SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ कप्प 233 - अमिधानराजेन्द्रः / भाग-३ कप्पट्टिइ तं दृष्ट्वोपतृपं नष्टा, रजका रावकारिणः / / 40 // राज्ये सर्वेश्वरः कल्प-जातो जाताऽथ संततिः। तेनाथ पुत्रवीवाहे, माङ्गलिक्याय भुभुजा / / 41 // वस्त्राभरणशस्त्रादि, प्रगुणीक्रियतेऽखिलम्। दानाद्युपात्ततद्दासी-मुखाद् ज्ञात्वा पुरातनः।। 42 / / मन्त्र्याख्यद्भुजो देव, हत्वा त्वां कल्पकः सुतम्। राज्येऽभिषेक्तुकामोऽस्ति, सामग्री तादृगीक्ष्यते।।३। पुरुषाः प्रेषिता राज्ञा, सामग्री तेऽप्यधीकथन्। कल्पकः सकुटुम्बोऽथ, क्षेपितो भूभुजाऽवटे।। 44 / / लभते कौद्रवीकूर-सेटिकामम्भसो घटम्। कल्पोऽवक् स्यात् किमियता, यः कुलोद्धरणक्षमः / / 45 / / वैरनिर्यातने वाऽलं, भुक्तां सोऽन्नमिदं सुधीः / तैरुक्तं नो न शक्तिस्त-त्तेऽभुक्ताना दिवं ययुः // 46 // कल्पकं संहृतं ज्ञात्वा, प्रतिपन्थिनुपास्ततः। आययुः पाटलीपुत्रं, ग्रहीतुंजाइवीतटे॥४७॥ दध्यौ नन्दः स मन्त्री चे-त्स्याद् द्विषो नाययुस्ततः। राजोचे कोऽपि किं कूपे, भक्तं गृह्णाति तत्प्रदाः / / 48 / / ऊचुर्गुह्णाति राजोचे, तहासोऽपि महामतिः। ततो मञ्चिकया कृष्टः, कृशः पिङ्गश्च कल्पकः।। 46 || कृतस्नानादिसंस्कारः, प्राकारेऽदर्शि कल्पकः। भीतास्ते कल्पकात्सर्वे, मृगेन्द्रादिव फेरवः / / 50 // कल्पो दूतेन तानूचे, मिलितैः सरितोऽन्तरे। निसृष्टार्थे विशिष्टः, करिष्ये सन्धिविग्रहम्॥५१॥ नावमारुह्य तेऽथागु-गङ्गान्तः कल्पकोऽप्यगात्। करस्थेक्षुकलायस्य, छिन्नस्योपर्यधस्तथा / / 52 // तिछत्किमन्तस्तानूचे, कल्पको हस्तसंज्ञया। अध ऊर्ध्वं च छिन्नस्य, दधिकुण्डस्य किं भवेत्।। 53 / / एवमादर्शयन्भुक्त्वा, तान् व्यामोह्य निवृत्तवान्। विशिष्टास्ते विलक्षास्तु, जग्मुः स्वस्वनृपान्तिके / / 54 / / अज्ञातकल्पाभिप्राया, आख्यंस्ते प्रलयत्यसौ। तत्प्रपञ्चेन नष्टास्ते, नन्दः प्रोक्तोऽथ मन्त्रिणा / / 55 / / हस्त्यश्वाद्याच्छिनत्तेषां, पृष्टिं कृत्वा प्रणश्यताम्। पुनमन्त्री कृतः कल्पः, कल्पद्वेषी विनाशितः।। 56 / / सहाभून्नन्दसन्तत्या, मन्त्रिता कल्पसन्ततेः। आ० क०११६ पत्र०ा आव०। आ० चू०। कप्पकरण-न०(कल्पकरण ) भोजनोच्छिष्टपात्राणां धावने, बु०५ उ०( तद्वक्तव्यतालेवशब्दे) कप्पकाल-पुं०(कल्पकाल) प्रभूतकाले, “कप्पकालमुवनंति" सूत्र० १श्रु०१अ०॥ कप्पट-पुं०(कल्पस्थ)समयपरिभाषयावालके, व्य०७उ०। डिम्भरूपे, न० व्य०७उ०। 70 / कप्पट्टिइ-स्त्री० (कल्पस्थिति) कल्पशास्त्रोक्तसाधुसमाचारे, अवस्थाने, कल्पस्य मर्यादायाम, बृ०६ उ०॥ तविहा कप्पष्टिई पण्णत्ता तं जहा सामाइयकप्पट्ठिई छेदोवट्ठावणियकप्पट्टिई णिव्विसमाणकप्पट्टिई / अहवा तिविहा कप्पट्टिई पण्णत्ता तं जहा णिविट्ठकप्पट्टिई जिणकप्पट्टिई थेरकप्पट्टिई स्था०३ ठा०। सङ्कलनेच। ( सूत्रम् ) छव्विहा कप्पद्विती पण्णत्ता तं जहा सामाइयसंजमकप्पद्विती छेदोवट्ठावणियसंजमकप्पहिती निव्विसमाणकप्पट्टिती निद्दिट्ठकाइयकप्पट्टिती जिणकप्पट्टितीथेरकद्विती त्ति वेमि॥ षड्डिधा षट्प्रकारा कल्पे कल्पशास्त्रोक्तसाधुसमाचारे स्थितिरवस्थानं कल्पस्थितिः। कल्पस्य वा स्थितिमर्यादा कल्पस्थितिः प्रज्ञप्ता तीर्थकरगणधरैः प्ररूपिता तद्यथेत्युपन्यासार्थः सामायिकसंहतकल्पस्थितिसमो रागादिदोषरहितस्तस्या यो लाभो ज्ञानादीनां प्राप्तिरित्यर्थः। समय एव सामायिकं सर्वसावधविरतिरूपं तत्प्रधानाः संयताः साधवः तेषां स्थितिः सामायिकसंयतकल्पस्थितिः। 1 तथा पूर्वपर्यायच्छेदेनोपस्थापनीयमारोपणीयं यत्तच्छेदोपस्थापनीयं व्यक्ति तो महाव्रतारोपणमित्यर्थः। तत्प्रधाना ये संयताः तेषां कल्पस्थितिः छेदोपस्थापनीयसंयतकल्पस्थितिः 2 निर्विशमानाः परिहारविशुद्धिकल्पं वहमानास्तेषां कल्पस्थितिनिर्विशमानकल्पस्थितिः 3 निर्विष्टकायिका नाम यैः परिहारविशुद्धिकं तपो व्यूढं निर्विष्टमासेवितो विवक्षितचारित्रलक्षणः कायो यैस्ते निर्विष्टकायिका इति व्युत्पत्तेस्तेषां कल्पस्थितिः 4 जिना गच्छनिर्गताः साधुविशेषास्तेषां कल्पस्थितिः जिनकल्पस्थितिः 15 स्थविरा आचार्यादयो गच्छप्रतिनद्धास्तेषां कल्पस्थितिः स्थविरकल्पस्थितिः। इतिरध्ययनपरिसमाप्तौ ब्रवीमि / तीर्थकरगणधरोपदेशे सकलमपि प्रस्तुतशास्त्रोक्तकल्प्यविधि भणामि न पुनः स्वमनीषिकयेति सूत्रसंक्षेपार्थः। संप्रति विस्तरार्थ विभणिषुर्भाष्यकारः कल्पस्थितिपदे परस्याभिप्रायमाशङ्का परिहरन्नाह। आहारो इइ ठाणं,जो चिट्ठति साहिइत्ति ते बुड्डी। ववहारपडुचेवं, ठियरेव तु णिच्छए ठाणं / / कल्पस्थितिरितिसूत्रे यत्पदं तत्र कल्प आधार इति कृत्वा स्थानं यस्तु तत्र कल्पे तिष्ठति स स्थितेरनन्यत्वात् स्थितिः / ततश्चैवं पृथग्भावाभिधेयत्वेन स्थितिस्थानयोः परस्परमन्यत्वमापन्नमिति ते तव बुद्धिः स्यात्सूत्रे व्यवहारं व्यवहारनयं प्रतीत्यैवं स्थितिस्थानयोरन्यत्वम् निश्चयतस्तु निश्चयाभिप्रायेण यैव स्थितिस्तदेव स्थानं तुशब्दाद्यदेव स्थानं सैव स्थितिः। कथं पुनरित्यत आह। ठाणस्स होति गमणं,पडिपक्खो तह गती ठिई पत्तुं। एतावता सकिरिए, भवेज्ज ठाणं च गमणं च / / सक्रियस्य जीवादिद्वयस्य एतावदेव क्रियाद्वयं भवति स्थानं वा गमनं वा। तत्र स्थानस्य गमनं प्रतिपक्षो भवति तत्परिणतस्य स्थानाभावात्। ततः किमित्याह। ठाणस्स होति गमणं, पडिपक्खो तह गती ठिई पत्तुं / ण य गमणं तु गतिमतो, होति पुणो एवमितरंपि // स्थानस्य गमनं प्रतिपक्षो भवति न स्थितिः / स्थितिरपि गतिप्रतिपक्षो न स्थानमेवं स्थितिस्थानयोरेकत्वम् तथा न च नैव गमनं गतिमतो द्रव्यात्पृथक् व्यतिरिक्तं भवति। एवमितरदपिस्थानं स्थितमतो द्रव्यादव्यतिरिक्तं मन्तव्यम्। इदमेव व्यतिरेकद्वारेण द्रढयति। जइ गमणं तु गतिमतो, होज पुणो तेण सो ण गच्छेजा।।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy