________________ कप्प 223 - अभिधानराजेन्द्रः - भाग 3 कप्प त्वयुक्तस्य बुद्धिः किं करोतिसत्त्वेनैव कार्यसिद्धेः किंवा त्वया कदाचिदियं कथा नैव श्रुता यथा वसुन्धरेयं वीरभोग्या तदुक्तम्।" नेयं कुलक्रमायाता, शासने लिखिता न वा / खङ्गेनाक्रम्य भुञ्जीत, वीरभोग्या वसुन्धरा" अथ शीर्षकमाह। असंसयं तं असुणाण मग्गं, गता विधाणे दुरतिक्कमम्मि। इमं तुमे वाहति वामसीले, अण्णे विजं काहिसि एकघातं / / असंशयं निस्सन्देहं त्वमज्ञानां मूर्खाणां मार्गमात्मोपघातरूपं गता। क्व सतीत्याह। विधाने दुरतिक्रमे सति विधानं नाम यद्येन यदा प्राप्तव्यं तद् दुरतिक्रमं नान्यथा कर्तुं शक्यते / उक्तं च " बुद्धिरुत्पद्यते तादृक्, व्यवसायाश्च तादृशाः। सहायास्तादृशाज्ञेया, यादृशी भवितव्यता" अत एव तदवश्यंभावितया नास्मन्मनो दुनोति परं वामशीले ! प्रतिकूलं एव गामिनि / मामिदमेव धाधते यदज्ञानादात्मव्यतिरिक्तानस्मादृशानेकघातं करिष्यसि आत्मना सह मारयसीति भावः। सा मंदबुद्धी अहसीसकस्स, सच्छंदमंदा वयणं अकाउं। पुरस्सरा होतु मुहुत्तमेत्तं, अपेयचक्खू सगडेण खुण्णा // सा पुच्छिका मन्दबुद्धिः सदुद्धिविकला / अथानन्तरं शीर्षकस्य वचनमकृत्वा स्वच्छन्दमतिप्रवृत्ता मन्दा गमनक्रियायामलसा बला मौटिकया पुरस्सराभूत्वागन्तुंप्रवृत्ताः। ततः किमभूदित्याह। अपेतचक्षुलॊचनरहिता सा पुरो गच्छन्ती मुहूर्तमात्रेण शकटेन क्षुण्णा आक्रान्ता विपत्तिमुपगता एष दृष्टान्तः। अयमर्थोपनयः। जे मज्झदेसे खलु देसगामा, अतिप्पियं ते सुभयं तु तुम्म। सक्खण्णहिंडेहिं सुताविया मो,अम्हं पि तो संपइ होउ छंदो। ये अगीतार्थाः शिष्यास्ते आचार्यान् भणन्ति भदन्त ! ये खलुमध्यदेशे आर्यक्षेत्रे देशा मगधादयो ग्रामाश्च तत्प्रतिबद्धास्तेषु भगवतामतिप्रियमतीवविहर्तु रोचते परंवयमेषु देशेषु रूक्षान्नमात्रलाभेन हिण्डनया चेतस्ततः परिभ्रमणरूपया सुष्ठतिशयेन तापिता दग्धांशदेहाः संजाताः अतोऽस्माकमपितावत्संप्रति छन्दो भवतु स्वच्छन्देन यत्र यत्र रोचते तत्र विहरिष्यामः इति / गुरवो ब्रुवते। देहोवही तेणगसादगेहि, पदुद्रुमेत्तेहि य तत्थ तत्थ। जता परिन्भंस धुअंतदोस, तदा विजाणस्सह मे विसेसं // भो भद्रा ! यूयं प्रत्यन्तदेशे विहरन्तो यदा देहस्तेनैः शरीरहरैरुपधिस्तेनैरुपकरणहरैः श्वापदैःसिंहव्याघ्रादिभिःप्रद्विष्टास्तैस्तैश्च तत्र तत्रोपहृताः सन्तः संयमात्मविराधनादिना परिभ्रंशमाप्स्यथ ततो विज्ञास्यथ मे मदीयं विशेष यथा दानशोभनं कृतमस्माभिः यदेवं गुरूणां वचनमनवगणय्य स्वच्छन्दसा विहारः कृत इति / यस्तु गणधरो न जानाति जानानो वा शिष्याणां मार्ग नोपदिशति स तेषामनुवृत्त्या सन्मार्गमतिक्रम्यानार्यदेशे विहरन् तैरेव शिष्यैः सह विनाशमाविशति यथा सर्पशीर्षकं पुच्छिकासहितं विनष्टमिति। अथ वैद्यपुत्रदृष्टान्तमाह। वेज्जस्स एगस्स अहेसि पुत्तो,मतम्मि ताते अणधीयविज्जो। गंतुं विदेसं अह सो सिलोगं, घेत्तूणमेगं सगदेसमेति // एकस्य वैद्यस्य पुत्र आसीत्। सच ताते पितरि मृते सति अनधीतविद्य इति कृत्वा राज्ञः सकाशाद्वृत्तिं न लभते। ततो वैद्यकशास्त्रपठनार्थ विदेशं गत्वा तत्र कस्यापि वैद्यस्यपार्श्वे एकं श्लोकं श्रृणोति स्म। "पूर्वाह्न वमनं दद्यादपराह्ने विरेचनम् / वान्तिकेष्वपि रोगेषु, पथ्यमाहुर्विशोषणम्।" ततस्तेन चिन्तितं हुं ज्ञातं वैद्यरहस्यम् / अतः किमर्थमव तिष्ठामीति। अथान्तरंमसौ श्लोकं गृहीत्वा स्वकमात्मीयं देशसुपैति! अहागतो सो उभयम्मि देसे, लद्धण तं चैव पुराणवित्तिं / रण्णो नियोगेण सुते विगिच्छं, कुय्वंतु तेणेव समं विणहो / / अथानन्तरं स वैद्यपुत्रः स्वके देशे समागतः सन् राज्ञः समीपे तामेव चतुराणां वृत्तिं लब्ध्वा अन्यदा राज्ञो नियोगेन सुतस्य राज्ञः पुत्रस्य पूर्वोक्तश्लोकप्रमाणेन चिकित्सां कर्तभारब्धवान्। ततोऽसौ राजपुत्रस्तदीयया अप्रयोगक्रियया विनष्टः राज्ञाचापरे वैद्याः पृष्टाः किमेतेन सम्यकप्रयोगेण क्रिया कृता उतापप्रयोगेणेति ततोऽसौ तेन राज्ञा शरीरेण दण्डेन दण्डितः एवमाचरिते राजपुत्रेण समं विनष्ट इत्युक्त एष दृष्टान्तः / अथ गाथोपनयः। यथाऽसौ वैद्यपुत्र एकभविकं मरणमनुप्राप्तः एवं य आचार्य इदं कल्पाध्ययनं न जानाति एकदेश वा जानन् गणं परिवर्तयति स गम्भीरसंसारसागरंपरिभ्रमन्ननेकानिजनितव्यमर्तव्यानि प्राप्नोति। (0 10) प्रथमोद्देशकसमाप्तौ काव्यम्। कल्पे माणिक्यकोशे जिनपतिनृपतेः सूरिभिस्तन्नियुक्तैस्तस्यैवान्यैकतानैर्नयपथनिपुणैश्चित्यमानाधिकारे। पेटा उद्देशकाः स्युः पडिह गहनता मुद्रिता अर्थरतैः, पूर्णा सूत्राद्यपेटाप्रकटनविषये कुश्चिकैषाऽस्तु टीका / / द्वितीयोद्देशकसमाप्तौ काव्यम्। द्वैतीयीकोद्देशकोऽयं मयापि, स्पष्टीचक्रे सद्गुरूणां प्रसादात्। सूते नाम्भोविन्दुनिस्यन्दमिन्दु-प्रावश्चन्द्रज्योत्स्नया चुम्बितः किम्। तुतीयोद्देशक समाप्ते काव्यम्। चूर्णीवचोभिः फलकैः सुयोजितै-गुरुप्रतिष्ठानयुतैःससूत्रकैः / तृतीयकोद्देशकवारिधिं सतां, तरी तरीतुं विधृतिः कृता मया / / चतुर्थोद्देशकस्यान्ते काव्यम्। श्रीचूर्णिकारवदनाब्जवयोमरन्दनिष्पन्दपारणकपीवरपेशलश्रीः। उद्देशके मम मतिभ्रमरी तुरीये, टीकामिषेण मुखरत्वमिदं वितेने।। पञ्चमोद्देशकस्यान्ते काव्यम्। श्रीमच्चूर्णिवचांसि तन्तव इह ज्ञेयास्तथा सद्गुरोराम्नायेनलकस्तुरीबुधजनो यास्त्युद्भव चातुरी। इत्येतैर्विततान साधकतमैः श्रीपञ्चमोद्देशके, जाड्यापोहपटीयसीमहमिमामच्छिद्रटीकापटीम्॥ संप्रति प्रस्तुतशास्त्रोक्तविधिवपरीत्यकारिणमपायान् दर्शयन्नाह। पलंबादी जाव ठिता, उस्सग्गववातियं करेमाणो। अववाते उस्सग्गं, आसायणदीहसंसारी॥ प्रलम्बसूत्रादारभ्य यावदिदं षड्विधकल्पस्थितिसूत्रं तावद्य उत्सर्गापवादविधिः सूत्रतोऽर्थतश्चोक्तस्तत्रोत्सर्गे प्राप्ते आपवादिकी क्रियां कुर्वाणोऽर्हतामाशातनायां वर्तते अर्हत्प्रज्ञप्तस्य धर्मस्य शातनायां वर्तते आशातनायां वर्तमानो दीर्घसंसारी भवति यस्मात् प्रलम्बसूत्रादारभ्य षड्विधकल्पस्थितिसूत्रं यावदुत्सर्गे प्राप्ते उत्सर्गः कर्तव्यः अपवादे प्राप्ते अपवादविधिर्यतनया कर्तव्यः / एवं कुर्वतां गुणमाह / छविह कप्पस्स ठिति, नाउंजो सहहे करणहुत्तो। पवयणविहीसुरक्खि-तो इह परभववित्थरप्फलदो।। षड्डिधकल्पस्य सामायिकादिरूपस्य प्रस्तुतशास्त्रार्थसर्वस्व