SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ कप्प 224 - अमिधानराजेन्द्रः - भाग 3 कप्प भूतस्य स्थिति कल्पनीयविवर्जनरूपा ज्ञात्वा गुरूपदेशेन सम्यगवगमादीन् श्रद्दधीत प्रतीतिपथमारोपयेत् न केवलं श्रद्दधीत किंतु करणयुक्तोऽनुष्टानसंपन्नो भवेत् तस्यात्मैवं सम्यग्ज्ञानश्रद्धानचारित्रसमन्वितः साक्षात्प्रवचनविधिर्मवति / यथा समुद्रो रतनिधिर्भवति एवमसावपि ज्ञानादिरतमयस्य प्रवचनस्य विधिरित्यर्थः। स च प्रवचनविधिः / सुष्ठ प्रयतेनात्मसंयमविराधनाभ्यो रक्षितः सन्निह परभवविस्तरफलदो भवति / इह भवे विस्तरेण चरणवैक्रियामथौषधिप्रभृतिविविधलब्धिरूपं फलंददाति परभवेऽप्यनुत्तरविमानाद्युपपातस्सुकुलं प्रत्यायातिप्रभृतिक विस्तरेण फलं प्रयच्छति / अथेदं कल्पाध्ययनं कस्य न दातव्यं को वाऽपात्राय ददतो दोषो भवतीत्यत आह। भिण्णरहस्सेव णरे, णिस्साकरए व मुक्कजोगीव। छविहगतिगुविलम्मि,सो संसारे भमति दीहे।। इहापवादपदानिरहस्यमुच्यते भिन्न प्रकाशितमयोग्यानां रहस्यं येन स भिन्नरहस्यः अगीतार्थानामपवादपदानि कथयतीत्यर्थः। तत्रैवंविधे नरे तथा निश्राकारो नामयः किंचिदपवादं लब्ध्वा तदेव निश्रां कृत्वा भणति यथैतदेवं करणीयं तथाऽन्यदप्येवं कर्तव्यं तत्र / तथा मुक्ताः परित्यक्ता योगा ज्ञानदर्शनचारित्रतपोविषया व्यापारा येन स मुक्तयोगी ईदृशे अपात्रे न दातव्यं यस्तु ददाति स षधिगतिगुविले पृथिवीकायादिउसकायान्तषट्कायपरिभ्रमणगहने दीर्घ अपारे संसारे भ्राम्यति / अथ कीदृशस्य दातव्यं को वा पात्रे ददतो गुणो भवतीत्यत आह। अरहस्सधारए पारए, असठकरणो तुलासमे समिते। कप्पाणुपालणादी-वणे य आरोहणच्छिन्नसंसारी। नास्त्यपरं रहस्यान्तरं यस्मात्तदरहस्यमतीव रहस्यं छेदशास्वार्थतत्वमित्यर्थः / तथा धारयति अपात्रेभ्यो न प्रयच्छति यः स रहस्यधारकः / पारगः सर्वस्यापि प्रारब्धश्रुतस्य पारगामीनपल्लवग्राही। असठकरणो नाम मायावियुक्तो भूत्वा यथोक्तं विहितानुष्ठानं करोति / तुलासमोनाम यथा तुला समस्थितान मार्गतो नवा पुरतो नमति एवं यो रागद्वेषविमुक्तो मानापमानसुखदुःखादिषु समः स तुलासम उच्यते। समितः पञ्चभिः समितिभिः समायुक्तः एवं विधगुणोपेतस्येदमध्ययन दातव्यमा एवंददता कल्पस्य भगवदुक्तस्य श्रुतदानविधेरनुपालना कृता भवति। अथवा कल्पे कल्पाध्ययने यद्भणितं तस्यानुपालनां यः करोति तस्य दातव्यम्। एवं कुर्वता दीपना अन्येषामपि मार्गस्य प्रकाशना कृता भवति। यथाऽन्यैरपि एवंगुणवते शिष्याय श्रुतप्रदानं कर्तव्यम्। अथवा (दीवणत्ति) यो योग्यविनेयानां दीपनामनालस्येन व्याख्यानं करोति तस्येदंदातव्यम्।यदिवा दीपना नाम उत्सर्गयोग्यानामुत्सर्गदीपयति। अपवादयोग्यानामपवादं दीपयति / उभयोर्योग्यानामुभावपि दीपयति। प्रमादिनां वा दोषान् दीपयति अप्रदादिनां गुणान् दीपयति / य एतस्यां कल्पानुपालनायां दीपनायांच वर्तते तस्य ज्ञानदर्शनचारित्रमयी जघन्या मध्यमोत्कृष्टा वाऽऽराधना भवति / ततश्चाराधना छिन्नशरीरी भवति। संसारसंततेर्व्यवच्छेदं करोति तस्यांचव्यवच्छिन्नायां यत्तदक्षयमव्याबाधमपुनरावृत्तिकं स्थानं तत्प्राप्नोतीत्युक्तोऽनुगमः।