________________ कम्म 252 अभिधानराजेन्द्रः भाग 3 कम्म सिद्धः सर्वोऽप्ययं जगत्प्रपञ्चः। अतस्त्वमप्येतानेव विकल्पान्मन्यसे। एतेषां च विकल्पानां परस्परविरुद्धत्वात्संशयदोलामारुढोऽसि त्वमिति / ननु येषां पुण्यमेवैकमस्तिनपापंतन्मते कथं कस्यापिदुःखोपपत्तिरित्याह। पुण्णुकरिसे सुभया, तरतमयोगावगरिसओ हाणी। तस्सेव खए मोक्खो, पत्थाहारोवमाणाओ।। पुनातीति पुण्यं तस्योत्कर्षे लेशतो लेशतश्च वृद्धौ शुभता भवति सुखस्यापि क्रमशो वृद्धिर्भवति। तावद्यावदुत्कृष्ट स्वर्गसुखमित्यर्थः / तस्यैव पुण्यस्य तरतमयोगपिकर्षतो हानिः सुखस्य दुःखं भवति। इदमुक्तं भवति। यथा यथा पुण्यमपचीयते तथा तथा जीवानां क्रमेण दुःखमुत्पद्यते यावत्सर्वप्रकर्षप्राप्तं नारकदुःखं तस्यैव च पुण्यस्य सर्वथा क्षयो मोक्ष इति एतच्च सर्व पथ्याहारोपमानाद्भावनीयम् / तथाहि यथा पथ्याहारस्य क्रमेण वृद्धौ सुखवृद्धिर्यथा च पथ्याहारस्य क्रमेण परिहारे सरोगता भवत्येवं पुण्योपचये दुःखोत्पत्तिः सर्वथा पथ्याहारस्य परिहारे च मरणवत्पुण्यक्षये मोक्ष इति। केवलपापाभ्युपगमे सुखसंभयः कथमित्याह। पावकरिसेह मया, तरतमजोगावगरिसओ सुभया। तस्से व खये मोक्खो, अपत्थभुजोवमाणाओ / / इहापथ्याट्ठारोपमानाद्वैपरीत्येन भावना कार्या / तथा हि यथा क्रमेणापथ्यवृद्धौ रोगवृद्धिस्तथा पांशयत्यात्मानं मलिनयतीति पापंतस्य वृद्धौ दुःखवृद्धिरूपाऽधर्मता मन्तव्या क्रमेण दुःखं वर्द्धते यावदुत्कृष्ट नारकदुःखम् / यथा वा पथ्यत्यागात्क्रमेण रोगवृद्धिस्तथा क्रमेण पापस्यापकर्षात्सुखस्य वृद्धिर्यावदुत्कृष्ट सुरसौख्यम् / यथा च पथ्याहारस्यासर्वथा परित्यागात्परमा-रोग्यमुपजायते एवं सर्वपापक्षये मोक्ष इति। (15) अथ साधारणं पुण्यपापाख्यमेकमेवं संकीर्ण वस्त्विति तृतीयविकल्पं भावयन्नाहसाहारणवण्णादिव, अह साहारणमहेगमत्ताए। उक्करिसावगरिसो, तस्सेवय पुण्णपावक्खा / / "अह साहारणमिति' अथ साधारणं संकीर्णपुण्यपापाख्यवस्तु इत्यर्थः / कथंभूतं पुनरिदमवगन्तव्यमिहत्याह (साहारणवण्णादिवत्ति) यथा साधारणं तुल्यं हरिता-लगुलिकादीनामन्यतरन्मीलितं वर्णकद्वयम् आदिशब्दात् यथा मेचकमणिनरसिंहादि वा तथेदमपि पुण्यपापाख्यसंकीर्णमेकं वस्त्वित्यर्थः / ननु यद्येकं वस्त्विदं तर्हि पुण्यं पापं चेति परस्परविरोधे वस्तुविषयमाख्याद्वयं कथं लभते इत्याह "अहेगमत्ताए इत्यादि" अथ तस्यैवैकस्य संकीर्णपुण्यपापाख्यवस्तुन एकया पुण्यमात्रया एकेन पुण्यांशेनेत्यर्थः / उत्कर्षतो वृद्धौ सत्यां पुण्याख्या प्रवर्तते एकयातुपापमात्रया एकेन पापांशेनेत्यर्थः / उत्कर्षतो वृद्धौ सत्यां पापाख्या प्रवर्त्तते अपकर्षेऽपि पुण्यांशस्य पापाख्या प्रवर्तते पापांशस्य त्वप्रकर्षे पुण्या प्रवर्तत इति चतुर्थं पञ्चमं च विकल्पवृद्धिकृत्यमाह। एवं चिय दो भिन्ना-ई होजा वा समावओ चेव। भवसंभूई भण्णइ, न सभावओ होज जो मिमओ / / होज सहावो वत्थु, निक्कारणया च वत्थुधम्मो वा। जइ वत्थु नत्थि