________________ कप्प २२०-अभिधानराजेन्द्रः - भाग 3 कप्प त्रि० मुद्रवृक्षे, पुं० वैध०। तस्य कर्दमसमीपजातत्वात्तथात्वम्। पृषोद० कमीत्यपि तत्रार्थे वाच०। कद्दमउवमा-स्त्री० (कर्दमोपमा ) कर्दमसादृश्ये, “अहवा जं भुक्खत्तो कद्दमउवमाइ पक्खिवइ कोटे सव्वो सो आहारो अप्पा वा" बुभुक्षया आर्ताय कर्दमोपमया गृहादिकोष्ठे प्रक्षिपति कर्दमोपमानामपि कर्दमपिण्डानां कुर्यात् कुक्षि निरन्तरं स सर्वोऽप्याहारः बृ०६ उ०। कद्दमग-त्रि० ( कर्दमक ) कर्दमे कायति प्रकाशते कै कशालिभेदे, वाच० / जम्बूद्वीपस्य बाह्याद् वेदिकान्ताद् आग्रेय्यां विदिशि द्वाचत्वारिंशद्योजनातिक्रमे विद्युत्प्रभविद्युज्जिह्वस्यानुबेलन्धरावासपर्वतस्याधिपतौ देवे, स्था० 4 ठा०। जी०ालवणसमुद्रे, आग्नेय्यां विद्युत्प्रभपर्वतस्तत्र कर्दमको नाम नागराजः भ०६ उ०३ श०। कद्दमलित्त-त्रि०(कर्दमलिप्त)३त०पड़ेन लिप्ते खरण्टिते,बृ०१3०। कधं-अव्य० (कथम् ) थो धः ||8| 1267 / थस्य धः शौर सेन्याम् / केन प्रकारेणेत्यर्थे ,प्रा०। कधितून-अव्य० (कथयित्वा)पैशाच्यां क्त्वस्तूनः 1141312 / इति त्वा प्रत्ययस्य स्थाने तून इत्यादेशः उक्त्वेत्यर्थे, 1 प्रा०। कप्प-पुं० (कल्प ) कृप-णिच् अच् समर्थे, यथा वर्षाष्टमप्रमाणश्चरणपरिपालने कल्पः समर्थः इत्यर्थः / बृ०१ उ०। केवलकल्पं केवलःपरिपूर्णः सचासौ कल्पश्चस्वकार्यकरणे समर्थः इति केवलकल्पःकेवल एव वा कल्पःतंज्ञा०१३ अ०। वर्णानायाम्,यथाऽध्ययनमिदमनेन कल्पितं वर्णितमित्यर्थः वृ०१ उ०! कल्पनायाम, स्था०७ ठा० / छेदने, यथा केशान् कर्तर्या कल्पयति छिनत्तीत्यर्थः बृ० / नि० चू० / आचा० / करणक्रियायाम, यथा कल्पिता मयाऽस्या जीविका कृता इत्यर्थः / बृ० 1 उ० / आचारे, स्था० 3 ठा०। औपम्ये, यथा सौम्येन तेजसा च यथाक्रममिन्दुसूर्यकल्पाः साधवः बृ०१ उ०ा केवलकल्पं केवलोपमम् इह कल्पशब्द औपम्ये गृह्यते इति आ० म०प्र० / “उग्गते य कप्पा" कल्पाः सदृशाः प्रश्न०२ सं० द्वा० 2 अ० / अधिवासे, यथा सौधर्मकल्पवासी शक्रः सुरेश्वरः उक्तंच “सामर्थ्य वर्णनायां च, छेदने करणे तथा / औपम्ये चाधिवासे, च कल्पशब्दं विदुर्बुधाः " वृ०। पं० भा० / आ० म० द्वि० / स्था० / कल्पाध्ययननामके छेदग्रन्थविशेषे, जी०१ प्रति० / इह सर्वेष्यप्यर्थेषु गृह्यते सर्वत्रापि घटमानत्वात्तथा हि सामर्थ्य तावदेतावदेतत्कल्पाध्ययनमधीत्यातीचारमलिनस्य साधोः समर्थः प्रायश्चित्तेन विशोधिमापादयितुंवर्यतेऽपियावन्तः प्रायश्चित्तप्रकारास्तान् वर्णयतीदमध्ययनम् / अथवा मूलगुणांश्च कल्पयति वर्णयतीति कल्पः / उकंच “कप्पम्मि कप्पिया खलु, मूलगुणा चेव उत्तरगुणा य / ववहारे वहरिया, पायच्छित्ता भंवते य" छेदनेऽपि तपःशोधिमतिक्रान्तस्य पञ्चकादिच्छेदनेन पर्यायं छिनत्ति करणेऽपि यद्दत्तं प्रायश्चित्तं तत्र तथा प्रयत्न करोति कल्पाध्ययनवेत्ता यथा तत्पारं नयति / अथवा कल्पयति जनयत्याचार्यकमिति कल्पस्तथाहि करोत्याचार्यकं कल्पाध्ययनवेत्ता सम्यगिति औपम्येऽपिकल्पाध्ययनवेदनात् भवति पूर्वधराणां कल्पसदृश इति कल्पस्तथाहि करोत्याचार्यकं कल्पाध्ययनेऽधीते भवति पूर्वधरसदृशः प्रायश्चित्तविधावाचार्यः / अधिवासेऽपि कल्पाध्ययनवेत्ता कल्पे मासकल्पे वर्षाकल्पे वा कारणमन्तरेण परिपूर्ण कारणवशत ऊनमतिरिक्तं च / अथवा कल्पे स्थविरकल्पे जिनकल्पे वाधिवसतीति कल्पः बृ० 1 उ० (कल्पव्यवहाराध्ययनयोर्भेदोववहारशब्दे) अस्य चैवमुपोद्धातः। प्रकटीकृतनिःश्रेयस-पदहेतुस्थविरकल्पजिनकल्पम् नमा शेषनरामर-कल्पितफ्लकल्पतरूकल्पम् / / 1 / / नत्वा श्रीवीरजिनं, गुरुपदकमलानि बोधविपुलानि। कल्पाध्ययनं विवृणोमि, लेशतो गुरुनियोगेन।॥ 2 // भाष्यं क्व चातिगम्भीरं, क्व चाहं जडशेखरः। तदत्र जानते पूज्या, ये मामेवं नियुज्यते॥३॥ अद्भुतगुणरत्ननिधौ, कल्पे साहायकं महातेजाः। दीप इव तमसि कुरुते,जयति यतीशः स चूर्णिकृत् / / 4 / / इह शिष्याणां मङ्गलबुद्धिपरिग्रहाय शास्त्रस्यादौ मध्येऽवसाने चावश्यं मङ्गलमभिधातव्यम्।यत आदिमङ्गलपरिगृहीतानि शास्त्राणि पारगामीनि भवन्ति / मध्यमङ्गलपरिगृहीतानि शिष्यबुद्धिष्वारो पितानि स्थिरपरिचितान्युपजायन्ते। पर्यन्तमङ्गलसमलङ्कतानि शिष्यप्रशिष्यपरम्परागमनतः स्फीतीभवन्ति। उक्तंच। तं मंगलमादीए, मज्झे पञ्चंतए स सत्थस्स। पढमं सत्थत्था विग्ध पारगमणाय निद्दिढ / / तस्से व य छिज्जत्थं, मज्झिमयं अंतिम पि तस्सेव। अव्वोच्छित्ति निमित्तं, सिस्सपसिस्सादिवंसस्स। तत्रादिमङ्गलं पापप्रतिषेधत्वादिदं सूत्रम्। " नो कप्पति निग्गंथाणं वा निग्गंथीणं वा आमे तालपलंये अभिन्ने पडिगाहित्तए" इति मध्यमङ्गलम्। “कम्पति निग्गंथाणं वा णिग्गंथीणं वा पुरच्छिमेणंजाव अंगमगाहातो इत्तए" एवमादिपर्यवसानमङ्गलम् “छव्विहा कप्पट्टिती पण्णत्ता" इत्यादि। तचमङ्गलंचतुर्दा वक्ष्यमाण--स्वरूपम्। तत्र यन्नो आगमतो भावमङ्गलं तद् द्विविधं सूत्रभणितं सूत्रस्पर्शिकनियुक्तिभणितंच भाष्यभणितमित्यर्थः / सूत्रस्पर्शिकनियुतेर्भाष्यस्य च संप्रत्येकग्रन्थत्वेन जातत्वात्। अथ कः सूत्रमकार्षीत्। को वा नियुक्ति को वा भाष्यमिति उच्यते। इह पूर्वेषु यन्नवमं प्रत्याख्या-- ननामकं पूर्व तस्य यत्तृतीयमाचाराख्यं वस्तु तस्मिन् विंशतितमे प्रावृते मूलगुणेषु उत्तरगुणेषु वा परार्धेषु दशविधमालोचनादिकं प्रायश्चित्तमुपवतितं कालक्रमणे च दुष्षमानुभावतो धृतिबलवीर्यबुद्ध्यायुःप्रभृतिषु परिहीयमाणेषु पूर्वाणि दुरवगाहानि जातानि ततो मा भूत्प्रायश्चित्तव्यधच्छेद इति साधूनामनुग्रहाय चतुर्दशपूर्वधरेण भगवता भद्रबाहुस्वामिना कल्पसूत्र व्यवहारसूत्रं चाकारि। उभयोरपि च सूत्रस्पर्शिकनियुक्ती इमे। अपिच कल्पव्यवहारसूत्रे सनियुक्तिकेअल्पग्रन्थतया महार्थत्वेन दुष्षमानुभावतो हीयमानमेधाऽयुरादिगुणानामिदानींतनजन्तूनामल्प-- शक्तीनां दुर्गत्वे दुरवधारेजातेततःसुखग्रहणधारणाय भाष्यकारो भाष्यं कृतवान्। तच्च सूत्रस्पर्शिकनियुक्त्यानुगतमिति सूत्रस्पर्शिकनियुक्ति - ध्यं चैको ग्रन्थो जातः / एष शास्त्रस्योपोद्धतोऽनेन चोपोद्धातेनाभिहितेन सूत्रादयोऽर्था व्यक्ता भवन्ति / यथा दीपेनापरवके तमसि उक्तं च “वत्ती भवंति अत्था, दीवेणं अप्पगासउदरए। वत्ती भवंति अत्था, उवघाएणं तहा सत्थे" उपोद्धाताभिधानमन्तरेण पुनः शास्त्रं स्वतोऽतिविशिष्टमपि नतथाविधमुपादेयतया विराजते तथा नभसि मेघच्छन्नश्चन्द्रमाः। उक्तं च “मेघच्छन्नो यथा चन्द्रो, न राजति नभस्तले। उपोद्धातं विना शास्त्र, न राजति तथाविधम् " तत्र सूत्रभणितम् / " नो कप्पति निगंथाणं वा निग्गथीणं वा आमे तालपलंबे" इत्यादि सूत्रस्पर्शिकनियुक्तिभणितमिदम्।