SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ 250 अभिधानराजेन्द्रः भाग 3 कम्म जीवकर्मणोः सम्बन्धस्तत्र पुनः प्रकारान्तरेण प्रेयमाहमुत्तस्सामुत्तमया, जीवेण कहं हवेज संबन्धो। सोम ! घडस्स व नभसा, जह वा दध्वस्स किरियाए। ननु मूर्त कर्मेतिप्राग्भवद्भिः समर्थितं तस्य च मूर्तस्य च कर्मणोऽमूर्तेन जीवने सह कथं संयोगलक्षणः समवायसबन्धः स्यादतः कर्मसिद्धावप्येतदपरमेव रन्ध्र पश्यामः। भगवानाह सौम्य ! यथा मूर्तस्य घटस्यामूर्तेन नभसा संयोगलक्षणः संबन्धस्तथा अत्रापि जीवकर्मणोः / यथा वा द्रव्यस्याङ्गुल्यादेः क्रियया आकुञ्चनादिकया सह समवायलक्षणः सबन्धस्तथात्रापि जीवकर्मणोरयमिति।। (10) प्रकारान्तरेण जीवकर्मणोः संबन्धसिद्धिमाहअहवा मच्चक्खं चिय, जीवोवनिबंधणं जह सरीरं। चिट्ठइ कप्पयमेवं, भवंतरे जीवसंजुत्तं / / अथवा यथेदं बाह्यं शरीरं जीवोपनिबन्धनं जीवेन सह संबन्धः प्रत्यक्षोपलभ्यमानमेव तिष्ठति सर्वत्र चेष्टते। एवं भवान्तरं गच्छता जीवेन सह संयुक्तं कार्मणशरीरं प्रतिपद्यस्व / अथ ब्रूषे धर्माधर्मानिमित्तं जीवसंबद्धं बाह्यशरीरं प्रवर्त्तते तर्हि पृच्छामो भवन्तं तावपिधधिौ मूर्ती वा भवेताममूर्ती वा / यदि मूर्ती तर्हि तयोरप्यमूर्तेनात्मना सह कथं संबन्धः। अथ तयोस्तेन सहासौ कथमपि भवति तर्हि कर्मणोऽपितेन सार्धमयं कस्मान्न स्याद् / अथामृतॊ धम्मधिौं तर्हि बाह्यमूर्तस्थूलशरीरेण तयोः संबन्धः कथं स्यान्मूर्तयोर्भवदभिप्रायेण सबंन्धायोगात्न वा संबद्धयोस्तयोर्बाह्यशरीरचेष्टानिमित्तत्वमुत्पद्यतेऽतिप्रसङ्गाद् / अथामूर्तयोरपि तयोर्बाह्यशरीरेण मूर्तेन सहेप्यते संबन्धस्तर्हि / जीवकर्मणोस्तत्सद्भावे कः प्रद्वेष इति। अथ परावक्षेपपरिहारौ प्राहमुत्तेणामुत्तिमओ, उवधायाणुग्गहा कहं होजा। जह विण्णाणाईणं, मइरायाणो सहाईहिं।। ननु मूर्त्तिमता कर्मणाऽमूर्तिमतो जीयस्य कथमालादपरितापाद्यनुग्रहोपघातौ स्यातां नह्यमूर्तस्य नभसो मूर्मिलय-जज्वलनज्वालादिभिस्तौ युज्यते इति भावः / अत्रोत्तरमाह "जह विण्णाणाईणमित्यादि" यथा अमूर्त्तानामपि विज्ञानविविदिषां धृतिस्मृत्यादिजीवधर्माणां मूर्तरपि मदिरापाने हृत्पूरविषपिपीलिकाभिर्भक्षितरुपघातः क्रियते पयःशर्कराघुतपूर्णभेषजादिभिस्त्वनुग्रह इत्येवमिहापीति। एतय जीवस्यामूर्तत्वमभ्युपगम्योक्तम्। यदि वा अमूर्तोऽपि सर्वथाऽसौ न भवतीति दर्शयन्नाह। अहवा नेगंतोयं, संसारी सव्वहा अमुत्तोत्ति। जमणाइकम्मसंतइ-परिणामावन्नरूवो सो / अथवा नायमेकान्तो यदुत संसारी जीवः सर्वथाऽमूर्त इति / कुतो | यद्यस्मादनादिकर्मसन्ततिपरिणामापन्नं वहयः पिण्डन्यायेनान्यादिकर्मसन्तानपरिणतिस्वरूपतां प्राप्त रूपं यस्य स तथा। ततश्च मूर्तकर्मणः कथं चिदनन्यत्वान्मूर्तोऽपि कथंचिञ्जीव इति मूर्तेन कर्मणा भवत एव तस्यानुग्रहोपधातौ नभसस्तु मूर्त्तत्वादचेतनत्वाच्च तौ न भवत एवेति। / कर्मणोऽनादित्वं तत्र कथं पुनः कर्मणोऽनादिसन्तान इत्याह संताणोणाई उ, परोप्परं हेउहेउभावाओ। देहस्स य कम्मस्स य, गोयम ! बीयंकुराणं च / / अनादिः कर्मणः सन्तानः इति प्रतिज्ञा देहकर्मणोः परस्पर हेतुसद्भावादिति हेतुः बीजाकुरोरिवेति दृष्टान्तः / यथा बीजेनाङ्कुरो जन्यते अड्कुरादपिक्रमेण बीजमुपजायते एवं देहेन कर्मजन्यते कर्मणा तु देह इत्येवं पुनः पुनरपि परस्परमनादिकालीनहेतुहेतुमद्भावादित्यर्थः / इह ययोरन्योन्य हेतुहेतुमद्भावस्तयोरनादिसन्तानो यथा बीजाकुरपितृ पुत्रादीनां तथा च देहकर्मणोः। (11) ततोऽनादिकर्मसन्तान इति वेदोक्तद्वारेणापि कर्मसाधयन्नाहकम्मे वा सइ गोयम! जमग्निहोत्ताइसग्गकामस्स। वेयविहियं विहीणइ, दाणाइफलंच लोयम्मि। कर्मणि वा सति गौतम ! अग्रिहोत्रादिना स्वर्गकामस्य वेदविहित यत्किमपि स्वर्गादिफलं तद्विहन्यते स्वग्गदिः शुभकर्महेतुत्वात्तस्य च भवतोऽनभ्युपगमाल्लोके च यद्दानादिक्रियाणां फलं स्वर्गादिकं प्रसिद्ध तदपि विहन्येत अयुक्तं वेदे "किरियाफलभावा उ दाणाईण फलं किसी एव्वेत्या" दिना प्रतिविहितत्वादिति। विशे० (३०६पत्र०) आ. म०। अत्र प्रसङ्गात्वत्थस्सणं भंते ! पोग्गलोवचए किं सादीए सपञ्जवसिए सादीए अपज्जवसिए अणादिए सज्जवसिए अणादीए अपज्जवसिए? गोयमा ! वत्थस्सणं पोग्गलोवचए सादीएसपज्जवसिए नो सादीए अपज्जवसिएनो अणादीए सपज्जवसिएनो अणादीएं अपज्जवसिए। जहा णं भंते ! वत्थस्स पोग्गलोवचए सादीए सपज्जवसिए नो सादीए अपज्जवसिए नो अणादीए सपज्जवसिए नो अणादीए अपजवसिए तहा णं जीवा णं कम्मोवचए पुच्छा गोयमा ! अत्थेगइयाणं जीवाणं कम्मोवचएसादीए सपज्जवसिए अत्थेगइए अणादीए सपज्जवसिए अत्थेगइए अणादीए अपञ्जवसिए नो चेव णं जीवाणं कम्मोवचए सादीए अपज्जवसिए से केणटेणं ? गोयमा ! इरियावहियबंधयस्स कम्मोवचए सादीए सपज्जवसिए भवसिद्धियस्स कम्मोवचए अणादीएसपञ्जवसिए अभवसिद्धियस्स कम्मोवचए अणादीए अपज्जवसिए से तेणट्टेणं / सादिद्वारे "इरियावहियबंधस्सेत्यादि'' ईपिथो गमनमार्गस्तत्र भवमेर्यापथिक केवलयोगप्रत्ययं कर्मेत्यर्थः / तद्वन्धकस्यो पशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनश्चेत्यर्थः / ऐर्यापथिककर्मणो हि अबद्धपूर्वस्य बन्धनात्सादित्वम् अयोगावस्थायां श्रेणिप्रतिपाते वा अबन्धनात्सपर्यवसितत्वम् भ०६श०३ऊ। (12) नेश्वरादयो जगद्वैचित्र्ये हेतवः कर्मानभ्युपगमे च यदीश्वरादयो जगद्वैचित्र्यकर्त्तार इष्यन्ते तदप्ययुक्तमिति दर्शयन्नाह। कम्ममणिच्छंतो वा, सुद्धं चिय जीवमीसराई वा। मण्णसि देहाईणं, जं कत्तारं न सो जुत्तो।। कर्मवाऽनिच्छन्ननिभूते! गौतम!यंकर्मरहितत्वाच्छुद्धमेव जीवमात्मानमीश्वराव्यक्तकालनियतियदृच्छादिकं वा देहादीनां कतरि मन्यसे तत्राप्युच्यते / नासौ शुद्धजीवेश्वरादिकर्ता युज्यत इति कुत इत्याह / /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy