिबन्धनाध्यवसायरूपे भावकरणे भावात्मके योगेऽयमभिप्रायः / द्रव्ययोगो व्यवहारनयदर्शनेन शुभाशुभरूपोऽपीष्यतेनिश्चनयेन तुभूयोऽपि शुभोऽशुभो वा केवलः समस्ति यथोक्तचिन्तादेशनादिप्रवर्तकद्रव्ययोगानामपि शुभाशुभमिश्ररूपाणां तन्मर्तनाभावात्मनोवाक्काययोगनिबन्धनाध्यवसायरूपे भावकरणभावयोगेशुभाशुभरूपो मिश्रभावो नास्ति निश्चयनयदर्शनस्यैवागमेऽत्राविवक्षितत्वान्न हि शुभान्यशुभानि बाध्यवसायस्थानानि मुक्त्वा शुभाशुभाध्यवसायस्थानरूपस्तृतीयो राशिरागमे क्वचिदपीष्यते येनाध्यवसायरूपे भावयोगे शुभाशुभत्वं स्यादिति भावस्तस्माद्भावयोग एकस्मिन्समये शुभोऽशुभो वा भवति न तु मिश्रस्ततः कापि तत्प्रत्ययं पृथक् पुण्यरूपंपापरूपं वा बध्यते नतु मिश्ररूपमिति स्थितं एतदेव समर्थयन्नाह॥ ज्झाणं सुभमसुभं वा, त उ मीसं जंच ज्झाणोवरमे वि। लेसा सुभासुभा वा, सुभमसुभंवा तओ कम्मं / / ध्यानं यस्मादागमे एगदाधर्मशुक्लध्यानात्मकं शुभमातरौद्रात्मकमशुभं वा निर्दिष्ट न तु शुभाशुभरूपं यस्माच ध्यानोपरमेऽपि लेश्या तेजसीप्रभृतिका शुभा कापोतीप्रमुखा वा शुभा एकदा प्रोक्ता न तु शुभाशुभरूपा ध्यानलेश्यात्मका स्वभावयोगास्ततस्तेऽप्येकदा शुभा अशुभा वा भवन्ति न तु मिश्रास्ततो भावयोगनिमित्तं काप्येकदा पुण्यात्मकंशुभं वध्यतेपापात्मकमशुभवाबध्यतेनतुमिश्रमपि। अपि च / पुथ्वग्गहियं च कम्म, परिणामवसेन मीसइयं नेजा। इयरेयरभावं वा, सम्मामित्थाइ न उग्गहणे // इत्यथवा एतदद्यापि सम्नाव्यते यत्पूर्व गृहीतं पूर्व बद्धं मि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy