________________ कप्प २३०-अभिधानराजेन्द्रः। भाग-३ कप्प मथ्यते विनाश्यत इत्यर्थः। तदेवं व्याख्यातं परिमन्थपदम्। बृ०६ उ०। | षट् कल्पस्य प्रतिमन्थवः प्रज्ञप्तास्तद्यथा कौत्कुचिकः संयमस्य प्रतिमन्थुः 1 मौखारिकः सत्यवचनस्य प्रतिमन्थुः 2 चक्षुर्लोल ईर्यापथिकस्य प्रतिमन्युः 3 तिन्तिणिकः एषणागोचरस्य प्रतिमन्थुः 4 इच्छालोलो मोक्षमार्गस्य प्रतिमन्थुः 5 निदानं सिद्धिमार्गस्य प्रतिमन्थुः 6 “कुकइय" प्रभृतिशब्दानां व्याख्याऽन्यत्रान्यत्र। सांप्रतमेतेष्वेव द्वितीयपदमाहबिइयपदं गेलन्ने, अद्धाणे चेव तह य ओमम्मि। मोत्तूण चरिमपदं, णायव्वं जं जहिं कमति / / द्वितीयपदं ग्लानत्वे अध्वनि तथा अवमे च भवति तच चरमपदं निदानकरणरूपं मुक्त्वा ज्ञातव्यं तत्र द्वितीयपदंन भवतीत्यर्थः / शेषेषुतु कौत्कुचिकादिषु यद्यत्र क्रमते तत्तत्रावतारणीयमेतदेव भावयति। कडिवेयणमवतंसे, गुदपागरिसाभगदलं वा वि। गुदकीलगसकारा, ण तरति वद्धासणो होउं / / कटिवेदना कस्यापि दुःसहा अवतंसो वा पुरुषव्याधिनामको रोगो भवेत् / एवं गुदयोः पाको असि भगन्दरं गुदकीलको भवेत् / शर्करा कृच्छ्रमूत्रको रोगः स च कस्यापि भवेत्ततो न शक्नोति बद्धासनो भवितुं स्थातुं एवं विधे ग्लानत्वे अभीक्ष्णपरिस्पन्दनादिकं स्थानकौत्कुचिक- / त्वमपि कुर्यात्। उव्वत्तेति गिलाणं, ओसहकज्जे व पत्थरे छुमति / वेवतिय खित्तवित्तो, वित्तियपदं होति दोसंतु।। ग्लानमुद्वर्तयति एकस्मात्पार्श्वतो द्वितीयस्मिन् पाश्र्वे करोति औषधकार्ये व औषधदानहेतोस्तमेव ग्लानमन्यत्र संक्रम्य भूयस्तत्रैव स्थापयति। यस्तु क्षिप्तचित्तः स परवशतया प्रस्तरान् पाषाणान् क्षिपति वेपते वा च शब्दात् सेढितमुखवारित्रादिकं प्रकरोति एतत् द्वितीयपदं यथाक्रमं द्वयोरपि शरीरभाषाकौत्कुचिकयोर्भवति। मौखरिकत्वे अपवादमाहतुरियगिलाणाहरणे, मुहरितं कुन्ज वा दुपक्खे वा। ओसहविजं मंतं, मेलिज्जा सिग्धगामि त्ति। त्वरितंग्लाननिमित्तमौषधादेराहरणे कर्तव्ये द्विपक्षे संयतीपक्षे संयतीपक्षे च मौखरिकत्वं कुर्यात् / कथमित्याह। एष शीघ्रगामी अत औषधमानेतुं विद्यां मन्त्रं वा प्रयोक्तुं (मेलिज्जात्ति ) प्रेर्यतां व्यापार्यता-मित्यर्थः / अचाउरकले वा, तुरियं व न वावि इरियमुवओगो। वेजस्स वा वि कहणं, भणति विसमूलओमाओ॥ अत्यातुरस्य वा ग्लानस्य कार्ये त्वरितं गच्छेत् न चापि नैवेर्यायामुपयोगं दद्यात्। वैद्यस्य वा कथनं धर्मकथां कुर्वन् गच्छेत् येन स प्रवृत्तः सम्यक् ग्लानस्य चिकित्सां करोति / भये वा मन्त्रादिकं परिवर्तयन् गच्छति विषं वा केनापि साधुना भक्षितं तस्य मन्त्रेणापमार्जनं कुर्वन् विषवैद्या वानवगृहीतानां परिवर्तयन् शूलं वा कस्यापि साधोरूद्भवति तदा प्रमार्जयन् गच्छति। तितिणिया व तदद्धा, अलम्ममाणे विदव्वतितिणिता। वेजे गिलाणगादि तु, अहासंबंधीय अतिरित्तो।। तस्य ग्लानस्य उपलक्षणत्वात् आचार्यादेश्वाचार्याय तिन्तिणितापि / स्निग्धमधुरा