________________ कम्म 246 अभिधानराजेन्द्रः भाग 3 कम्म आहारइ वानलहिव, घडो व्व नेहाइकयबलाहाणो। खीरमिवोदाहरणा, इं कम्मरूवित्तगमणाई॥ इह प्रथमगाथोपन्यस्तहेतुचतुष्टयस्य द्वितीयगाथायां यथासंख्यं चत्वारो दृष्टान्ता दृष्टव्यास्तत्र मूर्त कर्म तत्संबन्धे सुखादिसंवित्तेरिह यत्संबन्धे सुखादि संवेद्यते तन्मूर्त दृष्टं यथा अशनाद्याहारः / यच्चामूर्त न तत्संबन्धिसुखाहि संविदस्ति यथाकाशादिसंबन्धि तस्मात्तत्संबन्धिसुखादिसंवेदनान्मूर्त्त कर्मेति // 1 // यथा यत्संबन्धे वेदनोद्भवो भवति तन्मूर्त दृष्टं यथाऽनलोऽनिर्भवति च कर्मसंबन्धे वेदनोद्भवस्तस्मात्तन्मूर्त्तमिति // 2|| तथा मूर्तं कर्म आत्मनो ज्ञानादीनां च तद्धर्माणां व्यतिरिक्तत्वे सति बाह्येन स्त्रक्चन्दनाङ्गना दिना बलस्योपचयस्याधीयमानत्राद्यथा स्नेहाद्याहितबलो घटइह यस्य नात्मविज्ञानादेः सतो बाह्येन वस्तुना बलमाधीयते तन्मूर्तं दृष्टं यथा स्नेहादिना आधियमानबलो घटः। आधीयते च बाििमथ्यात्वादिहेतुभूतैर्वस्तुभिः कर्मण उपचयलक्षणं बलं तस्मात्तन्मूर्त्तमिति / / 3 / / तथा मूर्त कर्म आत्मादिव्यतिरिक्तत्वे मतिपरिणामत्वात्क्षीरमिवेति / / 4 / / एवमादीनि हेतूदाहरणानि कर्मणो रूपित्वगमनादीनि / अत्र परिणामित्वासिद्धिमाशङ्कयोत्तरमाह। अह मयमसिद्धो अयं, परिणामओ त्ति सो वि कज्जाओ। सिद्धो परिणामो से, दहिपरिणामादिव पयस्स। अथ परिणामित्वादित्यसिद्धोऽयं हेतुरिति मतं भवतः। एतदप्य-युक्तं यतः सोऽपि परिणामः सिद्धः (कजाओत्ति) कर्मा कार्यस्य शरीरादेः परिणामित्वदर्शनादित्यर्थः / इह यस्य कार्य परिणाम्युपलभ्यते तस्यात्मनोऽपि परिणामित्वं निश्चीयते यथा दध्नस्तक्रादिभावेन परिणामात्पयसोऽपि परिणामित्वं विज्ञायत एवेति। (9) जगद्वैचित्र्यात् कर्मसिद्धिः तत्र यत्पूर्व सुखदुःखाविवैचित्र्यदर्शनात्तद्धेतुभूतं कर्म साधितं तत्र पुनरप्यग्निभूतिराह / अब्भाइविरागाणं, जह वेचित्तं विणा वि कम्मेण / तह जइ संसारीणं, हवेज को नाम तो दोसो।। आह ननु यथाऽभ्रादिविकाराणामन्तरेणापि कर्म वैचित्र्यं दृश्यते तथा तेनैव प्रकारेण संसारिजीवस्कन्धानामपि सुखदुखादिभावेन वैचित्र्यं यदि कर्म विनापि स्यात्ततः को नामदोषो भवेन्न कोऽपीत्यर्थः / भगवानाहकम्मम्मि व को भेओ, जह बज्झक्खंधचित्तया सिद्धा। तह कम्म पोग्गलाण वि, विचित्तया जीवसहियाणं / यद्यभ्रविकाराणां गन्धर्वनगरेन्द्रधनुरादीनां गृहदेवाकुलप्राकारतरुकृष्णनीलरक्तादिभावेन वैचित्र्यमिष्यते सौम्य ! वा शब्दस्यापि शब्दार्थत्वात्तर्हि कर्मण्यपि को भेदः को विशेषो येन तत्र वैचित्र्यं नाभ्युपगम्यते। न चहन्त! यथा सकललोकप्रत्यक्षाणाममीषां गन्धर्वपुरशक्रदण्डादीनां बाह्यस्कन्धानां विचित्रता भवतोऽपि सिद्धा तथा तेनैव प्रकारेणान्तराणामपि कर्मस्कन्धानां पुद्गलमयत्वे समानेऽपि जीवसहितत्वस्य विशेषवतो वैचित्र्यकारणस्य सद्भावेऽपि सुखदुःखादिजनकरूपतया विचित्रता किमिति नेष्यते यदि ह्यभ्रादयो वा बाह्यपुगला नानारूपतया परिणमन्ति तर्हि जीवैः परिगृहीता सुतरां तथा परिणमस्यन्तीति भावः। एतदेव भावयतिबज्झाणचित्तया जइ, पडिवन्ना कम्मणो विसेसेण। जीवाणुगयस्स मया, भत्तीण वि चित्तनत्थाणं / / यदि हि जीवापरिगृहीतानामपि बाह्यानामभ्रादिपुद्गलानां नानाकारपरिणतिरूपा चित्रया त्वया प्रतिपन्ना तर्हि जीवानुगतानां कर्मपुद्गलानां विशेषत एवास्माकं भवतश्च सा सम्मता भविष्यति / भक्तयो विच्छित्तयस्तासामिव चित्रन्यस्तानामभिप्रायश्चित्तकरादिशिल्पिजीवपरिगृहीतानां लेप्यकाष्ठकानुगतपुद्गलानां या परिणामचित्रया विश्रसा परिणतेन्द्रधनुरादिपुगपरिणामचित्रता सकाशाद्विशिष्टैवेति प्रत्यक्षत एव दृश्यते / अतो जीवपरिगृहीतत्वेन कर्मपुद्गलानामपि सुखदुःखादिवैचित्र्यजननरूपा विशिष्टतरा परिणामचित्रता कथं न स्यादिति। अत्र परः प्राह-- तो जह तणुमेत्तं चिय, हवेज का कम्मकप्पणा नाम / कम्मं पि नणु तणुचिय, सण्हयरभंतरा नवरं / / एवं मन्यते परो यद्यभ्रादिविकाराणामिव कर्मपुद्गलानां विचित्रपरिणतिरभ्युपगम्यते। ततो बाह्य सकलजनप्रत्यक्षं तनुमात्रमेवेदं सुरूपकुरूपसुखदुःखादिभावत एवाभ्रादिविकारबद्विचित्ररूपतया परिणमतीत्येतदेवास्तु का नाम पुनस्तद्वैचित्र्यहेतुभूतस्यान्तरङ्गगुणकल्पस्य कर्मणः परिकल्पना स्वभावादेव सर्वस्यापि पुद्गलपरिणामवैचित्र्यस्य सिद्धत्वादिति भगवानाह (कम्मंपीत्यादि) अयमभिप्रायः यद्यभ्रादि-विकाराणामिव तनोवैचित्र्यमभ्युपगम्यते तर्हि ननु कपि तनुरेव कर्मणशरीरमेवेत्यर्थः / केवलं लक्ष्णतरा अतीन्द्रियत्वादभ्यन्तरा च जीवेन सहातिसंश्लिष्टत्वात्ततश्च यथाऽभ्रादिविकरिबाह्यस्थूलतो नो वैचित्र्यमभ्युपगम्यते तथा कर्म तनोरपि तत्किन्नाभ्युपगम्यते इति भावः / अप्रेर्यमाशङ्कय परिहारमाह। को तए विणा दोसो, थूलाए सव्वहा विप्पमुक्कस्स। देहग्गहणाभावो, तओ य संसारवोच्छित्ती।। प्रेरकः प्राह ननु बाह्यायाः स्थूलत्वाद्वैचित्र्यं प्रत्यक्षदृष्टत्वादेवाभ्रादिविकारवदभ्युपगच्छामः अन्तरङ्गायास्तुकर्मरूपायाः सूक्ष्मतनोवैचित्र्यं कथमिच्छामस्तस्याः सर्वथा प्रत्यक्षत्वात् / अथ तदनभ्युपगते दोषा कोऽप्यापतति ततो पित्तेरेव तद्विचित्रताऽभ्युपगन्तव्या तर्हि निवेद्यतां कस्तयविना दोषोऽनुषज्यते / आचार्यः प्राह / मरणाकाले स्थूलया दृश्यमान-तन्वा सर्वथा विप्रमुक्तस्य जन्तोरभवान्तरगतस्थूलतनुग्रहणनिबन्धनभूतां सूक्ष्मकर्मतनुमन्तरेणातनदेहग्रहणाभाव-लक्षणो दोषः समापद्यते न हि निष्कारणमेव शरीरान्तरग्रहणं प्रयुज्यते ततश्च देहान्तरग्रहणानुपपत्तेमरणानन्तरं सर्वस्याप्यशरीरत्वादयत्नेनैव संसारव्यवच्छित्तिः स्यात्ततोऽपि च किं त्यादित्याह। सव्वे विमोक्खवत्ती, निकारणओ व सव्वसंसारो। भवमुक्काणं च पुणो, संसरणमओ अणासासो।। ततः संसारव्यवच्छेदानन्तरं सर्वस्यापि जीवराशेर्मोक्षापत्ति-भवेत् / अथाशरीराणामपि संसार पर्यटनं तर्हि निष्कारण एव सर्वस्यापि संसार: स्याद्भवमुक्तानां च सिद्धनामित्थं पुनरकस्मानिष्कारण एव संसारपातः स्यात्तथैव च तमुसंसरणं ततश्च मोक्षोऽप्यनाश्वास इति।।