________________ कम्म 253 अमिधानराजेन्द्रः भाग 3 कम्म इतरदपि पुण्यपापयोः साधनाय प्रमाणमाह-- सुखदुक्खकारणमणु-रूवं कज्जस्स भावओ वस्सं। परमाणवो घडस्सव, कारणमिह पुण्णपावाई।। अस्त्यवश्यं सुखदुःखयोरनुरूपं कारणं कार्यत्वात्तयोर्यचेह कार्य तस्यानुरूपं कारणं भवत्येन यथा घटस्य परमाणवस्तच तयोरिहानुरूपं कारणं सुखस्य पुण्यं दुःखस्य पापमिति। प्रेरकः प्राहसुहदुक्खकारणं जइ, कम्मं कज्जस्स तदणुरूवं च / पत्तमरूवं तं पि हु, अह रूवं नाणुरूवं तु // ननु यदि सुखदुःखयोः पुण्यपापात्मकं कर्म कारणं तच यदि कार्यस्य सुखदुःखरूपस्यानुरूपं सदृशमिष्यते तर्हि सुखदुःखयोरात्मपरिणामत्वेनारूपत्वात्तदपि पुण्यपापात्मकं कर्म तदनुरूपतयाऽरूपं प्राप्नोति। अथ रूपवत्तर्हि नानुरूपं तन्मूर्तत्वेन विलक्षणत्वादिति। अत्रोत्तरमाहन हि सव्वहा गुरूवं, भिन्नं वा कारणं अह मयं ते / किं कन्जकारणत्तण-महवा वत्थुत्तणं तस्स // न हि सर्वथा कार्यानुरूपं कारणमिष्यते येन सुखदुःखवत्कर्मणोऽप्यरूपत्वं प्रेर्यत / नाष्येकान्तेन सर्वधर्मः कारणं कार्यादिन्नमेष्टव्यम् (अह मयंतित्ति) अथ ते तवैतन्मतमेकान्तेन सर्वैरपि धर्मः कारणं कार्यानुरूपमेव भिन्नं वा नन्वनुरूपमे वेति तर्हि सर्वथाऽनुरूपत्वे एकस्य कारणत्वे अपरस्यापि कारणत्वादेकस्य च कार्यत्वेऽन्यस्यापि कार्यत्वात्किं तयोः कार्यकारणत्वं न किंचित् द्वयोरपि वस्तुत्वे सर्वथा भेदहानि-प्रसङ्गादिति तस्मान्नैकान्तेनानुरूपता अननुरूपता वा कार्य-कारणयोः किं तर्हि। सव्वं तुल्लातुल्लं, जइ तो कजाणुरूवया केयं / जं सोम्म ! सपनाओ, कजं परपज्जओ सेसो।। न केवलं कार्यकारेण एव तुल्यातुल्यरूपे किं तु सकलमपि त्रिभुवनान्तर्गतं वस्तु परस्परंतुल्यातुल्यरूपमेव न पुनः किंचित्कस्यापि एकान्तेन तुल्यमतुल्यं वा / लब्धावकाशः परः प्राह (जईत्यादि) यद्येवं ततः केयं कार्यानुरूपता कारणस्य विशेषतोऽन्विष्यते येनोच्यते "सुहदुक्खाणं कारणमगुरूव मित्यादि" यदि हि किंचिदनेकान्तेनानुरूपं स्यात्तीत्थं वक्तुं युज्येत यदा त्वेकान्ततो न किंचिदनुरूपं नाप्यननुरूपं किंतु सर्व सर्वेण तुल्यातुल्यरूपमेव तदा किमनेन विशेषेण / अत्रोच्यते (जमित्यादि) सोम्य! तुल्यातुल्यत्वे सर्वगते अपि यद्यस्मा-त्कारणस्य कार्यं स्वपर्यायस्तस्मात्कारणं कार्यस्येहानुरूपमुच्यते शेषस्त्वकार्यरूपः सर्वाऽपि पदार्थः कारणस्य परपर्याय इति तं प्रति विवक्षितं कारणमसमानरूपमभिधीयते / आह ननु कथं प्रस्तुते सुखदुःखे कारणस्ये स्वपर्याय उच्यते। जीवपुण्यसंयोगः सुखस्य कारणं तस्य च सुखं पर्याय एव दुःखस्यापि जीवपापसंयोगः कारणमतस्तस्यापि दुःखं पर्याय एव। यथा च सुखं शुभं कल्याणं शिवमित्यादीन् व्यपदेशान् लभते तथा तत्कारणभूतं पुण्यस्कन्धद्रव्यमपि यथाच दुःखमशुभमकल्याणमशिवमित्यादिसंज्ञां प्राप्नोति तथा तत्कारणभूतं पापद्रव्यमपीति / विशेषतोऽत्र पुण्यपापे सुखदुःखयोरनुरूपकारणत्वेनोक्ते इति। अथ परः प्रेर्ये चिकीर्षुस्तदवकाशहेतोः पृच्छति किं जह मुत्तममुत्तस्स कारणं तह सुहाइणं कम्मं / दिटुं सुहाइकारण मन्त्राइ जहेह तह कम्मं / / किं यथा मूर्त नीलादिकममूर्तस्य स्वप्रतिभासिज्ञानस्य कारणं हेतुस्तथा सुखदुःखयोः पुण्यपापात्मकं कपि मूर्तमेव सत्कारणं यथा प्रत्यक्ष एव दृष्टमन्नादिकमादिशब्दात्स्त्रक्चन्दनाङ्गनाहिविषकण्टकादिकमिह सुखदुःखयोः मूर्त सत्कारणं तद्वत्कापि तयोरिति भावार्थः / ततः किमिति चेदुच्यतेः। होउ तयं चिय किं क-म्मणा न जंतुल्लसाहणाणं पि। फलभेदओ सो वस्सं, सकारणं कारणं कम्मं // ननुतदेव दृष्टमन्नादिकं वस्तु तस्य सुखादेःकारणमस्तु किमदृष्टेन तेन कर्मणा परिकल्पितेन अतिप्रसङ्गात्तदेतन्न यद्यस्मात्तुल्यान्यन्नादीनि साधनानि येषां ते तुल्यसाधनाः पुरुषास्तेषामपि फले सुखदुःखलक्षणे कार्यभेदः फलभेदो महान् दृश्यते / तुल्येऽप्यन्नादिके भुक्ते कस्याप्याहादोऽत्यस्य तु रोगाद्युत्पत्तिर्दृश्यत इत्यर्थः / यश्चेत्थं तुल्यान्नादिसाधनानामपि फलभेदः सोऽवश्यमेव सकारणो निष्कारणत्वे नित्यं सत्वासत्वप्रसङ्गाद्यच तत्कारणं तददृष्ट कर्म इति न तत्कल्पनानर्थक्यमिति। मूर्तं च तत्कर्म कुत इत्याहयत्तो चिय तं मुत्तं, मुत्तबलाहाणओ कुंभो। देहाइ कञ्जमुत्ता-इओव भणिए पुणो भण्णइ / / यत एव तुल्यसाधनानां कर्मनिबन्धनफलभेदोऽत एवोच्यते मूर्त कर्म मूर्तस्य देहादेबलाधानकारित्वात्कुम्भवद्यथा निमित्त-मात्रभावित्वेन घटो देहादीनां बलमाधत्ते एवं कर्माप्यन्नं भूर्तमित्यर्थः / अथवा मूर्त्त कर्म मूर्तेन सचन्दनादिना तस्योपचयलक्षणस्य बलस्याधीयमानत्वात्कुम्भवद्यथा मूर्तत्वेन तैलादिना वलस्याधीयमानत्वाकुम्भो मूर्तः / एवं सक् चन्दनादिना उपचीयमानत्वात्कापि मूर्त्तामिति भावः। यदि वा मूर्त कर्मा देहादेस्तत्कार्यस्य मूर्तीत्वात्परमाणुवद्यथा घटादेस्तत्कार्यस्य दर्शनात्परमाणवो मूत्तौः एवं देहादेस्तत्कार्यस्य मूर्तस्य दर्शनात् कर्मापि मूर्तमित्यर्थः / एवं भणितेन पुनर्भणति परः किमित्याह / तो किं देहाईणं, मुत्तत्तणओ तयं हवइ मुत्तं / अह सुहदुक्खाईणं, कारणभावादरूवं ति॥ ततः किं देहादीनां कर्मकार्याणां मूर्तानां दर्शनात्तत्कर्म मूर्त भवत्वाहोश्वित्सुखदुःखक्रोधमानादीनां जीवपरिणामभूतानां तत्कार्याणामभूतानां दर्शनात्तत्कारणभावेनामूर्तमस्तु कर्मेत्येवं मूर्तत्वामूर्तत्वाभ्यामुभयथापितत्कार्यदर्शनारिक मूर्त वा कर्म भवत्विति निवेद्यतामिति / एवं प्रेरकेणोक्ते सत्याह। न सुहाईणं हेउ, कम्मं वि य किं तु ताण जीवो वि। होइ समवायकारण-मियरं कम्मं ति को दोसो।। सुखादीनां कर्मव केवलं कारणं न भवति किं तु जीवोऽपि तेषां समवायिकारणं भवति कर्म पुनरेतदसमवायिकारणं भवतीति को दोषः / इदमुक्तं भवति सुखादेरमूर्त्तत्वेन समवायिकारणस्य जीवस्याभूतत्वमस्त्येव असभवायिकारणस्य तु कर्मणः सुखाद्यमूर्त्तत्वेन मूर्त्तत्वं न भवतीत्यपीति न दोष इति / तदेवमुक्तमर्थमुपसंहरन्केवलपुण्यलक्षणं प्रथमविकल्पं दूषयितुमाह। इय रूवित्ते सुहदुक्ख-कारणत्ते य कम्मणो सिद्धो। पुण्णावगरिसमेत्तेण, दुक्खबहुलत्तणमजुत्तं //