आहारादिसंयोजनलक्षणा कर्तव्या / अलभ्यमाने वा ग्लानाप्रायोग्ये औषधादौ द्रव्यतिन्तिणिकता हा कष्ट न लभ्यते ग्लानयोग्यमत्रेत्येवंरूपा कार्या / इच्छालोभे पुनरिदं द्वितीयपदं वैद्यस्य दानार्थ ग्लानार्थवाऽऽहार उपधिश्चातिरिक्तोऽपि ग्रहीतव्यः / आदिशब्दादाचार्यादिपरिग्रहः / गणचिन्तके वागच्छोपग्रहे हेतोरतिरिक्तमुपधिं धारयेत्। एवं तावन्निदानं पदं वर्जयित्वा शेषेषु सर्वेष्वपि ग्लानत्वमङ्गीकृत्य द्वितीयपदमुक्तम्। संप्रति तदेवाध्वनि दर्शयतिअवेक्खंतो वलभया, कहेति वा सत्थियातिअत्तीणं। विजं आइसुतं वा, खेदभवा वा अणाभोगा। अध्वनि स्तेनानां सिंहादीनां वा भयादप्रेक्षमाण इतश्चेतच विलोकमानोऽपि व्रजेत् यदि वा अध्वनिगच्छन् सार्थिकानामायतिकानां वा सार्थचिन्तकानां धर्म कथयति येन ते आवृत्ताः सन्तो भक्तपानाद्युपग्रह कुर्युः / अथवा विद्या काचिदभिनवगृहीता सा मा विस्मरिष्यतीति कृत्वा तां परिवर्तयन्नतूपेक्षमाणो वा गच्छेत् आदिश्रुतं पञ्चमङ्गलंतद्वाचौरादिभये एरावर्तयन् व्रजेत् खेदो नाम श्रमस्तेनातुरीभूतो भयादा संभ्रान्त ईर्यायामुपयुक्तो न भवेदिति (अणाभोगत्ति ) विस्मृतिवशात् सहसा वा नेर्यायामुपयोगे कुर्वात्। संजोयणापलं वा, तिगाण कप्पादिगो य अतिरेगो। ओमादिए वि विहुरो,जाइज्डा जं जहे कमति / / अध्वनि गच्छन् हारादीनां संयोजनामपि कुर्यात् प्रलम्बादीना विकरणकरणाय पिप्पलकादिकमतिरिक्तमप्युपछि गुह्णीयाद्वा धारयेद्वा अथवा परलिंङ्गेन तानि ग्रहीतव्यानि ततः परलिंगमपि धारयेत्। कल्पा अर्णिकादयस्तदादिक आदिशब्दात्पात्रादिकश्च दुर्लभ उपधिरतिरिक्तोऽपि ग्रहीतव्यः / तदेवमध्वनि द्वितीयपदे भावितम् / एवमवमं दुर्भिक्ष तत्रादिशब्दादशिवादिकारणेषु वा विधुरे आत्यन्तिकायामापदि पञ्चविध परिमन्युमङ्गीकृत्य यद्यत्र द्वितीयपदं क्रमते तत्तत्र योजयेत्। एवं निदानपद मुक्त्वा पञ्चस्वपि कौत्कुचिकादिषु परिमन्थुषु द्वितीयपदमुक्तम् बृ०६ उ० (निदानव्याख्याऽन्यत्र ) कल्पप्रतिसेवनायाम्, जीत०१ पुष्टालम्बने, यतनादिविषये, पंचा० 15 विव० / अप्रमादे, “अप्पमायाकप्पो भवति उवओगपुव्वकरणो" क्रियालक्षणोऽप्रमादः नि० चू०१ उ० / तथाविधसमाचारप्रतिपादके (नि०) यज्ञादिविधिशास्त्रे वेदाङ्गे, कल्प० / अनु० / ज्ञा० / आव० / आ० म० द्वि० / द्वादश्यां गौणानुज्ञायाम, नं०1 निश्रायाम्, व्य० 4 उ० / संख्यानभेदे, कल्पग्छेदः क्रकचेन् काचस्य तद्विषयं संख्यानं कल्प एव परिपाट्या क्रकचव्यवहार इति प्रसिद्धमिति स्था० 10 ठा० / प्रावरणरूपे प्रच्छादके, बृ०३ उ०। जिनकल्पिकानां त्रयः कल्पाः। अथ गच्छवासिनां कल्पप्रमाणमाहकप्पा आयपमाणा, अड्डाइजाउ वित्थमा हत्था। एवं मज्झिममाणं, उक्कोसं होति चत्तारि॥ कल्पा आत्मप्रमाणाः सादहस्तद्वयप्रमाणायामा अर्द्धतृतीयाश्च हस्ता विस्तृताः पृथुला विधेयाः एतन्मध्यमं मानं प्रमाणं भवति उत्कर्षतो दैर्येन चत्वारो हस्ताः / एतदादेशद्वयं मन्तव्यम् /