बृ०६उ०पत्र०५०६ / नन्दीसंदर्भमूले सुदृढतरमहापीठिकास्कन्धबन्धे, तुङ्गोद्देशाख्यशाख्ये दलकुसुमसमैः सूत्रनियुक्तिवाक्यैः। सान्द्रे भाष्यार्थः सार्थामृतफलकलिते कल्पकल्पद्रुमेऽस्मिन्नाक्रष्टुं षष्ठशाखाफलनिवहमसावंकुशीवाऽस्तुटीका / / 6 / / समाप्ता चैयं सुखावबोधिनीनामकल्पाध्ययनटीका। सौवर्णा विविधार्थरत्नकलिता एतेषडुद्देशकाः, श्रीकल्पेऽर्थनिधौ मताः सुकलशा दौर्गत्यदुःखापहाः। दृष्ट्वा चूर्णिसुवीजकाक्षरततिं कुश्याथ गुर्वाज्ञया, नीता खातममी मया मतिमतामर्थाः स्फुटार्थीकृताः // 1 // श्रीकल्पसूत्रममृतं विवुधोपयोगयोग्यं जरामरणदारुणदुःखहारि। येनोद्धृतं मतिमता मथितात् श्रुताब्धेः, श्रीभद्रबाहुगुरवे प्रणतोऽस्मि तस्मै॥२॥ येनेदं कल्पसूत्रं कमलमुकुलवत्कोमलं मञ्जुलाभिगोभिर्दोषापहाभिः स्फुटविषयविभागस्य संदर्शिकाभिः। उत्फुल्लोद्देशपत्रंसुरसपरिमलोद्रारसारं वितेने, तं निःसंबन्धबन्धुं नुतमुनिमधुपं भास्करं भाष्यकारम्।।३।। श्रीकल्पाध्ययनेऽस्मि-न्नतिगम्भीरार्थभाष्यपरिकलिते। विषमपदविवरणकृते , श्रीचूर्णिकृते नमः कृतिने // 4 // श्रुतदेवताप्रसादा-दिदमध्ययनं विवृण्वता कुशलम्। यदवापि मया तेन, प्राप्नुयां बोधिमहममलम् // 5 // गमनयगभीरनीर-चित्रोत्सर्गापवादवादोर्मिः। युक्तिशतरत्नरम्यो जिनागमो जलनिधिर्जयति // 6 // श्रीजैनशासननभस्तलतिग्मरश्मिः, श्रीपद्मचन्द्रकुलपद्मविकाशकारी। स्वज्योतिरावृतदिगम्बरमम्बरोऽभूत्, श्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्याम्॥७॥ श्रीमचैत्रपुरैकमण्डनमहावीरप्रतिष्ठाकृतस्तस्माचैत्रपुरप्रबोधतरणिः श्रीचैत्रगच्छोऽजनि। तत्र श्रीभुवनेन्द्रसूरिसुगुरुभूभूषणं भासुरज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणाऽभवत्।।६।। तत्पादाम्बुजमण्डनं समभवत्पक्षद्वयीशुद्धिमानीरक्षीरसदृक्षदूषणगुणत्यागग्रहैकद्रुतः। कालुष्यं च जडोद्भवं परिहरन्दूरेण सन्मानस-- स्थायी राजमरालवद्रणिवरः श्रीदेवभद्रः प्रभुः // 11 // शिष्टाः शिष्यास्त्रयडतत्पदसरसिरुहोत्सङ्गशृङ्गारभृङ्गा, विध्वस्तानङ्गसङ्गाः सुविहितविहितोत्तुङ्गरङ्गा बभूवुः। तत्राद्यः सच्चरित्रानुमतिकृतमतिः श्रीजगचन्द्रसूरिः, श्रीमद्देवेन्द्रसूरिः सरलतरलसच्चित्तवृत्तिर्द्रितीयः।। 12 // तृतीयशिष्याः श्रुतवारिवार्द्धयः, परीषहाक्षोभ्यमनःसमाधयः। जयन्तिपूज्या विजयेन्दुसूरयः, परोपकारादिगुणौधसूरयः // 13 // प्रौढं मन्मथपार्थिवं त्रिजगतीजैत्रं विजित्येयुषां, येषां चैत्रपुरेण तत्र महसा प्रक्रान्तकान्तोत्सवे। स्थैर्य मेरुरगाधतांचजलधिः सर्वसहत्वं मही, सोमः सौम्यमहर्पतिः किल महत्तेजोऽकृत प्राभृतम्॥१४॥ चापं चापं प्रवचनवचो वीजराजी विनेथक्षेत्रे शुद्ध सुपरिमलिते शब्दशास्त्रादिसारैः / यैः क्षेत्रज्ञैः शुचिगुरुजनानायवाक्सारिणीभिः, सिक्त्वा तेने सुजनहृदयानन्दि संज्ञानसत्यम् / / 15 // यैरप्रमतैः शुभमन्त्रजापै-बेतालमाधाय कलिं स्ववश्यम्। अतुल्यकल्याणमयोत्तमार्थः, सत्पूरुषः सत्वधनैरसाधि॥ 16 // किं बहुना // ज्योत्स्नामञ्जुलभूतया धवलितं विश्वम्भरामण्डलं,
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy