SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ कम्म 247 अभिधानराजेन्द्रः भाग 3 कम्म __ अनुमानान्तरमपि कर्मसाधनायाह। बालसरीरं देह-तरपुव्वं इंदियाइमत्ता उ। जह बालदेहपुव्वो, जुबदेहो पुव्वमिह कम्मं / / शरीरान्तरपूर्वकमाद्यं बालशरीरमिन्द्रियादिमत्वात् युवशरीरवदिति आदिशब्दात्सुखदुःखित्वप्राणापाननिमेषोन्मेपजीवनादिमत्वादयोऽपि हेतवो ग्राह्याः / न च जन्मान्तरातीतशरीरपूर्वकमेवेति शक्यते वक्तुं तस्याप्यनन्तरालगतावसत्वेन तत्पूर्वकत्वानुपपत्तेः / नचाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीरग्राहो युज्यते नियामककारणाभावात्। नापि स्वभावो नियामकस्तस्य तिरस्करिष्यमाणत्वात्।यचेह बालशरीरस्य पूर्व शरीरान्तरं तत्कर्मेति मन्तव्यं कार्मणं शरीरमित्यर्थः "जोएणकम्मरणं, आहारेई अणंतरं जोई" इत्यादि वचनादिति / अनुमानान्तरमपि तत्सिद्धये प्राह / / किरियाफलभावा उ, दाणाईणं फलं किसीएव्व। तं चिय दाणाइफलं, मणप्पसायाइ जइ बुद्धी। किरियासामण्णा उ, जं फलमस्सावितं मयं कम्म। तस्स परिणामरूवं, सुहदुक्खफलं जओ भुजो।। (दाणाईणं फलत्ति) इह दानादिक्रियाणां फलमस्ति (किरियाफलभावा उत्ति) सचेतनारब्धक्रियाणां फलभावात्फलसद्भावदर्शनादित्यर्थः / यथा कृषिक्रियायाः / इह या चेतनारब्धक्रिया तस्याः फलं दृष्ट यथा कृष्यादिक्रियायाः चेतनारब्धाश्चदानादिक्रियास्तस्मात्फलवत्यः यच तासां फलं तत्कर्म / या तु निष्फला क्रिया सा सचेतनारब्धाऽपि न भवति यथा परमाण्वादिक्रियाः सचेतनारब्धाश्च दानादिक्रियास्तस्मात्फलवत्यः / स्यादेतदनैकान्तिकोऽयं हेतुश्चेतनारब्धानामपि कासांचित्कृष्यादिक्रियाणां निष्फलत्वदर्शनात्तदयुक्तं फलत्वाभिप्रायेणैव तदारम्भात / यच क्वचिनिष्फलत्वमपि दश्यते तत्सम्यग्ज्ञानाद्यभावेन सामग्रीवैकल्याद् द्रष्टव्य मनःशुद्ध्यादिसामग्रीविकलतया दानादिक्रिया अपि निष्फला इष्यन्त एवेत्यदोषः / यदि चात्र परस्यैवंभूता बुद्धिः स्यात्कथंभूता इत्याह (तं चियेत्यादि) तदेव दानादिक्रियाणां फलं यदस्मादृशामपि प्रत्यक्षं मनःप्रसादादि इदमुक्तं भवति कृष्यादिक्रियाः दृष्टधान्याद्यवाप्तिफला दृष्टाः अतो दानादिक्रियाणामपि दृष्टमेव मनःप्रासादादिकं फलं भविष्यति / किमदूष्टकर्मलक्षणसाधनेन तत इष्टविरुद्धसाधनाद्विरुद्धोऽयं हेतुः तत्र वयं ब्रूमः "किरियासामण्णाउ इत्यादि" अस्यापि मनः प्रसादस्ययत्फलं तन्मम कर्म सम्मतम्। ननु मनःप्रसादस्यापि कथं फलमभिधीयत इत्याह (किरियासामण्णाउत्ति) इद मुक्तं भवति मनःप्रसादोऽपि क्रियासाम्यान्मनःप्रसादस्यापि फलेन भवितव्यमेव यच तस्य फलं तन्कर्मैवेतिन कश्चिद्वचभिचारः / यतः कर्म स कस्मात्किमित्याह / सुखदुःखफलं (जओत्ति) सुखदुःखरूपं फलं सुखदुःखफलं यतो यतो यस्मात्यस्मात्कर्मणः सकाशाजायते / कथं भूयः पुनरपि कथंभूतं यत्सुखदुःखफलमित्याह। तस्यैव कर्मणस्तज्जनकत्वेन यत्परिणमनं परिणास्तद्रूपमिति। एतद्रुक्तं भवति यतः कर्मणः सकाशातातिक्षणं तत्परिणति रूपं सुखदुःखफलं प्राणिनां समुपजायते तत्कर्म मनःप्रसादक्रियाया अपिफलमभिमतम्।आहनन्वनन्तरगाथायां दानादिक्रियाफलं कम्र्मेति वदता दानादिक्रियैव कर्मणः कारणमुक्तम्। अत्र तु मनःप्रसादाक्रिया तत्कारणमुच्यत इति कथं न पूर्वापरविरोध इति। सत्यं किंतु मनःप्रसादादिक्रियेवानन्तर्येण कर्मणः कारणं केबलं | तस्या अपि मनः प्रसादादिक्रियाया दानादिक्रियैव कारणमतः कारणकारणे कारणोपचाराददोष इति। अत्र पुनरपि प्रेर्यमाशङ्कय परिहारमाह। होज माणो वितीए, दाणाइ किए व जइ फलं बुद्धी। तं न निमित्तत्ता उ, पिंडोव्व घडस्स विण्णेओ॥ अत्र परस्य यद्येवंभूता बुद्धिः स्यात्कथंभूता इत्याह। ननु मनोवृत्तिर्मनः प्रसत्यादि क्रियाया दृष्टरूपादानादिक्रियैवफलं नत्वऽदृष्ट कर्मेति भावः / अयमभिप्रायः दानादिक्रियातो मनः प्रसादादयो जायन्ते तेभ्यश्च प्रवर्द्धमानो दृश्यादिपरिणामः पुनरपि दानादिक्रियां करोति एवं पुनः पुनरपि दानक्रियाप्रवृत्तेः सैव मनःप्रसादादेः फलमस्तु तत्तु कम्मेति भावः / दृष्टफलमात्रेणैव चरितार्थत्वात्किमदृष्टफलकल्पनेनेति हृदयम्। तदेतन कुतो निमित्तत्वान्मनः प्रसादादिक्रियां प्रति दानादिक्रियाया निमित्तकारणत्वादित्यर्थः / यथा मृत्पिण्डो घटस्य निमित्तं तत्तस्यैव फलं वक्तुमुचितं दूरविरुद्धत्वादिति पुनरपि दृष्टान्तीकृतकृष्यादिक्रियायवष्टम्भेनैव सर्वासामपि क्रियाणां दृष्टफलमात्ररूपतामेवसाधयन्नाह प्रेरकः। एवं पि दिट्ठफलया, किरिया न कम्मफला पसत्ता ता। सा तं मेत्तफले चिय, जह मंसफलो पसुविणासो॥ नन्वेवमपि युष्मदुपन्यस्तकृप्यादिक्रियानिदर्शनेनापीति सर्वा दानादिकाऽपि क्रिया दृष्टफलदैव प्रशस्ता न कर्मफला इदमुक्तं भवति। यथा कृष्यादिक्रिया दृष्ट मात्रैणैवावसितप्रयोजना भवति तथा दानादिक्रिया अपि श्लाघादिकं किंचिदृष्टमात्रेणैवावसिप्रयोजना भवति तथाफलमस्तु किमदृष्टफलकल्पनेन / किं बहुना सा क्रिया सर्वाऽपि तन्मात्रफलैव दृष्टमात्रफलैवयुज्यते नादृष्टफला यथा दृष्टमांसमात्रफला पशुविनाश क्रिया न हि पशुविनाशनक्रियामदृष्टाधर्मफलार्थ कोऽप्यारमते। किंतु मांसभक्षणार्थमतस्तन्मात्रफलैव सा तावतैवावसित प्रयोजनत्वादेवं दानादिक्रियाया अपि दृष्टमात्रमेव श्लाघादिकं किंचित्फलं नान्यदिति। ___ अस्यैवार्थसमर्थनार्थं कारणान्तरमाह। पायं च जीवलोगो, बट्टइ दिट्ठफलासु वि किरियासु / आदिट्ठफला संपुण्णा, वट्टनासंखभागे पि॥ लोकोऽपि च प्रायेण दृष्टमात्रफलास्वेव कृषिवाणिज्यादिक्रियासु प्रवर्त्तते अदृष्टफलासुपुनर्दानादिक्रियासुतदसंख्येयभागोऽपिन वर्तते कतिपयमात्र एव लोकस्तासु प्रवर्त्तते न बहुरित्यर्थः / ततश्च हिंसादीनामशुभक्रियाणामदृष्ट फलाभावाच्छु भक्रियाणामपि दानादीनामदृष्टफलाभावो भविष्यति इति पराभिप्रायः / इति भगवानाह। सोम्म ! जओ चिय जीवा,णय दिट्ठफलासु प्पवट्ठति। अदिट्ठफलासु य तम्हा, दिट्ठफलाओ त्ति पडिवजा / / हे सौम्य ! यतएव जीवा न दृष्टफलास्वशुभक्रियासुप्रवर्तन्ते अदृष्टफलासु पुनर्दानादिकासुशुभक्रियासुस्वल्पा एव प्रवर्तन्तेतेनैवतस्मादेव कारणात्ता अपि कृषिहिंसादिका दृष्टफलाक्रियाः अदृष्टफला अपि प्रतिपद्यस्वाभ्युपगच्छ। इदमुक्तं भवति। यद्यपि कृषिहिंसादिक्रियाकारी दृष्टफलमात्रार्थमेव ताः समारभन्ते नाधर्मार्थं तथापि ते अधर्मलक्षणं पापरूपमदृष्टफलमश्नुवत एव अनन्तसंसारिजीवान्यथानुपपत्तेस्ते हि कृषिहिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बद्ध्वा अनन्तसं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy