________________ कम्म 246 अभिधानराजेन्द्रः भाग 3 कम्म तत् क्रियोपात्तं तु कर्म जन्मा तरे फलिष्यतीति नात्रनियतकार्यकारणभावव्यभिचारः / साधकाभावादपि नादृष्टाभावः / प्राक् प्रसाधितप्रामाण्ययोरागमानुमानयोस्तत्प्रसाधकयोर्भावात् / तथा च शुभः पुण्यस्य अशुभः पापस्येत्यागमः / अनुमानं तु साधनानां कार्यविशेषः / सदेतुकः कार्यत्वात् कुम्भवत्" दृष्टश्व साध्वीसुतयःर्षमयोस्तुल्यजन्मनोः। विशेषो वीर्यविज्ञानवैराग्यारोग्यसंपदाम्" न चायं विशेषो विशिष्टमदृष्टकारणमन्तरेण यदूचुर्जिनभद्रगणिक्षमाश्रमणमिश्राः" जो तुल्लसाहणाणं, फले विसेसो नसो विणा हेतुं। कज्जत्तणओ गोयम ! घडोव्व हेऊय से कम्म" अथ यथैकप्रदेशसंभवानामपि बदरीकण्टकानां कौटिल्यार्जवादिविशेषो यथा चैकसरसीसंभूतानामपि पङ्कजानां नीलधवलपाटलपीतशतपत्रसहस्रपत्रादिर्भेदस्तथा शरीरिणामपि स्वभावादेवायं विशेषो भविष्यति तदप्रशस्यं कण्टकपङ्कजादीनामपि प्राणित्वेन परेषां प्रसिद्धेस्तदृष्टान्तावष्टम्भस्य दुष्टत्वादाहारक्षतारोहदोहदादिना वनस्पतीनामपि / प्राणित्वेन तैः प्रसाधनात् / अथ गगनपरिसरे मकरकरितुरगतरङ्गकुरङ्गभृगाराङ्गाराद्याकारननेकप्रकारान् बिभ्रत्यभ्राणि न च तान्यपि चेतनानिवः समन्तानितद्वत्तनुभाजोऽपि राजरादयः सन्विति चेत्तदसत् तेषामपिजगददृष्टवशादेव देवपदवी परिसरे विचरतां विचित्राकारस्वीकारात् कश्चायं स्वभावो यदशाज्जगद्वैचित्र्यमुच्यते / किं निर्हेतुकत्वं स्वात्महेतुकत्वं वस्तुधर्मो वस्तुविशेषो वा आद्यपक्षे सदासत्वस्यासत्वस्य वा प्रसङ्गः द्वितीये आत्माश्रयत्वं दोषः / अविद्यमानो हि भावात्मा कथं हेतुः स्यात् विद्यमानोऽपि विद्यमानत्वादेव कथं स्वोत्पाद्यः स्यात् / वस्तुधर्मोऽपि दृश्यः कश्चिददृश्यो वा दृश्यस्तावदनुपलम्भवा धितः / अदृश्यस्तु कथंसत्वेन वक्तुंशक्यः अनुमानात्तुतन्निर्णये अदृष्टानुमानभेव श्रेयः वस्तुविशेषश्चेत् स्वभावो भूतातिरिक्तो भूतस्वरूपो वा प्रथमे मृर्तोऽमूर्तो वा मूर्तोऽपि दृश्योऽदृश्यो वा दृश्यस्तायत् दृश्यानुपलम्भबाधितः अदृश्यस्त्वदृष्टमेव स्वभावभाषया बभाषे / अमूर्तः पुनः परः परलोकिनः को नामास्तु न चादृष्टविघटितस्य तस्य परलोकस्वीकार ईत्यतोऽप्यदृष्ट स्पष्ट निष्टश्यते। भूतस्वरूपस्तुस्वभावो नरेन्द्रदरिद्रतादिवसदृश्यभाजोर्यमलजातयोरुत्पादकस्तुल्य एव विलोक्यते इति कौतस्कुतस्तयोर्विशेषः स्यात् तद्दर्शनात्तत्रादृष्टभूतविशेषानुमानेन नामान्तरतिरोहितमदृष्टमेवानुमितिसिद्धमिष्टं मितोऽपि बालशरीरं शरीरान्तरपूर्वकमिन्द्रियादिमत्वात्तरुणशरीरवत्। नच प्राचीनभवातीततनुपूर्वकमेवेदं तस्य तद्भवावसान एव पटुपवनप्रेरितातितीव्रचिताज्वलनज्वालाकलापप्लुष्टतया भस्मसादावाद पान्तरालगतावभावेन तत्पूर्वकत्वानुपपत्तेः न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते निमामककारणाभावात् स्वभावस्य तु नियमाकत्वं प्रागेद व्यपास्तंततो यच्छरीरपूर्वकं बालशरीरंतत्कर्ममयमिति पौगलिक चेदमदृष्टमेष्टवयमात्मनः पारतन्त्र्यनिमित्तत्वान्निगडादिवत् क्रोधादिना व्यभिचार इति चेन्न तस्यात्मपरिणामरूपस्य पारतन्त्र्यस्वभावत्वातन्निमित्तभूतस्य तुकर्मणां पौलिकत्वात् एवं सीधूस्वादनोद्भवचित्तवैकल्यमपि पारतन्त्र्यमेव तद्धेतुस्तुसीधुपौलिकमेवेति नैतेनापि व्यभिचार: ततो यद्योगैरात्मविशेषगुणलक्षणं, कापिलैः प्रकृतिविकारूपं, सौगतैर्वासनास्वभावं, ब्रह्मवादिभिरविद्यास्वरूपं, चादृष्टमवादि। तदपास्तं विशेषतः पुनरमीषां निधो विस्तराय स्यादिति न कृतः रत्ना०७ परि० / एतत्सर्वं विस्तरेण भगवता श्रीवीरेणाग्निभूतिं द्वितीयं गणधरं प्रति साधितम् तस्मिन् भगवानाह॥ किं मन्ने अत्थि कम्म, उ याहु नस्थित्ति संसओ तुब्भं / वेयपयाण य अत्थं, नयाणसी तेसिमो अत्थो / / हे अग्निभूते ! गौतम ! त्वमेतन्मन्यसे चिन्तयसि यदुत क्रियते मिथ्यात्वादिहेतुसमन्वितेन जीवेनेति कर्म ज्ञानावरणादिकं तत्किमस्ति वेतिनत्वयमनुचितस्तव संशयः अयं हि भवति विरुद्धवेदपद निबन्धनो वर्तते तेषां च वेदपदानां त्वमर्थं न जानासि तेन संशयं करोषि तेषां चु वेदपदानामयं वक्ष्यमाण-लक्षणोऽर्थ इति अत्र भाष्यम्। कम्मे तुह संदेहो, मन्नसि तं नाणगोयराईयं / तुह तमणुमाणसाहण-मणुभूइमयं फलं जस्स // हे आयुष्मन्नग्निभूते ! ज्ञानावरणादिपरमाणुसंघातरूपे कर्माणि तव संदेहो यतः प्रत्यक्षानुमानादिसमस्तप्रमाणात्मकज्ञानगोचरातीतमेतत्त्वं मन्यसे तथाहिन तावत्प्रत्यक्ष कर्म अतीन्द्रियत्वात्खरविषाणवदित्यादिप्रमाणविषयातीतत्वं प्राग्वज्जीवस्येव कर्मणोऽपि समानप्रायत्वात् भावनीयमिति तदैतत्सौम्य ! मा मंस्थास्त्वं यतो मम तावत्प्रत्यक्षमेव कर्म तवाप्यनुमानं साधनं यस्य तदनुमानसाधनं वर्तते तत्कर्मान पुनः सर्वप्रमाणगोचरातीतं यस्य किमित्याह / (अणुभूइमयं फलं जस्सति) सुखदुःखानामनुभूतिरनुभवनं तन्मयं तदात्मकं फलं यस्य शुभाशुभकर्मण इति अनेन वेदमनुमानं सूचितमस्ति। सुखदुःखानुभवस्य हेतुः कार्यत्वादड्कुर स्येवेति। अथ यदि भवतः प्रत्यक्ष कर्म तर्हि ममापि तत्प्रत्यक्ष कस्मान्न भवतीति चेत्तदयुक्तं न हि यदेकस्य कस्यचित्प्रत्यक्षं तेनापरस्यापि प्रत्यक्षेण भवितव्यं न हि सिंहसरभहंसादयः सर्वस्यापि लोकस्य प्रत्यक्षा न च ते न सन्ति बालादीनामपि तत्सर्वस्य प्रसिद्धत्वात्तस्मादस्ति कर्म सर्वज्ञत्येन मया प्रत्यक्षीकृतत्वाद्भवत्संशयविज्ञानवदिति न च वक्तव्यं त्वयि सर्वज्ञत्वमस्मान् प्रत्यसिद्धम् / "कह सब्व-प्रणुत्तिमइ, जेणाहं सव्वसंसयच्छेदी। पुच्छसु व जं न जाणसी" त्यादिना प्रागेण प्रतिविहितत्वात्कार्यप्रत्यक्षतया भवतोऽपिच प्रत्यक्षमेव कर्म / तथा घटादिकार्यप्रत्यक्षतया परमाणव इति यदुक्तम् / "तुहतमणुमाणसाहण' भिति तदेवानुमानमाह। अस्थि सुहदुक्खहेऊ, कज्जाओ बीयमंकुरस्सेव। सो दिट्ठो चेव मई, वतिचारओ न तं जुत्तं / / जो तुल्लसाहणाणं, फले विसेसो न सो विणा हेउं / कज्जत्तणओ गोयम ! घडोव हेऊ य सो कम्मं // प्रतिप्राणिप्रसिद्धयोः सुखदुःखयोर्हेतुरस्ति कार्यत्वादड्डुरस्येव बीजमिति / यश्चेह सुखदुःखयोर्हेतुस्तत्कर्मवेत्यस्ति तदिति स्यान्मतिः स्रक्चन्दनाङ्गनादयः सुखस्य हेतवो दुःखस्य त्वहिविषकण्टकादय इति दृष्ट एव सुखदुःखयोर्हेतुरस्ति किमदृष्टस्य कर्मणस्तद्धेतुत्वकल्पनेनान हि दृष्ट परिहारेणादृष्ट कल्पना सङ्गत्वमावहत्यतिप्रसङ्गात्तदयुक्तं व्यतिचारात्तथा हि (जोतुल्लेत्यादि) इह यस्तुल्यसाधनयोरिष्टशब्दादिविषयसुखसाधनसमेषयोरनिष्टार्थसाधनसंप्रयुक्तयोश्च द्वयोर्बहूनां वाफले सुखदुःखानुभवनलक्षणपविशेषस्तारतम्यरूपो दृश्यते। नासौ अदृष्टमपि हेतुमन्यरेणोपपद्यते कार्यत्वाद्धट वद् यश्च तत्र विशेषाधायको दृष्टहेतुस्तद्गौतम! कर्मेति प्रतिपद्यस्वेति।