________________ 251 अभिधानराजेन्द्रः भाग 3 कम्म उवगरणाभावा उ, निचेष्टामुत्तयाइ उवा वि। ईसरदेहारंभे, वि तुल्लया वा णवत्था वा // नायमीश्वरजीवादिरकर्मा शरीरादिकार्याण्यार भंते उपकरणाभावाद्दण्डाद्युपकरणरहितकुलालवत् न व कर्म विना शरीराद्यारम्भिजीवादीनामन्यदुपकरणं घटते। गर्भाद्यवस्थास्वन्योपकरणासम्भवाच्छुक्रशोणितादिग्रहणस्याप्यकर्मणाऽनुपपत्तेः। अथ वाऽन्यथाप्रयोगः क्रियते "निचेद्वेत्यादि" नाकशिरीराधारभते निश्चेष्टत्वादाकाशवत्तथाऽमूर्त्तत्वादादिशब्दादशरीरत्वान्निप्कियत्वात्सर्वगतत्वाद्वाऽऽकाशवदेव। तथा एकत्वादेकपरमाणुवदित्यादि। अत्रोच्यते शरीरवानीश्वरः सर्वार्ण्यपि देहादिकार्याण्यारभते नन्दीश्वरदेहारम्भेऽपि तर्हि तुल्यता पर्यनुयोगस्य। तथाह्यका नारभते निजशरीरमीश्वरो निरुपकरणत्वाद्दण्डादिरहितकुलालवदिति। अथान्यः कोऽपीश्वरस्तच्छरीरारम्भाय प्रवर्तते। ततः सोऽपिशरीरवानशरीरोवा। यद्यशरीरस्तर्हि नारभते निरुपकरणत्वादित्यादि सैव वक्तव्यता / अथ शरीरवांस्तर्हि तच्छरीरारम्भेऽपि तुल्यता सोऽप्यका निजशरीरं नारभते निरुपकरणत्वादित्यादि / अथ तच्छरीरमन्यः शरीरवास्तर्हि तच्छरीरारम्भेऽपि तुल्यता नारभतेऽतस्तस्याप्यव्यक्तस्याप्यन्य इत्येवमनवस्था अनिष्टं च सर्वमेतत्तस्मान्नेश्वरो देहादीनां कर्ता / किं तु कर्म सद्वितीयो जीव एव निष्प्रयोजनश्चेश्वरो देहादीन्कुर्वन्नुन्मत्तकल्प एव स्यात् / सप्रयोजनकर्तृत्वे पुनरनीश्वरप्रसङ्गः। नचानादिशुद्धस्य देहादिकारणेच्छा युज्यते तस्यारागविकल्परूपत्वादित्याद्यत्रबहु वक्तव्यंगहनताप्रसङ्गात्तुनोच्यत इत्यनेनैव विधानेन विष्णु-ब्रह्मादयोऽपि प्रत्युक्ता द्रष्टव्या इति॥ (13) स्वभावदूषणं विवक्षुः शङ्कान्तरं प्रतिविधातुमाहअह व सहावं भण्णसि, विण्णाणधणो इवेय वुत्ताहन। तह बहुदोसं गोयम, ! ताण वप्पमाणपयमत्थो / / अथ'"विज्ञानघन एवैतेभ्यो भूतेभ्य'' इत्यादि वेदवचनश्रवणात्स्वभाव देहादीनां करिं मन्यसे / यतः केचिदाहुः "सर्वहेतुर्निराशंसं, भवानां जन्म वर्ण्यते / स्वभाववादिभिस्ते हि, नाहुः स्वमपि कारणम्" जीवकण्टकादीनां, वैचित्र्यं कः करोति हि! मयूरचन्द्रिकादिर्वा, चित्रः केन विनिर्मितः / कादाचित्कं यदत्नास्ति, निःशेषं तदहेतुकम् / यथा कण्टकतैक्षण्यादि तथा चैते सुखादयः" तदेतद्यथा त्वं मन्यसे गौतम ! तथाऽभ्युपगम्यमानं बहुदोषमेव तथा हि यो देहादीनां कर्ता स्वभावोऽभ्युपगम्यते स किं वस्तुविशेषो वा अकारणता वा वस्तुधम्मों वेति त्रयी गतिस्तत्रनतावद्वस्तुविशेषस्तद्ग्राहक-प्रमाणाभावादप्रमाणकस्याप्यभ्युपगमे कापि नाभ्युपगम्यते तस्यापि त्वदभिप्रायेणाप्रमाणकत्वात् किं च वस्तुविशेषः स स्वभावो मूर्तो वा स्यादमूर्तो वा यदि मूर्तस्तर्हि स्वभाव इति नामान्तरेण कमैवोक्तं स्यादृथामूर्तस्तर्हि नासौ कस्यापि कर्ता अमूर्त्तत्वान्निरुपकरणत्वाच्च व्योमवदिति / नच मूर्तस्य शरीरादिकार्यस्यात्तं कारणमनुरूपमाकाशवदिति / अथाकारणतास्वभाव इयते तत्राप्यभिधरहे / नन्वेवं सत्यकारणं शरीराद्युत्पद्यत इत्ययमर्थः स्यात्तथा च सति कारणाभावस्य समानत्वाद्युगपदेवाशेषदेहोत्पादप्रसङ्गः / अपि चेत्थमहेतुकमाकस्मिकं शरीराधुत्पद्यत इत्यभ्युपगतं भवेदेतचायुक्तमेव यतो यद हेतुकमाकस्मिकं न तदादिमत्प्रतिनियताकारं यथा अभ्रादिविकारः आदिसत्प्रतिनियताकारं च शरीरादि तस्मान्नाकस्मिकं किन्तु कर्महेतुकमेव प्रतिनियताकार-- त्वादेव चोपकरणसहितकर्तृनिवर्त्यमेव शरीरादिकं घटादिवदिति गम्यत एव / नच गर्भाद्यवस्थासु कर्मणोऽन्यदुपकरणं घटत इत्युक्तमेव / अथ वस्तुनो धर्मः स्वभावोऽभ्युपगम्यते / तथाऽप्यसौ यद्यात्मधर्मों विज्ञानादिवत्तर्हि न शरीराकारणमसावमूर्तत्वादाकाशवदप्यभिहितमेव / अथ मूर्तवस्तुधर्मोऽसौतर्हि सिद्धसाधनाकर्मणोऽपि पुङ्गलास्तिकायपर्यायविशेषत्वेनास्माभिरभ्युपगतत्वादिति / अपि च "पुरुष एवेदग्वं सर्वमित्यादि'' वे दवाक्यश्रवणाद्भवतः कास्तित्वसशयः / एषां हि वेदपदानामयमर्थस्तव चेतसि विपरिवर्तते पुरुष आत्मा एवकारोऽवधारणे स च पुरुषातिरिक्तस्य कर्मप्रकृतीश्वरादेः सत्ताव्यच्छेदार्थः / इदं सर्वं प्रत्यक्षं वर्तमानं चेतनाचेतनस्वरूपं ग्वमिति वाक्यालङ्कारे यद्भूतमतीतं यच्च भाव्यं भविष्यन्मुक्ति-संसारावपि स एवेत्यर्थः / "उतामृतत्वस्येशान इति' उत शब्दोऽप्यर्थे अपिशब्दश्च समुच्चये अमृतत्वस्य चामणरस्वभावस्य मोक्षस्येशानः प्रभुरित्यर्थः / "यदन्नेनातिरोहति" चशब्दस्य लुप्तस्यदर्शनाचान्नेनाहारेणारोहत्यतिशयेन वृद्धिमुपैति।यदेजति चलति पश्वादि यन्नेजति न चलति पर्वतादि यद्दरे मेर्वादि यदु अन्तिके उशब्दोऽवधारणे यदन्तिके समीपे तदपि पुरुष एवेत्यर्थः / यदन्तर्मध्येऽस्य चेतनाचेतनस्य सर्वस्य यदेव सर्वस्याप्यस्य बाह्यतः तत्सर्वं पुरुष एवेत्यतस्तह्यतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धेया इति ते मतिः। तथा विज्ञानघनएवैतेभ्यो भूतेभ्य इत्यादीन्यपि वेदानि काभावप्रतिपादकानि मन्यसे त्वम् / अत्राप्येवकारस्य कर्मादिसत्ताव्यवच्छेदपरत्यात्तदेवमेतेषां "पुरुष ऐवदमित्यादीनां" विज्ञानघनादीनां च वेदपदानां नायमर्थो यो भवतश्चेतसि वर्त्तते तेषां पदानमियं भावार्थः पुरुष एवेदं सर्वमित्यादिभिस्तावत्पुरुषस्तुतिपराणि जात्यादिमदत्या-गहेतोरद्वैतभावप्रतिपादकानि च वर्तन्ते। नतुकर्मसत्ताव्यवच्छेदकानि वेदवाक्यानि हि कानिचिद्विधिवादपेराणि कान्यप्यर्थवादप्रधानान्यपराणि तु अनुवादपराणि ''तत्राग्रिहोत्रं जुहुयात्स्वर्गकाम'' इत्यादीनि विधिवादपराणि विशे. (अर्थवादवर्णनमन्यत्र)"तस्मात्पुरुष एवेदं सर्वभित्यादीनि" वेदपदानि स्तुत्यर्थवादप्रधानानि दृष्टव्यानि। विज्ञानघन एवैतेभ्य इत्यत्राप्ययमर्थः विज्ञानधनाख्यः पुरुष एवायं भूतेभ्योऽर्थान्तरं वर्ततेस च का कार्य च शरीरादिक मिति प्राक् साधितमेव / ततश्व कर्तृकार्याभ्यामर्थान्तरकरणमनुमीयते / तथाहि यत्र कर्तृकार्यभावस्तत्रावश्यंभावि करणं यथाऽयस्कारादयः पिण्डसद्भावे सदृशः यचात्रात्मनः शरीरादिकार्यानिवृत्तौ करणभावमापद्यते तत्कमें ति प्रतिपद्यस्य / अपि च साक्षादेव कर्मसत्ताप्रतिपादकानि श्रूयन्त एव वेदवाक्यानि तद्यथा / "पुण्यः पुण्येन कर्मणा पापः पापेन कर्मणेत्यादि"तस्मादागमादपि सिद्धं प्रविपद्यस्व कर्मेति। विशे०1 कल्प० / स्था० / अष्ट। (१४)तस्य पुण्यपापद्वयात्मकत्व विचार:मनसि पुण्णं पार्व, साहारणमह व दो विभिन्नाई। होन्जन ता कम्मं चिय, सभावओ भवपवंचो यं / इह केपांचित्तीथिकानामयं प्रवादः पुण्यमेवैकमस्ति न पापम् / अन्ये त्वाहुः पापमेवैकर्मस्ति न पुण्यम् / अपरे तु वदन्ति / उभयमप्यन्योन्यानुविद्धस्वरूपमेव कर्मणि कल्पं सन्मिश्रसुखदुःखाख्यफलहेतुः साधारणं पुण्यपापाख्यमे कं वस्त्विति / अन्ये तु प्रतिपादयन्ति स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं (होज्जत्ति) भवेदिति / अन्ये पुनराहुमूलतः कम्मैव नास्ति स्वभाव