________________ एक 2- अभिधानराजेन्द्रः - भाग 3 एक्क सहायाभावात् / विपा०। प्रश्न केवले, स्था०३ ठा०। वाचा केवलमेकमसहाय-मिति।नं०। तथाच सूत्रकृताङ्गे।। अम्भागमितम्मि वा दुहे, अहवा उकमितेन भवंति। एगस्स गती अ आगती, विदुमंता सरणं ण मन्नई।। पूर्वो पाताऽसातवेदनीयोदयेनाभ्यागते दुःखे सत्येकाक्येव दुःखमनुभवति / न ज्ञातिवर्गेण वित्तेन वा किञ्चित् क्रियते / तथाच / "सयणस्स विमज्झगओ, रोगाभिहतो किलिस्सइइहेगो। सयणो विय से रोगं, न विरंचइ नेव नासेइ।१।" अथवोपक्रमकारणै-रुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे भवान्तिके वा मरणे समुपस्थितेसति एकस्यैवाऽसु मतो गतिरागश्चि भवति / विद्वान् विवे की यथावस्थितसंसारस्वभावस्य वेत्ता ईषदपि तावत् शरणं न मन्यते। कुतः सर्वात्मना त्राणमिति / तथाहि "एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते / तस्मादाकालिक हितमेकेनैवात्मनः कार्यम्।१। "एको करेंइ कम्मं, फलमवितस्सिक्कओ समणुहवइ / एको जायइ मरइय, परलोयं एकओ जाई"1१७ सव्वे सयकम्म कप्पिआ, अवियत्तेण दुहेण पाणिओ। हिंडति भयाउला सढा, जाइजएमरणेहि मिदृता।।१८|| सर्वेऽपि संसारोदरविवरवर्तिनः प्राणिणः संसारे पर्यटन्तः स्वकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः सूक्ष्मबादरपर्याप्त-कैकेन्द्रियादिना भेदेन व्यवस्थिताः तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायामव्यक्तेनापरिस्फु टेन शिरःशूलाद्यलक्षितस्व भा-वेनोपलक्षत्वात् प्रव्यक्तेन च दुःखेनाऽसातावेदनीयस्वभावेन समन्विताः प्राणिनः पर्यटन्त्यरघट्टघटीन्यायेन तावत्स्वेव योनिषु भयाकुलाः शठकर्मकारित्वात् शठा भ्रमन्ति / जातिजरामरणै-रभिद्रुता गर्भाधानादिभिर्दुःखैः पीडिता इति सूत्र०१ श्रु०२ अ०1"एगो सयं पचणुहोइ दुक्खम्" तदेवमेकोऽसहायो यदर्थ यत्पापं समर्जितं रहितस्तत्कर्मविपाकजं दुःखमनुभवति न कश्चिद्दुः ।खसंविभागंगृह्णातीत्यर्थः / उक्तंच 'मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् / एकाकी तेन दह्येहं, गतास्ते फलभोगिनः" इत्यादि सूत्र०१ श्रु०५ अ01 "एगस्स जंतो गतिरागती य" एकस्यासहायरस जन्तोःशुभाशुभसहायस्सगतिर्गमनं परलोकं भवति तथा आगतिरागमनं भवान्तरादुपजायते कर्मसहायस्यैवेति। उक्तं च "एकः प्रकुरुते कर्म, भुनत्तयेकश्च तत्फलम्। जायते मियने चैकः, एको याति भवान्तरमिति" सूत्र०१ श्रु०१३ अ० इको करेइ कम्मं, इक्को अणुहवह दुक्कयविवागं / इको संसरइजीओ, जएमरणचउग्गइगुविलं-४५ म०प०। इको हं नत्थि मे कोई, नवाहमवि कस्सई। एवं अदीणमणसा, अप्पाणुमणुसासए॥१३॥ एको उप्पमए जीवो, इक्को एव विवजई। इकस्स होइ मरणं, इको सिज्झइ नीरओ|१४|| इको करेइ कम्मं, फलमिव तस्सिकओ समणुहवइ। इको जायइ मरई, परलोयं इसओजायइ // 15 // इको मे सासओ अप्पा, नाणदसणसंजमो। सेसा मे बाहिरा भावा, सवे संजोगलक्खणा।।१६।। महा०प०। | एकश्च द्रव्यतोऽसहायो भावतो रागद्वेषरहितः तथा चएगे चरेद्वाणमासणे, सयणे एगे समाहिए सिया। एकोऽसहायो द्रव्यत एकाकिविहारी भावतो रागद्वेषरहितश्व रेत्। तथा | स्थानं कायोत्सर्गादिकमेक एव कुर्यात्। तथाऽऽसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् / एवं शयनेऽप्येकाक्येव समाहितो धादिध्यानयुक्तः स्याद्भवेत् / एतदुक्तं भवति / सस्विष्यवस्थानासनशयनरूपासुरागद्वेषविरहात् समाहित एवस्यादिति। सूत्र०१ श्रु०२ अ०॥"एगे एग विऊ बुद्धे"एको रागद्वेषरहिततया ओजा यदिवाऽस्मिन् संसारचक्रवाले पर्यट-न्नसुमान् स्वकृतसुखदुःखफलभाक्त्वेनैकस्यैव परलोकगमन- तया सदैकक एव भवति / तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपिगच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावत, स्त्वे कक एवेति। सूत्र०१ श्रु०१६ अ०"एग एव चरेलाढे" एक एव रागद्वेषविरहितश्चरेदप्रतिनिबद्ध विहारेण विहरेत् सहायवैकल्यतो वैकस्तथाविधगीतार्थो यथोक्तम्। "ण वालमिज्जा निउणं सहायं,गुणाहियं वा गुणओ समंवा एको विपावाइ विवज्जयंतो, विहरेज कामेसु असञ्जमाणो 1" उत्त०३ अ०। एको राग-द्वेषसहायविरहित इति / कल्प०। "एगे सहिते चरिस्सामि" एको मातापित्राद्यभिष्वङ्गवर्जितः कषायरहितो वेति / सूत्र०१ श्रु०२ अ०। अस्य द्विविधत्वं व्यवहारकल्पे एगेव पुटवभणिए, कारणनिकारणे दुविहभेदे एक एकाकी द्विविधभेदः पूर्वमोघनिर्युक्तौ भणितस्तद्यथा कारणे निष्कारणे च साम्प्रतमेनामेव विवरीषुः प्रथमतः कारणैकप्रति पादनार्थमाह - असिवादी कारणिया, निकारणियाय चवथूभादि। उवएसअणुवएसा दुविहा आहिंडगा हुंति॥ अशिवादिभिरादिशब्दादवमौदर्यराजद्विषादिपरिग्रहः। कारणैरेकाकिनः कारणिकाः चक्रस्तूपादौ आदिशब्दात्प्रति-मानिष्क्रमणादिपरिग्रहस्तेषां वन्दनाय गच्छन्त एकाकिनो निष्कारिणिकाः / व्य०वि०८ उ०। एकस्य चातुर्विध्यम् स्थानाङ्गे यथा।"चत्तारिका पण्णत्ता तंजहा दविए एक्कए माउ एक्कए पज्जव एक्कए संगहएक्कए" एकसंख्योपेतानि द्रव्यादीनि स्वार्थिकक-प्रत्ययोपादानादेककानि। स्था०४ ठा०। अस्य च सप्तविधो निक्षेपो यथानामं ठवणा दविए, माउय पयसंगहेक्कए चेव। पजव भावे य तहा, सत्तेए एकगा हॉति॥ इहैक एव एककः तत्र नामैककः एक इति नाम स्थापनैककः एकक इति स्थापना द्रव्यै कक त्रिधा सचित्तादि / तत्र सचित्तमेकं पुरुषद्रव्यमचित्तमेकं रूपक द्रव्यं मिश्रं तदेव कटकादिभूषितं पुरुषद्रव्यमिति / मातृकापदैक कमेकं मातृकापदं तद्यथा / उप्पन्नेइवेत्यादि / इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति। तद्यथा / उप्पन्नेइ वा विगमेइ वा धुवेइ वा। अमूनि च मातृकापदानि च 'अ आ इ ई' इत्येवमादीनि सकलव्यवहार शब्दव्यापकत्वान्मातकापदानि / इह चाभिधेयवल्लिङ्गवचनानि भवन्तीति कृत्वेत्थमुपन्यासः / संग्रहकै कः शालिरिति / अयमत्र भावार्थ: / संग्रहः समुदायस्तमप्याश्रित्यैकवचनगर्भशब्दप्रवृत्तेस्तथा चैकापि शालिः शालिरित्युच्यते। बहवोऽपि शालयः शालिरिति लोके तथा दर्शनात् / अयं चादिष्टानादिष्टभेदेन समान्यविशेषभेदेन द्विधा / तत्रानादिष्टो यथा शालिः आदिष्टो यथा कलमशालिरिति / एवमादिष्टानादिष्टभेदौ उत्तरद्वारेष्वपि यथानुरूपमायोज्यौ। पर्यायककः एकपर्यायः पर्यायो विशेषो धर्म इत्यनान्तरम् / स चानादिष्टो वर्णादिः / आदिष्टः कृष्णादिरिति / अन्येतु समस्तश्रुतस्कन्धवस्त्वपेक्षयेत्थं व्याच