________________ कम्म 244 अभिधानराजेन्द्रः भाग 3 कम्म णयुक्तं जन्म ततो भवति / एकान्तरनिरवद्ये मोक्षे स्वरूपतोऽतीवसावद्यस्य कर्मणस्तस्याहेतुत्वेऽपि मुक्तीच्छायाः कथंचित्सारूप्येण तद्धेतुत्वात् तद्दारतया प्रकृतोपयोगादिति ह्यमीषामाशयः / तदाह "तदयोग्यजन्मसंधानमत एके प्रचक्षते / मुक्ताविच्छापि यत् श्लाघ्या, तमःक्षयकारी मता" / तस्याः समन्तभद्रत्वादनिदर्शनमित्यद" इति। मुक्तीच्छापि सतांश्लाघ्या, न मुक्तिसदृशं त्वदः / द्वितीयात्साऽनुवृत्तिश्च, सा स्थाइर्दुरचूर्णवत्।।२४।। उक्ताशयमेवाह "मुक्तीच्छापीति'' द्वितीयात्स्वरूपशुद्धानुष्ठानात् सा तु वृत्तिश्चोत्तरत्राप्यनुवृत्तिमती च सा दोषहानिः स्याहर्दुरचूर्णवन्मण्डूकक्षोदवत् / निरनुवृत्तिदोषविगमे हि गुरुलाघवचिन्तादृढप्रवृत्त्यादिकं हेतुस्तदभावाचात्र सानुबन्ध एव दोषविगम इति भावः। तुदक्तम् "द्वितीयादोषविगमो, नत्वेकान्तानुबन्धवान् / गुरुलाघवचिन्तादि, न यत्तत्र नियोगतः" / कुराजचन्द्रप्रायं त-निर्विवेकमदः स्मृतम्। तृतीयात्साऽभुबन्धा सा, गुरुलाघवचिन्तया ||25|| तत्तस्मात्सानुवृत्तिदोषविगमाददो द्वितीयमनुष्ठानं निर्विवेक विवेकरहितं कुराजवप्रप्रायं कुत्सितराजाधिष्ठितनगरप्राकारतुल्यं तत्र लुण्डाकोषद्रवस्यैवात्राज्ञानदोषोपघातस्य दुर्निवारत्वादिति भावः / तृतीयादनुबन्धशुद्धानुष्ठानात्सा दोषहानिः सानुबन्धा उत्तरोत्तरदोषापगमावहाऽत एव दोषाननुवृत्तिमती / तदुक्त "तृतीयाद्दोषविगमः, सानुबन्धो नियोगतः / " गुरुलाघवचिन्तयेत्युपलक्षणमेषा दृढप्रवृत्त्यादेः / गृहाधभूमिकाकल्प-मतस्तद् कैश्चिदुच्यते / उदग्रफलदत्वेन, मतमस्माकमप्यदः ||26|| अतः सानुबन्धदोषहानिकरत्वात्तत्तुतीयमनुष्ठान के श्चित्तीर्थान्तरीयैर्गृहस्याद्यभूमिका दृढपीठबन्धरूपा तत्कल्पं तत्तुल्यमुदग्रफलदत्वेनोदारफलदायित्वेन तस्याद एतदुक्तमस्माकमपि मतम् / यथा हि गृहाद्यभूमिकाप्रारम्भदाय नोपरितनगृहं भग फलं संपद्यते किं तु तदनुबन्धप्रधानमेवं तत्त्वसंवेदनानुगतमनुष्ठानमुत्तरोरदोष-विगमावहमेव भवति न तु कदाचनाप्यन्यथारूपमिति, द्वा०१३ द्वार / "कर्माशुक्लकुष्ण, योगिनस्त्रिविधमितरेषाम् शुभफलदं कर्मयोगादिशुक्लं, अशुभफलदं ब्रह्मइत्यादि, कृष्णमुभयं संकीर्ण , शुक्लकृष्णं तत्र शुक्ल दानतपः स्वाध्यायादिमतां पुरुषाणां, कृष्णं नारकिणां, शुक्लकुष्णं, मनुष्याणां योगिनां तु विलक्षणमिति। द्वा० 16 द्वा० / जीवनवृत्ती, उपा. 1 अ / जीविकार्थे आरम्भे, पंचा०१ विवा" कम्माणि तणहारगादीणि' आ. चू.१ अ / महारम्भादिसंपाद्ये, स्था, 3 ठा० / अनाचार्य्यक कृष्यादौ, स्था०५ठा। पिं। कल्प, / आ. चू। (2) अनाचार्यकं कर्म साचार्यक शिल्पमथवा कादाचित्कं शिल्पं कादाचित्कं वा कर्म शिल्पं तु नित्यव्यापारः भ०१२ श. 5 उ / सर्वकालिकं कर्म तं० / तत्र कर्म सिद्धादिव्याचिख्यासया कर्मादिस्वरूपं प्रथमतः प्रतिपादयति। कम्म जमणायरिओ-वदसेजं सिप्पमन्नहाभिहियं / किसिवाणिज्जाईयं, घयलोहाइभेयं वा / / इह यत् अनाचार्योपदेशजं सातिशयमनन्यसाधारणं कर्म तत्कर्मेद परिगृह्यते। यत् पुनः कर्म सातिशयमाचार्योपदेशजं ग्रत्थनिबद्धं वा तत् शिल्पम् / तत्र कृषिवाणिज्यादि