________________ कप्प 225 - अमिधानराजेन्द्रः- भाग 3 कप्प या निःशेषविशेषविज्ञजनताचेतश्चमत्कारिणी। तस्याः श्रीविजयेन्दुसूरिसुगुरोर्निष्कृत्तिमायागुपश्रेणेः स्याद्यदिवास्तवस्तवकृतौ विज्ञः स वाचां पतिः॥१७॥ सत्पाणिपङ्कजरजःपरिभूतशीर्षाः, शिष्यास्त्रयो दधति संप्रति गच्छभारम्। श्रीवज्रसेन इति सद्गुरूरादिमोऽभूत, श्रीपद्मचन्द्रसुगुरुस्तु ततो द्वितीयः।। 18 // तार्तीयीकस्तेषां, विनेयपरमाणुरनणुशास्त्रेऽस्मिन् / श्रीक्षेमकीर्तिसूरिर्विनिर्ममे विवृतिकल्पमिति // 16 // श्रीविक्रमतः क्रामति, नयनाग्निगुणेन्दुपरिमिते ( 1332) वर्षे / ज्येष्ठश्वेतदशम्या, समर्थितैषा च घस्रार्के।।२०।। प्रथमादर्श लिखिता, नयप्रभप्रभृतियतिभिरेषा। गुरुग्रन्थे गुरुभक्ति-भरोदहनादानमितशिरोभिः॥२१॥ इह चसुत्रादर्शषु, यतो भूयस्यो वाचना विलोक्यन्ते। विषमाश्च भाष्यगाथाः, प्रायः स्वल्पाश्च चूर्णिगिरः // 22 // ततः सूत्रे वा भाष्ये वा,यन्मतिमोहान्मयाऽन्यथा किमपि। लिखितं वा विवृतं वा, तन्मिथ्यादुष्कृतं भूयात्॥ 23 // 1 व्य०६ उ०। व्यवहारे, अनुष्ठाने, सूत्र०१श्रु०३ अ०२ उ०। कल्पत इति कल्पः। न्याय्ये, विधौ, आचारे, चरणकरणव्यापारे, आव० 4 अ०। सततासेवनीये समाचारे, जी०१प्रति०।कल्पो नीतिमर्यादा विधिः सामाचारीत्यर्थः / पं०व० / ज्ञा० / आ० म० द्वि० / स्था० / विशे० / जीतं स्थितिमर्यादा व्यवस्थेति हि पर्यायाः। नं० पं० व०। पंचा०। पं० चू०। सच स्थितास्थितभेदाद्अनेकधा भिन्नः। पंचा०। अनन्तरप्रायश्चित्तमुक्तं तच स्थितादिकल्पयुताः साधवो ददति वहन्ति चेति स्थितादिकल्पस्वरूपं विभणिषुर्मङ्गलाद्यभिधानायाह। णमिऊण महावीरं, ठियादिकप्पं समासओ वोच्छं। पुरिमेयरमज्झिमजिणविभागए तो वयणनीतीए॥१॥ नत्वाऽभिवन्द्य महावीरं वर्द्धमानजिनं स्थितादिकल्पमवस्थितानवस्थितसमाचारं समासतः संक्षेपेण वक्ष्येऽभिधास्ये (पुरिमेत्ति) पूर्वः प्रथम इतरोऽन्तिमः मध्यमाः शेषा द्वाविंशतिस्ते च ते जिनाश्च तैयाँ विभागः स्थितादिविभजनं स तथा ततः पूर्वेतरमध्यमजिनविभागतः इह च मध्यमग्रहणस्योपलक्षणत्वाद्विदेहजिनसंग्रहो दृश्यो यतो वक्ष्यति " एवं खु विदेहजिणकप्पीति" वचननीत्या कल्पादिस्तत्र न्यायेनेति गाथार्थः / तत्र स्थितकल्पप्रतिपादनायाहदसहा होइ उ कप्पो, एसो पुरिमेयराण ठियकप्पो। सययासेवणभावाट्ठियकप्पो णिचमज्जाया॥२॥ दशधा दशभिः प्रकारैरुद्यतः सामान्येन स चाचेलक्यादिर्वक्ष्यमाणः / तुशब्दः पुनरर्थः भिन्नक्रमश्वकल्पोव्यवस्थाएषतुएषपुनः सामान्यकल्पः पूर्वेतराणामादिमान्तिमजिनसाधूनां स्थितोकल्पोऽवस्थितकल्प उच्यते कुतः सततासेवनभाषानिरन्तरावरणसद्भावादिति / तत्त्वत एतन्निरूप्यायैनमेव पर्यायत आह। स्थितकल्पो नित्यमर्यादति गाथार्थः / अथ किमयं नित्यमासेव्यत इत्याहततिओसहकप्पो यं, जम्हा एगंततो उ अविरूद्धो। सययं पि कन्नमाणो, आणाओ चेव एतेसिं॥३॥ तृतीयौषधकल्पो वक्ष्यमाणौषधतुल्योऽयमेव स्थितकल्पो यस्माद्यतो हेतोरेकान्ततस्तु सर्वथैवाविरूद्धो युक्तः शुभरूपत्वात् सततमपि सदाऽप्यास्तां कदाचित् क्रियमाणो विधीयमानः / अथ मध्यमानामपि तथा भविष्यतीत्याह आज्ञात एवागमादेवैतेषां सर्वेषां जिनसाधूनाम् आज्ञावीजं च ऋजुजडत्वादिकं वक्ष्यमाणमिति गाथार्थः / तृतीयौषध-- प्रतिपादनायाहवाहि भवणेइ भावे, कुणइ अभावे तयं तु पढमं ति। वितियभवणेति न कुणति, तइयं तु रसायणं होति // 4 // किल कस्यचिन्नरपतेः पुत्रोऽत्यन्तवल्लभो बभूव सच तस्य सततारोग्यसंपादनाय आयुर्वेदविशारदविविधवैद्यानाहूयोवाच / भो ! भिषग्वरा ! मम तनयस्य यथा रूजो न भवन्ति तथा यतध्वमेते च तद्वचस्तथैव प्रतिपन्नयन्तस्ततश्च ते यथोपदेशमौषधानि संस्कृत्य राजानमुपतस्थुः। राजा च तान् प्रत्येकमौषधगुणान् पप्रच्छ तेऽपि तान् क्रमेणाचख्युस्तत्र च व्याधिं रूजमपनयत्यपहरति प्रयुज्यमानं भावे ध्याधेरिति गम्यते। तथा करोति विधत्ते अभावे पुनधेिरसद्धावे तत्कं व्याधिं तुः पुनरर्थो योजित एव प्रथममाद्यमिदमौषधमिति शब्दः समाप्तौ। तथा हि द्वितीयमौषधमपनयति हरति व्याधि सन्तमसन्तं तु न करोतिन विधत्ते। तथा तृतीयं तु तृतीयं पुनरौषधं व्याधि सन्तं हत्वा असन्तं चाकृत्वा रसायन भवति। वयस्तम्भादिगुणाकरं स्यादिति गाथार्थः / एवं दृष्टान्तमभिधाय दार्शन्तिकाभिधानायाहएवं एसो कप्पो, दोसाभावे वि कज्जमाणो उ। सुंदरभावा तु खलु, चारित्तरसायणं णेओ॥५॥ एवमिति तृतीयौषधवदेषोऽनन्तरोक्तः कल्पः स्थितकल्पो दोषाभावेऽप्यपराधासत्वेयप्यास्तां दोषसद्भावे क्रियमाणो विधीयमानः सन् तुः पाद पूरणे सुन्दरभावात् खलु शोभनत्वादेव चारित्रस्य चरणशरीरस्य रसायनमिव पुष्टिकरणाचारित्ररसायनं ज्ञेयोऽवसेय इति गाथार्थः / दशधा यतः कल्प इत्युक्तमथैमदर्शनायेदमाह। आचेलकुद्दोसिय, सिजायररायपिंडकिइकम्मे। वयजेट्ठपडिझमणे, मासं पोसवणकप्पो // 6 // अविद्यमानं चेलं वस्त्रं यस्यासावचेलकस्तद्भाव आचेलक्यम् उद्देशेन साधुसंकल्पेन निवृत्तमौद्देशिकमाधाकर्मशय्याया वसत्या तरति संसारसागरमिति शय्यातरः स च राजा च नृपश्चक्रवयादिस्तयोः पिण्डः समुदानमिति शय्यातरराजपिण्डः कृतिकर्म वन्दनकमेतेषां च समाहार-- द्वन्द्रत्वात्सप्तम्येकवचनम्।ततश्चाचेलक्यादिषु यथास्वं विधिनिषेधाभ्यां स्थितास्थिताः साधवो भवन्तीत्यतोऽयमोघकल्पः / एतेष्वेव च प्रथमचरमजिनसाधवः स्थिता एवेति स्थितकल्पस्तेषां तथा व्रतानि महाव्रतानि ज्येष्ठो रत्नाधिकः प्रतिक्रमणमावश्यककरणं सप्तम्येकवचनं प्राग्वत् (मासमिति ) प्राकृतत्वादनुस्वारः परि सर्वथा वसनमेकनिवासो निरुक्तविधेः पर्युषणमेतद्वयलक्षणः कल्प आचारः मासपर्युषणकल्पस्तत्रच स्थितास्थित इत्यादि इतिगाथासमासार्थः। उक्तः स्थितकल्पः। अथास्थितकल्पाभिधानायाहसुअअडिओ उ कप्पो, एतो मज्झिमजिणाण विण्णेओ। णो सययसेवणिज्जो, अणिचमेरासरूवो त्ति // 7 // षट्सु दर्शयिष्यमाणरूपेषु पदेषु अस्थितस्तु अनवस्थितः पुनः