________________ कम्म 248 अभिधानराजेन्द्रः भाग 3 सारं परिभ्रमन्तोऽनन्ता इह तिष्ठन्ति दानादिक्रियानुष्ठातारस्तु स्वल्पाः अदृष्टं धर्मरूपं फलमासाद्य क्रमेण मुच्यन्त इति / ननु दानादिक्रियानुष्ठातृभिर्यददृष्ट धर्मलक्षणं फलमाशंसितं तत्तेषां भवतुयैस्तु कृषिहिंसादिक्रियाकर्तृभिरदृष्टमधर्मरूपं फलं नांशसितं तत्तेषां कथं भवतीति चैत्तदयुक्तं न ह्यविकलं कारणं स्वकार्य जनयत्येव / वप्तुरज्ञातमपि हि कोद्रवादिबीजं क्वचिद्भूप्रदेशे पतितं जलादिसामग्रीसद्भावेऽविकलकारणता प्राप्तं च आशंसाभावेऽपि स्वकार्यं जनयत्येव / अविकलकारणभूताश्च कृषिहिंसादयोऽधर्मजननेऽतस्तत्कर्तृगताशंसा तत्र क्वोपयुज्यते नच दानादिक्रियायामपि विवेकिनः फलाशंसां प्रकुर्वत तथाप्यविकलकारणतया विशिष्टतरमेव ता धर्मफलं जनयन्ति तस्माच्छुभाया अशुभायाश्च सर्वस्या अपि क्रियाया अदृष्टं शुभाशुभं फलमस्त्येवेति प्रतिपत्तव्यम् / अनन्तसंसारिजीवसत्तान्यथानुपपत्तेरिति स्थितम्। एतदेव प्रतिपादयितुमाह। इयरहा अदिट्ठरहि-या सव्वे मुचेज अयत्तेण / अदिट्ठारंभो चेव, किलेसबहुलो भवेज्जाहि / / इतरथा यदि कृषिहिंसाद्यशुभक्रियाणामदृष्ट फलं नाभ्युपगम्यते तदा तत्कारो दृष्टफलाभावान्मरणानन्तरमेव सर्वेऽप्ययत्नेन मुच्येरन् संसारकारणाभावान्मुक्तिं गच्छेयुस्ततश्च प्रायः शून्य एव संसारः स्यादित्यर्थः / यश्चादृष्टारम्भोऽदृष्टफलानां दानादिक्रियाणां समारम्भः स एव क्लेशबहुलः संसारं प्रतिभ्रमणकारणतया दुरन्तः स्यात्। तथाहि ते दानादिक्रियानुष्ठातारस्तदनुष्ठानेनादृष्टफलानुबन्धि विदध्युस्ततो जन्मान्तरे तद्विपाकमनुभवन्तस्ते प्रेरिताः पुनरपि दानादिक्रियात्वेव प्रवर्तेरंस्ततो भूयस्तत्फलसंचयात्तद्विपाकानुभूतिः पुनरपिदानादिक्रियारम्भ इत्येवमनन्तसन्ततिमयः संसारस्तेषां भवेत्तत्रैतत्स्यादित्थमप्यस्तु कात्र किलास्माकं बाधा अत्रोच्यते / इयमत्र गरीयसी भवतां बाधा यत्कृषिहिंसाद्यशुभक्रियानुष्ठातृणामदृष्टसंचयाभावे सर्वेषां मुक्तिगमने एकोऽपि तत्क्रियानुष्ठाता संसारे क्वापि नोपलभ्येत अशुभतत्फलविपाकानुभविता चैकोऽपि क्वचिदपि न दृश्येत दानादिशुभक्रियानुष्ठातारः शुभतत्फलविपाकानुभविस्तार एव च केवलाः सर्वत्रोपलभ्येरन्। न चैवं दृश्यते तस्मात्किमित्याह। जमणिट्ठभोगभाजो, बहुतरगा जं च नेह मइपुव्वं / अदिवाणिट्ठफलं, कोइ वि किरियं समारभइ।। तेण पडिवजकिरिया, अद्दिट्ठगंतियफला सव्वा। दिट्ठाणेगंतफला, सा वि अदिट्ठाणुभावे य।।। यस्मादनिष्टभोगभाजो बहुतरा भूयांसः अशुभकर्मविपाक-जनिताः दुखभाज एव प्राणिनः प्रचुरा इहोपलभ्यन्ते शुभकर्मविपाकनिबन्धनसुखानुभवितारस्तु स्वल्पा एबेति भावः। तेन तस्माकारणात्सौम्य ! प्रतिपद्यस्व शुभा अशुभा वा सर्वा अपि क्रिया अदृष्टं शुभाशुभं कर्मरूपमेकान्तिकं फलं यस्याः साऽदृष्टकान्तिकफलेत्युत्तरगाथायां संबन्धः / इदमुक्तं येन दुःखिनोऽत्र बहवः प्राणिनो दृश्यन्ते सुखिनस्तु स्वल्पास्तेन ज्ञायते कृषिवाणिज्यहिंसादिक्रिया निबन्धना शुभकर्मरूपा दृष्टफल-विपाको दुःखिनामितरेषां तु दानादिक्रिया हेतुकशुभकर्मरूपादृष्टफलविपाक इति व्यत्ययः कस्मान्न भवतीति चेदुच्यते। अशुभक्रियारम्भिणामेव बहुत्वाच्छुभक्रियानुष्ठातृणामेव च स्वल्पत्वादिति तत्राह / नन्वशुभकिग्रारम्भकाणामपि यद्यदृष्टफलं भवति तत्किमिति दानादिक्रियारम्भक इव तदारम्भकोऽपि कश्चित्तदाशंसां कुर्वाणो न दृश्यत इत्याह (जं च नेहेत्यादि) यस्मान्नेहादृष्टमनिष्टमशुभं फलं यस्याः सा अदृष्टानिष्टफला तामित्थंभूतां क्रियां मतिपूर्वामाशंसाबुद्धिपूर्विकां कोऽपि समारभत इत्यतो न कोऽपि तदाशंसां कुर्वाणो दृश्यते तस्मात्सर्वाऽपि क्रिया दृष्टै कान्तिकफलेति प्रतिपद्यस्वेति पुनरपि कथंभूता इत्याह / (दिट्ठाणमेगंतफलत्ति) दृष्ट धान्यद्रविणलाभादिकमनैकान्तिकमनवश्यंभावि फलं यस्याः कृषिवाणिज्यादिक्रियायाः सा दृष्टानैकान्तिकफला सर्वाऽपि क्रिया / इदमुक्तं भवति / सर्वस्या अपि क्रियाया अदृष्टफलं तावदेकान्तेनैव भवति यत्तु दृष्टफलं तदनैकान्तिकमेव कस्याश्चित्तद्भवति कस्याश्चिन्नेत्यर्थः। एतच दृष्टफलस्यानैकान्तिकत्वमदृष्टानुभावेनैवेति प्रतिपत्तव्यम् / नहि समानसाधनारब्धतुल्यक्रियाणां द्वयोर्बहूनां वा एकस्य दृष्टफलविघातोऽन्यस्य तु नेत्येतददृष्टहेतुमन्तरेणोपपद्यत इति भावः। एतचेहैव प्रागुक्तमेवेति। अथवा किमिह प्रयासेन प्रागेव साधितमेव कर्म कया युक्त्येत्याह "अहवा फला उ कम्म, कजत्तणओ पसाहियं पुव्वं / परमाणओ घडस्स व, किरियाणं फलं तयं भिन्न" अथवा "जो तुल्लसाहणाणं, फले विसेसो न सो विणा हेउ / कञ्जत्तणओ गोयम, ! घडो व्व हेऊ य सो कम्म'' मित्यस्यां गाथायां प्रागस्माभिः कर्म प्रसाधितमेव कुत इत्याह / फलात्तुल्यसाधनानां यः फले विशेषस्तस्मादित्यर्थ। ततोऽपि फलविषेशात्कर्म (किरियाणतयं फलं भिन्नत्ति) तदेव च कर्म सर्वासामपि क्रियाणामदृष्टं फलमित्येवमिहापि साध्यते। कथंभूतं ताभ्यः क्रियाभ्यो भिन्नं कर्मणः कार्यत्वात् क्रियाणां च कारण-त्वात्कार्यकारणयोश्च परस्परं भेदादिति भावः विशे. आ. म. द्विः। (8) कर्मणो मूर्तत्वंतत्र तावदाक्षेपपरिहारौ प्राह। आह नणु मुत्तमेव, मुत्तं चिय कञ्जमुत्तिमत्ताओ। इह जह मुत्तत्तणओ, घडस्स परमाणवो मुत्ता।। आह प्रेरको ननु यदि कार्याणां शरीरादीनां दर्शनात्तत्कारणभूतं कर्म साध्यते तर्हि कार्याणां मूर्तत्वात्कर्मापि मूर्त प्राप्नोति। आचार्य उत्तमाह "मुत्तं चिएत्यादि" यदस्माभिः यत्नेन साधयितव्यं तद्भवतापि परसिद्धान्तानभिज्ञबालबुद्धितयानिष्टाऽऽपादनाभिप्रायेण साधितमेव / तथा हि वयमपि ब्रूमो मूर्तमेव कर्मा तत्कार्यस्य शरीरादेर्मूर्त्तत्वादिह यद्यत्कार्य मूर्त तस्य तस्य कारणमपि मूर्त यथा घटस्य परमाणवः / यदमूर्त कार्य न तस्य कारणं मूर्त यथा ज्ञानस्यात्मेति समवायिकारणं चेहाधिक्रियते न निमित्तकारणभूता रूपालोकादय इति आह / ननु सुखदुःखादयोऽपि कर्मणः कार्यमतस्तेषाममूर्तत्वात् कर्मणो मूर्तत्वमपि प्राप्नोति न हि मूर्तादमूर्तप्रसवो युज्यते न वा एकस्यमूर्तत्वममूर्तत्वं युक्तं विरुद्धत्वादत्रोच्यते। नन्वत एवात्र सामवायिककारणं समधिक्रियते न निमित्तकारणं सुखादीनां चात्मधर्मत्वादात्मैव समवायिकारणं कर्म पुनस्तेषामन्नपानादिविषादिवन्न निमित्तकारणमेवेत्यदोष इति / कर्मणो मूर्त्तत्वसाधनाय हेत्वन्तराण्याहतहसुहसंवित्तीओ, संबंधे वेयणुब्भवाओ या वज्झबलाहाणाओ, परिणामाओ य विण्णेयं / /