________________ कम्म 245 अभिधानराजेन्द्रः भाग 3 शब्दे) अधुना आधाकर्म यदाधाय निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म वध्यते तथाऽऽधाकर्मेति / तच शब्दस्पर्शरसरूपगन्धादिकमिति तथा हि / शब्दादिकामगुणविषयाभिष्वङ्ग वान् सुखलिप्सुर्मोहोपहतचेताः परमार्थासुखमयेष्वपिसुखाध्यारोपं विदधाति तदुक्तम् / "दुःखात्मिकेषु विषयेषु सुखाभिमानः सौख्यात्मकेषु नियमादिषुदुःखबुद्धिः। उत्कीर्णवर्णपदपङ्क्तिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्' एतदुक्तं भवति / कर्मनिमित्तभूता मनोज्ञेतरशब्दादय एवाधाकर्मेत्युच्यन्ते इति / तपःकर्म तस्यैवाष्टप्रकारस्य कर्मणो बद्धस्पृष्टनिधत्तनिकाचितावस्थस्यापि निर्जराहेतुभूतं बाह्याभ्यन्तरभेदेन द्वादशप्रकारं तपःकर्मोच्यते / कृतिकर्म तस्यैव कर्मणोपनयकारकमर्हत्सिद्धाचार्योपाध्यायविषये अवनामादिरूपमिति भावः कर्म पुनरबाधामुल्लङ्य स्वादेयेनोदीरणाकरणेन चोदीपर्णाः | पुद्गलाः प्रदेशविपाकेभ्यो भवक्षेत्रपुगजीवेप्वनुभावं ददतो भावकर्मशब्देनोच्यन्ते इति / तदेवं नामादिनिक्षेपेण द्रव्याधाकर्मोक्तमिह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाधिकार इति।। गाथासकलेन दर्शयति / "अट्ठविहेण उ कम्मेण, एत्थ होई अहिगारेत्ति" गाथार्द्ध कण्ठ्यमिति गाथाद्वयपरमार्थः। कर्मनिक्षेप उक्तः। आचा०१ श्रु.२ अ०१ऊ। (4) अथ कर्मशब्दं व्युत्पादयन्नाह। कीरइ जिएण हेउहि, जेण तो भंत ! भण्णइ कम्मंवि / / क्रियते विधीयते अञ्जनचूर्ण पूर्ण समुद्गक वन्निरन्तरपुद्गलनिचिते लोके क्षीरनीरन्यायेन वयपः पिण्डबद्धा कर्मवर्गणा द्रव्यमात्मसंबद्धं येन कारणेन ततस्तस्मात्कारणात्कर्म भण्यते। इति संबन्धः / केन क्रियते इत्याह / जीवने जन्तुना तत्र जीवति इन्द्रियपञ्चकमनोवाकायबलत्रयोच्छ्वासनिःश्वासायुर्लक्षणान् दश प्राणान् यथायोगं धारयतीति जीवः। क इत्थंभूत इति चेत उच्यते। यो मिथ्यात्वादिकलुषितरूपतया सातादिवेदनीयादिकर्मणामभिनिर्वर्तकस्तत्फलस्य च विशिष्टसातादेरुपभोक्ता नरकादिभवेषु च यथा कर्मविपाकोदयं संसर्ता सम्यग्दर्शनज्ञानचारित्रसंपन्नरत्नत्रयाभ्यासप्रकर्षवशाच निःशेषकर्माशापगमतः परिनिर्वाता स जीवः सत्त्वः प्राणी आत्मेत्यादिपर्यायाः / उक्तं च "यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च / संसर्ता परिनिर्वाता, स ह्यात्मानन्यलक्षण'' इति / कैः कृत्वा जीवेन क्रियते इत्याह / हेतु-- निर्मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिः सामान्यरूपैः। 'पडिणीयत्तणनिन्हवपओसउवघाय अंतराएण। अचासायणयाए, आवरणदुर्ग जीवो जणइ" इत्यादिभिर्विशेषप्रकारैरिहैव वक्ष्यमाणैः / तदयमत्र तात्पर्यार्थः / क्रियते जीवेन हेतुभिर्येन कारणेन ततः कर्म भण्यत इति।। कर्म। उत्त / पुण्यपापात्मके कर्मणि, स.। (6) अथ कर्मसिद्धिं दर्शयति। कथमेतत्सिद्धिरिति चेत् इहात्मत्वेनाविशिष्टानामात्मनां यदिदं देवासुरमनुजतिर्यगादिरूपंक्ष्मापतिरडमनीषिमन्दमहर्द्धिदरिद्रादिरूपं वा वैचित्र्यं तन्न निर्हेतुकमेष्टव्यं मा प्रापत्सदा भावाभावदोषप्रसङ्गः। "नित्य सत्त्वमसत्त्वं वा, हेतोरन्यानपेक्षणात्" सहेतुकत्वाभ्युपगमे च यदेवास्य हेतुस्तदेवास्माकं कर्मेति मतमितितत्सिद्धिः। यदवोचामः श्रीदिनकृत्यटीकायां जीवस्थापनाधिकारेऽमुमेवार्थम् "क्ष्माभृद्रङ्ककयोर्मनीषिजड्योः सद्रूपनाद्रूपयोः, श्रीमदुर्गतयोर्बलाबलवतोनीरोगरोगार्तयोः। सौभाग्यासुभगत्वसंगमजुषैस्तुल्येऽपि नृत्वेतरम् / यत्तत्कर्म निबन्धनं तदपि नो जीवं विना युक्तिमत्।' अन्यत्राप्युक्तम्!"आत्मत्वेनावशिष्टस्य, वैचित्र्य तस्य यद्शात्। नरादिरूपं तचित्रमदृष्ट कर्मसंज्ञितम्' पौराणिका अपि कर्मसिद्धि प्रतिपद्यन्ते तथा च ते प्राहुः। "यथा यथापूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते / तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते'' यत्तत्पुराकृतं कर्म, न स्मरन्तीह मानवाः / तदिदं पाण्डवज्येष्ठ ! दैवमित्यभिधीयते / मुदितान्यपि मित्राणि, सुकुद्धाश्चैव शत्रवः / न हीमे तत्करिष्यन्ति, यन्न पूर्वकृतं त्वया / बौद्धा अथाहुः "इतएकनवा कल्पे, शक्त्या मे पुरुषो हतः। तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः / तदपि च कर्मपुद्गलस्वरूपं प्रतिपत्तव्यं नामूर्तममूर्तत्वे हि कर्मणः सकाशादात्मनामनुग्रहोपघातासंभवात् आकाशादिवत् यदाह (कर्म)"तुल्यप्रतापोद्यमसाहसानां, केचिल्लभन्तेनिज-कार्यसिद्धिम्। परेन तां मित्र ! निगद्यतां मे, कार्मास्ति हित्वा यदि कोऽपि हेतुः ||1|| विचित्रदेहाकृतवर्ण गन्धप्रभावजातिप्रभवस्वभावाः / केन क्रियन्ते भवनेऽग्रिवर्गा–श्चिरन्तनं कर्म निरस्य चित्राः / / 2 / / विवध्य मासान्नवगर्भमध्ये, बहुप्रकारैः कललादिभावैः / उद्वर्त्य निष्काशयते सवित्र्याः, को गर्भतः कर्म विहाय पूर्वम्"यो, विं। (7) अकर्मवादिमतनिराकरणम् / पौगलिकादृष्टवानिति नास्तिकादिमतमत्यसितुम्। तथाहि नास्तिकस्तावन्नादृष्टमिष्टवान् स प्रष्टव्यः किमाश्रयः परलोकिनोऽभाबादप्रत्यक्षत्वाद्विचाराक्षमत्वात्साधकाभावाद्वा द्रष्टाभावो भवेत्। न तावत्प्रथमः पक्षः परलोकिनः प्राक्प्रसाधितत्वात्। नाप्यप्रत्यक्षत्वाद्यतस्तत्तवाप्रत्यक्षं सर्व प्रमातृणां वा प्रथमपक्षे त्वत्पितामहादेरप्यभावो भवेचिरातीतत्वेन तस्य तवाप्रत्यक्षत्वात् तदभावे भवतोऽप्यभावो भवेदित्यहो नवीना वाद वैदग्धी। द्वितीयकल्पोऽप्यल्पीयान् सर्वप्रमातूप्रत्यक्षमदृष्टनिष्ठुक्व निष्णात भवतीति वादिना प्रत्येतुमशक्तेः प्रतिवादिना तु तदाकलनकुशलः केवली कक्षीकृत एव विचाराक्षमत्वमप्यक्षमं कर्कशतर्कस्तय॑माणस्य तस्य घटनात् / ननु कथं घटते तथा हि तदनिमित्तं सनिमित्तं वा भवेत्। न लावदनिमित्त सदा सत्वासत्वयोः प्रसङ्गात् / "नित्यं सत्वमसत्वं वा, हेतोरन्यानपेक्षणात्" यदि पुनः सनिमित्तं तदापि निमित्तमदृष्टान्तरमेय रागद्वेषादिकषायकालुष्यं हिंसादिक्रिया वा प्रथमेपक्षेऽनवस्था व्यवस्था। द्वितीये तुन कदापि कस्यापि कर्माभावो भवेत् / तद्धेतो रागद्वेषकषायकालुष्यस्य सर्वसंसारिणां भावात् / तृतीयपक्षोऽप्यसूपपादः पापपुण्यहेतुत्वसम्मतयो हिंसार्हत्पूजादिक्रिययोर्व्यभिचारदर्शनात्। कृपणपशुपरंपराप्राणप्रहारकारिणां कपटघटनापटीयसां पितृमातृमित्रपुत्रादिद्रोहिणामपि केषांचिचपलचारुचामरश्वेतातपत्रपार्थिश्रीदर्शनात्। जिनपतिपदपङ्कजपूजापरायणानां निखिलप्राणिपरंपरापारकरुणाकूपाराणामपि केषांचिदनेकोपद्रवदारिद्रयमुद्राक्रान्तत्वावलोकनादिति। अत्र ब्रूमः पक्षत्रयमप्येतत्कक्षीक्रियत एव प्राच्यादृष्टान्तरवशयोगो हि प्राणी रागद्वेषादिना प्राणव्यपरोपणादिकुर्वाणः कर्मणा बाध्यते। न च प्रथमपक्षेऽनवस्थादौस्थ्यमूलक्षयकरत्वाभावात् / वीजकुरादिसन्तानवत् सन्तानस्यानादित्वेनेष्टत्वात्। द्वितीयेऽपि यदि कस्यापि कर्माभावो न भवेन्मा भूत् सिद्धंतावदृष्ट मुक्तिवादेतदभावोऽपि प्रसाधयिष्यते। तृतीये तु या हिंसावतोऽपि समृद्धिरर्हत्पूजावतोऽपि दारिद्रयाप्तिः सा क्रमेण प्रागुपात्तस्य पापानुबन्धिनः पुण्यस्य पुण्यानुबन्धिनः पापस्य च फलम्।