________________ कप्प 227 - अभिधानराजेन्द्रः / भाग-३ कप्प या साधून व्याकुलयन्ति व्यामोहयन्ति सद्भावं नाख्यान्तीत्यर्थः / एतेन कारणेन चतुर्यामिकपञ्चयामिकानामाधाकर्मग्रहणे विशेषः कृत इति प्रकमः। बृ० 4 उ० अथ कथमेते एतत्स्वभावा इत्याह। कालस्सहावा उचिय, एएएवंविहा उपाएण। हॉति उ उओ जिणेहि, एएसिंइमा कया मेरा ||4|| कालस्वभावादेव कालसामदेिव एते साधव एवंविधास्तुएवं प्रकाराः पुनः ऋजुजडत्वादिधर्मका इत्यर्थः / प्रायेण बाहुल्येन न तु सर्वे तद्विधा एव भवन्ति स्युः (अउओत्ति) यस्मादेवमत एव। जिनैराप्तैरेतेषामृजुजडादिसाधूनामियमुक्तस्थिता स्थितकल्परूपा कृता विहिता (कयाइमत्ति) पाठान्तरम् ( मेरत्ति ) मर्यादति गाथार्थः। अथ ऋजुप्रज्ञानामस्तु चरणं ऋजुप्रज्ञत्वादेः ऋजुजडादीनांतुन युक्तमित्यत आहएवं विहाण वि इह, चरणं दिलृ तिलोगणाहेहिं। जोग्गाण थिरो भावो, जम्हा एएसि सुद्धो उ॥ 15 // अत्थिरो उ होइ इयरो, सहकारिवसेण ण उणतं हणइ। जलणा जायइ उण्ड, वज्जंण उ चयह तत्तं पि॥४६॥ एवं विधानामपि ऋजुजडत्वादियुक्तानामप्यास्तामृजुप्रज्ञानामिह प्रक्रमे चरणं चारित्रं दृष्टमवलोकितं त्रिलोकनाथैर्जिनैः किं सर्वेषामित्याह / योग्यानामुचितानां प्रव्रज्यायां कुत एतदेवमित्याह / स्थिरः स्थायी भावोऽध्यवसायो यस्मात्कारणादेतेषामृजुजडादीनां शुद्धस्तु प्रशस्त एवेति। अस्थिरस्तु अस्थायी पुनः कदाचित्क इत्यर्थः। भवति स्यादितरोऽशुद्धः / अथ कथमसौ स्यादित्याह। सहकारिवशेन तथाविधसामग्रीसामर्थ्येन न तु स्वत एव / तहिं शुद्धभावस्वभावचरणोपहतिर्भविष्यतीत्याह। न पुनस्तच्चरणं हन्ति विनाशयति / अत्र दृष्टान्तमाह / ज्वालनाद्वर्जाियते स्वादुष्णं तप्तंवजंकुलिशनतुन पुनस्त्यजति मुञ्चति तत्त्वमपि स्वभावमपि वजत्वमपीत्यर्थः / अपिः समुच्चये इति गाथाद्यार्थः। झ्य चरणम्मिठियाणं, होइ अणाभोगभावओ खलणो। जउतिय्वसंकिलेता, अवेति चारित्तभावो वि॥४७॥ इति दृष्टान्तोक्तन्यायेन चरणे चरित्रे स्थितानामाश्रितानां भवति स्यादनाभोगभावतः विस्मरणसद्भावात् स्खलनातिक्रमश्चारित्रस्य न तु नैव तीव्रसंक्लेशादुत्कटदुरध्यवसायादपैति नश्यति चारित्रभावोऽपि चरणपरिणामः पुनस्तीव्रसंक्लेशस्याभावादेवेतिगाथार्थः। नन्वेवमृजुजडानां युक्तश्वरणानपगमो वक्रजडानां तु कथमसावित्याहचरिमाण वि तहणेयं, संजलणकसायसंगयं चेव। माइट्ठाणं पायं, असई पिहुकालदोसेण // 48 // चरमाणामप्यन्तिमानामपि न केवलमाद्यानामेव तथेति यथाद्यानामनाभोगजन्यस्खलना चरणस्यावाधिका तथा तज्ज्ञेयं ज्ञातव्यं घरणावाधक मातृस्थानमिति योगः। किं सर्वं नेत्याह। संज्वलनकषायसंगतमेव अल्पतरकषायोद्भवमेव न त्वनन्तानुबन्धादिगतं किं तदित्याह (माइट्ठाणंति) मातरः स्त्रियोऽभिधीयन्ते तासांस्थानमाश्रयो मातृस्थानं माया स्त्रियो हि प्रायो मायाश्रिता भवन्ति / स्त्रीत्वमपि प्रायो मायानिबन्धनमथवा मातृशब्देन मायोच्यते। ततश्च तस्याः स्थानं विशेषो मातृस्थान मायिनां वा स्थानमिति मायिस्थानं मायैव प्रायो बाहुल्येन केषांचित्तन्न संभवत्येवेति प्रायो ग्रहणम् / असकृदप्यनेकशोऽप्यास्तामेकदा खुक्यिालंकारे कालदोषेण दुष्षमानुभावेनेति गाथार्थः / व्यतिरेकमाहइहरा उण समणत्तं, असुद्धभावा उहंदि विण्णेयं / लिंगम्मि वि भावेणं, सुत्तविरोहा जओ भणियं / / 46 || इतरथा त्वन्यथा पुनः कषायान्तरसङ्गतमातृस्थानसंभवे इत्यर्थः न श्रमणत्वं न साधुत्वं कुत इत्याह। अशुद्धभावात् अप्रशस्ता ध्यवसायान् अनन्तानुबन्ध्यादिसंगतमातृस्थानरूपान्हंदीत्युपप्रर्शने विज्ञेयं ज्ञातव्यं लिङ्गेऽपिद्रव्यलिङ्गोरजोहरणादौ सत्यास्तांतदभावे यदिद्रव्यलिङ्गमस्ति कथं न श्रमणत्वमित्यत आह। भावेन परिणामापेक्षया एतदेव कुत इत्याह / सूत्रविरोधात् आगमोक्तार्थविरूद्धत्वात् / सूत्रविरोध एव कुत इत्याह / यतो यस्माद्भणितमुक्तमागम इति गाथार्थः / यदुक्तं तदेवाहसव्वे विय अइयारा, संजलणाणं तु उदयओ होति। मूलच्छेचं पुण होइ, वारसण्हं कसायाणं / / 50 // सर्वेऽपि च समस्ता अपि न तु केचिदेवातिचाराः सर्वविरत्यतिक्रमाः संज्वलनानां तु संज्वलनाख्यकषायाणामेवोदयतो विपाकेन भवन्ति स्युः / मूलेनाष्टमप्रायश्चित्तेन छिद्यतेऽपनीयते यदपराधजातंतन्मूलच्छेद्य तत्पुनर्भवति स्यात्द्वादशानामनन्तानुबन्ध्यादीनां कषायाणां क्रोधादिभावनामुदयतः इत्यतः संज्वलनसंगतमेव मातृस्थानं चरणाभावकारक नस्यात्तद्भावेऽपिचचरमसाधवश्चरणवन्तः स्युरिति गाथार्थः। दुष्षमायां केचिचारित्रमेव न मन्यन्ते अतिचारबाहुल्यात्तच्च नयतो व्यवहारभाष्ये साक्षेपः समाधिरिहोक्तः। “केसिंचियआएसो, दंसणनाणेहिवट्टएतित्थं। वोच्छिन्नं च चरितं, वयमाणे भारिया चउरो" चतुर्गुरुकः प्रायश्चित्तविशेषः वस्तुस्थानविशेषः तथा "न विण तित्थनियंथेहि, नतित्थाय नियंथया / छक्काय संजमो जाव, ताव अणुसजणा दोण्हं" अव्यवच्छेदो वक्रकुशीलयोर्मायिकच्छेदोपस्थापनीययोर्वेत्यर्थः / “जो भणइ नत्थि धम्मो, न य सामइयं न चेव य वयाई / सो समणसंघवज्जो, कायव्यो समणसंघेण" तथा पूर्वसाध्वपेक्षया हीनतरक्रियापरिणामत्वेऽपि दुष्षमासाधूनां साधुत्वमेव / यदाइ " सत्थपरिण्णछक्काय, अहिगमो पिंमउत्तरज्झाए। रूक्खवेव सहे गोवे, जो हे सोवीयपुक्खरणी" अयमर्थः पूर्व शस्वपरिज्ञाध्ययनमुत्थापनाहेतुरासीदधुना षट्कायाधिगमः / षट्कजीवनिकायिका एवं पिण्डग्रहणहेतुराचारो दशकालिकं च / तथोत्तराध्ययनान्याचारस्योपरीदानीं तु दशकालिकस्येति पूर्वं वृक्षाः कल्पवृक्षा अधुना चूतादयोऽपिते तथा शोधिः पाण्मासिकी प्रागधुना च पञ्चकल्याणकदशकल्याणकादिभिर्न च सा न भवतीति गाथार्थः / एवं चरमसाधूनां चरणं व्यवस्थाप्यातिप्रसङ्गवारणायाह। एवं च संकिलिहा, माइट्ठाणम्मिणिच तलिच्छा। आजीवियभयगत्था, मूढाणो साहुणो णेया।। 51 // एवं चोक्तनीत्या संज्वलनव्यतिरिक्त कषायोदयेन श्रमणत्वमित्येवंल क्षणया संक्लिष्टाः संक्लिष्टचित्ताः कषायान्तरोदयान्