________________ कम्म 256 अभिधानराजेन्द्रः भाग 3 कम्म सो यं उच्चारो यं, नरतिरिदेवाउयाइ तह नामे / देवदुर्ग मणुयदुर्ग, पणिंदजाईयतणुपणगं // अंगोवंगाणतिगं, पढमसंघयणमेव सिच्चयणं / सुभवणणाई सुचउक्कं, अगुरुल्लहू तह य परघायं / / ऊसासं आयावं, उज्जोयविहागई विप्पएसत्था। तसबापरपजत्तं, पत्तेयथिरं सुभं सुभगं / / सुस्सर आपज्ज जसं, निमेण तित्थयरमेव एआउ। बायालं एगई उ, पुणंति जिणेहि भणिया उ॥ शेषास्तु या व्यशीतिप्रकृतयस्तत्सर्वमशुभत्वात्पापं विज्ञेयं सम्यक्त्वं कथमशुभंकथं तत्पापमिति चेदुच्यते रुचिरूपमेव हि सम्यक्त्वं शुभंतत्त्वेन विचार्यते किं तु शोधितमिथ्यात्वपुद्गल-रूपं तच्चा शङ्काद्यनर्थहेतुत्वादशुभमेव अशुभत्वाच पापं सम्यग्रुचेश्चातिशयेन नानाचारकत्वादुपचारमात्रमेवेदं सम्यक्त्वमुच्यते परमार्थतस्तु मिथ्यात्वमेवैतदित्यवं प्रसङ्गेन। इहं च पुण्यपापलक्षणमुभयमपि सविपाकमविपाकं स मन्तव्यं यथा बद्धं तथैव विपाकतः किंचिवेद्यते किंचिदनुमन्दरसं नीरस वा कृत्वा प्रदेशोदयेनाविपाकं वेद्यत इत्यर्थः। तदेवं पुण्यं पापंच भेदेन व्यवस्थाप्य निरस्तः संकीर्णपुण्यपाएपक्षः। इतश्चायमुक्तः सर्वस्यापि सन्मिश्रसुखदुःखाख्यकार्यप्रसंगान चैतदस्तिदेवादीनां केवलंसुखाधिक्यदर्शनान्नारकादीनां केवलदुःखप्राचुर्यनिर्णयान्न च सर्वथा सन्मिकरूपस्य हेतोरल्पबहुत्वभेदेऽपि कार्यस्य प्रमाणतोऽल्पबहुत्वं विहाय स्वरूपतो भेदो युज्यते / न हि मेचककारणप्रभवं कार्यमन्यतमवर्णात्कटं घटते तस्मात्सुखातिशयस्यान्यन्निमित्तमन्यच दुःखातिशयस्येति / न च सर्वथैव रूपस्य संकीर्णपुण्यपापलक्षणस्य हेतोः सुखातिशयनिबन्धनं पुण्यांशवृद्धिदुःखातिशयस्य कारणपापांशहान्या सुखातिशय-प्रभवाय कल्पयितुं न्याय्या पुण्यांशपापांशयोर्भेदप्रसंगात्तथा हि यत् वृद्धावपि न वर्द्धते तत्ततो भिन्नं यथा देवदत्तवृद्धावप्यवर्द्धमानो यज्ञदत्तो न वर्द्धते पुण्यांशवृद्धौ पापांशस्तस्मात्ततो भिन्नोऽसाविति तस्मान्न सर्वथैकरूपता पुण्यपापांशयोर्घटते कर्मसा मान्यरूपतया यद्यसौ तयोरिष्यते तदा सिद्धसाध्यता सातयशः कीदिः पुण्यस्य, असातायशःकीदिस्तु पापस्य, अस्माभिरपि कर्मत्वेनैकताया अभ्युपगमात्तस्मात्पुण्यपापतया विविक्ते एव पुण्यपापे स्त इति / ततः सुखदुःखवैचित्र्यनिबन्धनयोः पुण्यपापयोर्यथोक्तनीत्या साधितत्वान्न कर्त्तव्यः तत्संशयः किं वा सत्वे पुण्यपापयोर्वेदोक्तनीत्या साधितस्याग्निहोत्रादेः लोकप्रसिद्धस्य च दानादेवैफल्यं स्यादिति दर्शयन्नाह।। असइ बहि पुनपावे, जमग्निहोत्ताइ सम्गकास्स। तदसंबद्धं सव्वं, दाणाइफलं च लोयम्मि॥ पुण्यपापयोरसत्वे यदेतद्वहिरग्निहोत्राद्यनुष्ठानं स्वर्गकायस्य यच्च दानहिंसादिफल पुण्यपापात्मकं लोके प्रसिद्धं तत्सर्वमसंबद्धं स्यात्स्वर्गस्यापि पुण्यफलत्वात्पुण्यपापयोश्च भवदभिप्रायेणासत्त्वात्तस्मादभ्युपगन्तव्ये एव पुण्यपापे तदेवं वेदपदवचनप्रामाण्याद्युक्तितश्च छिन्नस्तस्य संशय इति / ततः किं कृतवानसावित्याह। छिन्नम्मि संसयम्मि, जिणेण जरमरणविप्पमुक्केण। सो समणो पव्वईओ, तिहिं उसहखंमियसएहिं / / गतार्था इति चतुश्चत्वारिंशद्गार्थार्थः विशे। (16) कर्मणश्चतुविर्धत्वम्। पुण्यपापयोः पृथक्त्वख्यापके सूत्रेएगे पुण्णे एगे पावे (स्था.१ ठा.) चउविहे कम्मे पण्णत्ते तं जहा सुभे णामं एगे सुभेसुभेणाभगेगे असुभे असुभेणाममेगे / चउव्विहे कम्मे पण्णत्ते तं जहा सुभेणाममेगे सुभविवागे सुमेणाममे गे असुभविवागे असुभेणाममे गे सुभविवागे असुमेणाममेगे असुभविवागे 4 // क्रियत इति कर्म ज्ञानावरणीयादि तत् शुभपुण्यप्रकृतिरूपं पुनः शुभं शुभानुबन्धित्वाद्भरतादीनामिव शुभं तथैवाशुभमशुभानुबन्धित्वात् ब्रह्मदत्तादीनामिव अशुभं पापप्रकृतिरूपं शुभं शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव अशुभं तथैव पुनरशुभमशुभानुबन्धित्वान्मत्स्यबन्धादीनामिवेति। तथा शुभं सातासातादित्वेनैव बद्धं तथैवोदेति यत्तत्शुभविपाकं यत्तुबद्धं शुभत्वेन संक्रमकरणवशात्तदेति च शुभत्वेनतत् द्वितीयं भवतिचकर्मणि कर्मान्तरानुप्रवेशसंक्रमाभिधानकरणवशादुक्तं च "मूलप्रकृत्यभिमानाः संक्रमयति गुण उत्तराः प्रकृतीः। न त्वात्मा मूर्तत्वादध्यवसानप्रयोगेणेति'" ||1|| तथा मतान्तरं 'मोत्तूणमाउयं खलु, दंसणमोहं चरित्तमोहंच। सेसाणं पयमीणं, उत्तरविहि संकमो भणिओति'' ||1|| यद्वद्धमशुभतयोदेति च शुभतया तत् तृतीयं चतुर्थं प्रतीतमिति तृतीयं कर्मसूत्रमत्रत्यद्वितीयोद्देशकबन्धसूत्रवत् ज्ञेयमिति चतुर्विधकर्मस्वरूपम्। स्था०४ ठा०४ उ०॥ (17) अथ कर्मणोऽबद्धस्पृष्टवादिगोष्ठामाहिलनिहवमतम्॥ किं कंबुउव्व कम्मं, पइपपएसमह जीवपजंते। पइदेस सव्वगयं, तदंतरालाणवत्थाओ। अह जीवबहिंतो ना-णुवत्तएत्तं भवंतरालम्मि। तदणुगमाभावा उ–वज्झंगमलोच मुच्चत्तं // एंव सव्वविमोक्खो, निकारणो विसव्वसंसारो। भवमुक्काणं च पुणो, संसरणमअणासासो॥ ननु "पुट्ठो जहा अबद्धो कंचुइणमित्यादि'' गाथायां कञ्चुकमिव स्पृष्टमेव जीवे कर्म न तु बद्धमिति यदुच्यते / भवता तद्विचार्यते किं कञ्चुकवत्स्पृष्टं कर्म जीवस्य प्रतिदेशं वृत्तं सदुच्यते / आहोश्विजीवपर्यन्ते त्वक्पर्यन्त एव वृत्तं स्पृष्टमिष्यत इति द्वयी गतिः तत्र यदि प्रतिप्रदेशं वृत्तत्वात्स्पृष्टमिष्टं तर्हि जीवे सर्वगतं कर्म प्राप्नोति। नभोवत् कुतः सर्वगतमित्याह। तदन्तरालेत्यादितस्यजीवस्यान्तरालं मध्यं तदन्तरालं तस्यानवस्थातस्यस्य काव्याप्तस्यानवस्थानादनुद्धरणादित्यर्थः / न हि प्रति प्रदेशं वृत्तो कर्मणि जीवस्य कोऽपि मध्यप्रदेश उद्धति येन कर्मणस्तत्रासर्वगतत्वं स्यात्तस्मादाकाशेनैन कर्मणा जीवस्य प्रतिप्रदेशं व्याप्तत्वात्तस्य जीवे सर्वगतत्वं सिद्धमेव एवं च सति साध्यविकलत्वात्कञ्चुकदृष्टान्तोऽसंबद्ध एव प्राप्नोति साध्यस्य यथोक्त स्पर्शनस्य कञ्चुके भावादिति द्वितीय विकल्पमधिकृत्याह "अहेत्यादि" अथ जीवस्य बहिस्त्वक्पर्यन्ते वृत्तत्वात्कञ्चुकवत्स्पृष्ट कर्मष्यते तर्हि भवाद्भवान्तरं संक्रामतोऽन्तराले तन्नानुवर्तते तदनुवृत्तिर्न प्राप्नोति त्वक्पर्यन्तवृ