आदिशब्दात् भारवाहनादिपरिग्रहः / कर्म घटकारलोहकारादिभेद भावप्रधानोऽयं निर्देशो घटकारत्वलोह कारत्वादिभेदं कर्म पुनः / च शब्दः पुनः शब्दार्थः शिल्पमिति / आ, चू। अनाचार्यकं कर्म साचार्यकं शिल्पम् यदि वा कादाचित्कं कर्मनित्यमभ्यस्यमानं शिल्पमिति कर्मशिल्पयोर्भेदः प्रथमं भगवता ऋषभस्वामिता सर्वाणि कृष्यादीनि कर्माणि देशितानि आ, म, द्वि। (3) न्यायमतसिद्ध पदार्थभदे, तच पञ्चविधम्। "एतो कम्मंतयं च पंचविहं उक्खेवणमक्खेवणपसारणा-कुंचणागमणं' कर्म पञ्चविधं तद्यथा उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति। आ. म. द्विआ. चू / सू प्र० / विशे। क्रियते का निर्वय॑ते इति कर्म / क्रियायाम, यथा कुम्भं प्रति कर्तुव्यापारः / विशे / कर्तुरीप्सिततमं कर्म इति परिभाषिते कारकभेदे, विशे / यथा कुम्भकारः कर्तुरीप्सित्तमत्या क्रियमाणः कुम्भः कर्म / अष्ट. 11 अष्ट, | "कर्मनियों घट एव क्रियमाणक्रियया व्याप्यमान इति" आ चू, 1 अ / हस्तकर्मणि, सूत्र, 1 श्रु०९ / (4) नामादितः कर्मनिक्षेपादि। नामं ठवणाकम्म, दव्वकम्मं च भावकम्मच। दव्वम्मि तिणदसिता, अधिकारो भावकम्मेणं / / नामकर्म स्थापनाकर्म द्रव्यकर्म भावकर्म धेति चतुर्दा कर्मणो निक्षेपः। अत्र नामस्थापने क्षुण्णे द्रव्यकर्मशरीरभव्य-शरीरव्यतिरिक्तं तु तृण वा दशिकानां बन्धनं वा उपलक्षणमिदं तेन कुम्भकाररथकारादिगतमपि द्रव्यकर्म मन्तव्यम्। यद्वा व्यतिरिक्तं द्रव्यकर्म द्विधा कर्मद्रव्यं नोकर्मद्रव्य वा कर्मद्रव्यं ज्ञानावरणादि कर्मपर्यायमापन्नाः कर्मवर्गणापुद्गलाः / यद्वा यज्ज्ञानावरणादिकं कर्मबद्धं न तावदुद्यमागच्छति तत्कर्मद्रव्य नोकमिद्रव्यमाकुञ्जनप्रसारणोत्पेक्षणावक्षेपणगमनभेदात्पञ्चधा / भावतो द्विधा। आगमतो नोआगमतश्च आगमतः कर्मपदार्थज्ञाने उपयुक्तं नोआगमतोऽष्टविधो ज्ञानावरणादिकर्मणामुदयः बृ. 4 उ / 634 पत्र / नि. चू० / आचाराङ्ग निर्युक्तौ तु॥ नामट्ठवणाकम्म, दव्वकम्मं पओगकम्मं च।। समुयाणइरियावहियं, आहाकम्मं तवोकम्मं / / 9 / / किइकम्मभावकम्मे, दसविहकम्मे समासओ होइ। अट्टविहेण उ कम्मेण, इत्थं होइ अहिआरो ||3|| नामकर्म कमर्थिशून्यमभिधानमात्र स्थापनाकर्म पुस्तकपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपा स्थापना / द्रव्यकर्मव्यतिरिक्तं द्विधा द्रव्यकर्म नोद्रव्यकर्म च। तत्र तत्र द्रव्यकर्मकर्मवर्गणान्तः पातिनः पुद्रलाः बन्धयोग्या बध्यमाना बद्धाश्चतुर्धा दीरणा इति / नोद्रव्यकर्म कृषिबलादिकर्म / अथ कर्मवर्गणान्तःपातिनः पुद्गला द्रव्यकम्मेत्यवाचिकाः पुनस्ता वर्गणा इति संकीर्तत्ते (आचा.) (प्रयोगकर्मरामुदानकर्मणोर्वर्गणा स्वस्वस्थाने द्रष्टव्या) तत्र प्रयोगकर्मणैकरूपयता गृहीतानां कर्मवर्गणानांसम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनामर्यादया देशसर्वोपद्यातिरूपया तथा स्पृष्ट निधत्ता निकाचितावस्थया च स्वीकरण समुदायः तदेव कर्म समुदानकर्म तर मूलप्रकृतिबन्धो ज्ञानावरणीयादिरुत्तरप्रकृतिबन्धस्तूच्यते उत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा मतिश्रुताबधिमनः पर्याय - केवलावरणभेदात् आचा.१ श्रु.२ अ०१ऊ1 (ईर्यापथिककर्म इरियावहिय