तओ, अणुवलद्धी उखपुप्पं च / / एवमेव केषांचिन्मतेन द्वे अपि भिन्ने स्वतन्त्र स्यातां पुण्यपापे तत्कार्यभूतयोः सुखदुःखयोर्योगपद्ये नानुभवाभावादतोऽनेनैव भिन्नकार्यदर्शनन तत्कारणभूतयोः पुण्यपापयोर्भिन्नताऽनुमीयते इति (होञ्जवेत्यादि) अथवा स्वभावत एव विनापि पुण्यपापा-भ्यां भवसंभूतिर्भववैचित्रस्य संभवः कैश्चिदिष्यते तदेवं दर्शिताः पञ्चापि पुण्यपापविषया विकल्पाः / एतैश्च भ्रमितमनोभिः संशयो न कर्त्तव्यः / एकस्यैव चतुर्थविकल्पस्यादेयत्वाच्छेषाणां चानादेयत्वादत एव प्रत्यासत्तिन्यायमङ्गीकृत्य पञ्चमविकल्पं तावत् दूषयितुमाह (भण्णईत्यादि) भण्यतेऽत्रोत्तरं नस्वभावतो भवेदितित्रयो विकल्पास्तत्र यदि वस्तुरूपोऽयमिति प्रथमो विकल्पस्तर्हि तत्कोऽसौ स्वभावो नास्ति अनुपलम्भात्खपुष्पवदिति / अत्राप्यनुपलभ्यमानोऽप्यस्त्यसावित्याखङ्ग्याह। अचंतमणुवलद्धो, वि अह तउ अस्थि नत्थि किं कम्म। हेउ च तदत्थि तेजो, नणु कम्मस्स वासए एव / / कम्मस्स वा मिदाणं, होज समावोत्ति होउ को दोसो। एइनिययगासउ, न य सो कत्ता घडस्सेव।। मुत्तो अमुत्तो व तओ, जइ मुत्तो तो मिहाणओ भिन्नो। कम्मत्ति सहाओत्ति य, जइ वा मुत्तो न कत्ता तो।। देहाणं तोमपि व-जुत्ता कजाइं उय मुत्तिमया। अह सो निकारणया, तो खरसिंगाहओ होतु / / अह वत्थुणो सधम्मो, परिणामो तो सकम्मजीवाणं / पुग्नेयराभिहाणो, कारणकजाणुमेओ सो / किरियाणं कारणाओ, देहाईणं च कञ्जमावाओ। कम्मं महतिहियंति, पडिवजुत्तमवि भूयव्वं / / तं चिय देहाईणं, किरियाणं पि या, सुभासुभत्ताओ। पडिवज्जपुण्णपावं, सभावओ भिन्नजाईयं // एताश्व गाथाः प्रायोऽग्निभूतिगणधरवादे व्याख्याता एव सुगमाश्च नवरं (कारणकजाणुमेओ सोत्ति) स च जीवकर्मणोः पुण्यपापाभिधानं परिणामः कारणेन कार्येन चानुमीयते कारणानुमानात्कार्यानुमानाच गम्यत इत्याह। एतदेवानुमानद्वयमाह "किरियाणं कारणाओ इत्यादि" दानादिक्रियाणां हिंसादिक्रियाणां च कारणत्वात्कारणरूपत्वादस्ति तत्फलभूतस्तत्कार्यरूप पुण्यपापात्मकं जीवकर्मपरिणामः यथा कृष्यादि क्रियाणां शालियवगोधूमादिकम् उक्तं च "समासु तुल्यं विसमासु तुल्यं, सतीष्वसचाप्यसतीषु सच्च / फलं क्रियास्थित्यथ यन्निमित्तं, तद्देहिनां सोऽस्ति नु कोऽपि धर्मः" एतत्कारणानुमानम्। (देहाईणमित्यादि) देहादीनां कारणमस्ति कार्यरूपत्वात्तेषां यथा घटस्यमृद्दण्डचक्रचीवरादिसामग्रीकलितकुलालः / नच वक्तव्यं दृष्ट एव मातापित्रादिकस्तेषां हेतुः दृष्टहेतु साम्येऽपि सुरूपेतरादिभावेन देहादीनां वैचित्र्यदर्शनात्तस्य चादृष्टकर्माख्यहेतुमन्तरेणाभावत एव पुण्यपापभेदेन कर्मणो द्वैविध्यं शुभदेहादीनां पुण्यकार्यत्वादितरेषां तुपापफलत्वादुक्तं च "इह दृष्टहेत्वसंभवि, कार्यविशेषात्कुलालयन्त्रमिव / हेत्वन्तरमनुमेय, तत्कर्म शुभाशुभं कर्तुः" एतत्कार्यानुमानं तथा मदभिहितमिति च कृत्वाऽनिभूतिवत्त्वमपि कर्मप्रतिपद्यस्व। सर्वज्ञवचनप्रमाण्यादित्यर्थः / तदपि पुण्यपापविभागेन।