________________ कडवाइ 205 - अभिधानराजेन्द्रः - भाग 3 कडवाइ भावादतिरिच्यते / यचाभ्यधायि स्वयम्भुवोत्पादितो लोक इति तदप्यसुन्दरमेव। यतः स्वयंभूरिति किमुक्तं भवति। किं यदाऽसौ भवति तदा स्वतन्त्रोऽन्यनिरपेक्ष एव भवति / अथादिभवनात्स्वयम्भूरिति व्यपदिश्यते। तद्यादिस्वतन्त्रभवनाभ्युपगमस्तल्लोकस्यापि भवनं किं नाभ्युपेयते किं स्वयंभुवा / अथानादिस्ततस्तस्यानादित्वे नित्यत्वं नित्यस्य चैकरूपत्वात्कर्तृत्वाऽनुपपत्तिस्तथा वीतरागत्वात्तस्य संसारवैचित्र्यानुपपत्तिः। अथसरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्याकर्ता मूर्तामूर्तादिकल्पाश्च प्राग्वदायोज्या इति / यदपि चात्राभिहितम् / तेन मारः समुत्पादितः स च लोकं व्यापादयति तदष्यकर्तृत्वस्याभिहितत्वात्प्रलापमात्रमिति / इदानीमेतेषां देवोप्तादिवादिनामज्ञानत्वं प्रसाध्य तत्फलं दिदर्शयाहअमणुन्नसमुप्पायं, दुक्खमेव विजाणिया। समुप्पायमजाणंता, कहं नायंति संवरं // 10 // मनोऽनुकूलं मनोज्ञंशोभनमनुष्ठानमनोज्ञममनोज्ञमसदनुष्ठानंतस्मादुत्पादः प्रादुर्भावो यस्यदुःखस्य तदमनोज्ञसमुत्पादम्। एवकारोऽवधा-- रणे। स चैवंसंबन्धनीयः। अमनोज्ञसमुत्पादमेव दुःखमित्येवं विजानीयादवगच्छेप्राज्ञः। एतदुक्तं भवति।स्वकृताऽसदनुष्ठानादेव दुःखस्योद्भवो भवति नान्यस्मादित्येवं व्यवस्थितेऽपि सत्यनन्तरोक्तवादिनोऽसदनुष्ठानोद्भवस्य दुःखस्य समुत्पादमजानानाः सन्तोऽन्यत ईश्वरादेर्दुःखस्योत्पादमिच्छन्ति / तचैवमिच्छन्तः कथं केन प्रकारेण दुःखस्य संवरं दुःखप्रतिघातहेतुज्ञास्यन्ति? निदानोच्छेदेन हि निदानिन उच्छेदो भवति / ते च निदानमेव न जानन्ति तत्वमजानानाः कथं दुःखोच्छेदाय यतिष्यन्ते यत्नवन्तोऽपि च नैव दुःखोच्छेदनमवाप्स्यन्त्यपि तु संसार एव जन्मजरामरणेऽष्टवियोगाद्यनेकदुःखवाताघाताद्भूयो भूयोऽरहट्टघट्टीन्यायेनानन्तमपि कालं संस्थास्यन्ते // 10 // सांप्रतं प्रकारान्तरेण कृतवादिमतमेवोपन्यस्यन्नाहसुद्धे अपावए आया, इहमेगेसिमाहियं। पुणो किड्डापदेसेणं, सो तत्थ अवरज्झइ / / 11 // इहास्मिन् कृतवादिप्रस्तावे त्रैराशिका गोशालकमतानुसारिणो येषामेकविंशतिसूत्राणि पूर्वगतत्रैराशिकसूत्रपरिपाट्या व्यवस्थितानि ते एवं वदन्ति।यथाऽयमात्मा शुद्धोमनुष्यभव एव शुद्धाचारो भूत्वा अपगताशेषमलकलो मोक्षेऽपापको भवति। अपगताशेषकर्मा भवतीत्यर्थः। इदमेकेषां गोशालकमतानुसारिणामाख्यातम् / पुनरसावात्माऽशुद्धत्वा-- ऽकर्मकत्वराशिद्वयावस्थो भूत्वा क्रीडया प्रद्वेषेण वा स तत्र मोक्षस्थ एवाऽपराध्यति रजसाऽऽश्लिष्यते। इदमुक्तं भवति / तस्य हि स्वशासनपूजामुपलभ्यान्यशासनपराभवं चोपलभ्य क्रीमोत्पद्यते प्रमोदः संजायते स्वशासनन्यक्कारदर्शनाच द्वेषस्ततोऽसौ क्रीडाद्वेषाभ्यामनुगतान्तरात्मा शनैर्निर्मलपटवदुपभुज्यमानो रजसा मलिनीक्रियते मलीमसश्च कर्मगौरवायः संसारेऽवतरति। अस्यां चावस्थायां सकर्मकत्वात्तृतीयराश्यवस्थो भवति। इह संवुडे मुणी जाए, पच्छा होइ अपावए। वियडंदु जहा मुखो, नीरयं सरयं तहा।। 12 // ( इहेत्यादि ) इहास्मिन् मनुष्यभवे प्राप्तः सन् प्रव्रज्यामभ्युपेत्य | संवृतात्मा यमनियमरतो जातः सन् पश्चादपापो भवति / अपगताशेषकर्मकलङ्को भवतीति भावः / ततः स्वशासनं प्रज्ञाप्य मुक्त्यवस्थो भवति / पुनरपि स्वशासनपूजादर्शनान्निकारोपलब्धेश्च रागद्वेषोदयात्कलुषितान्तरात्मा विकटाम्बुदकवन्नीरजस्कंसद्वातोद्धरेणुनिवहसंपृक्तं सरजस्कं मलिनं भूयो यथा भवति।तथाऽयमप्यात्माऽनन्तकालेन संसारोद्वेगाच्छुद्धाचारावस्थो भूत्वा ततो मक्षिाप्तौ सत्यामकर्मावस्थो भवति / पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीत्येवं त्रैराशिकानां राशित्रयावस्थो भवत्यात्मेत्याख्यातं। उक्तं च" दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमष्यनवधारितभीरूनिष्ठः / मुक्तः स्वयं कृतभवश्व परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यमिति" // 12 // अधुनैतद्दूषयितुमाहएताणुचीति मेधावी, बंभचेरेण ते वसे। पुणो पावाउया सव्वे, अक्खायारो सयं सयं / / 13 // एतान् पूर्वोक्तान् वादिनोऽनुचिन्त्य मेधावी प्रज्ञावान्मर्यादाव्यवस्थितो वा एतदवधारयेत् / यथा नैते राशित्रयवादिनो देवोप्तादिलोकवादिनश्च ब्रह्मचर्ये तदुपलक्षिते वा संयमानुष्ठाने वसेयुरवतिष्ठेरनिति / तथा हि तेषामयमभ्युपगमो यथा स्वदर्शनपूजानिकारदर्शनात्कर्मबन्धो भवत्येवं चावश्यं तद्दर्शनस्य पूजायास्तिरस्कारेण चोभयेन वा भाव्यं तत्संभवाच कर्मोपचयस्तदुपचयाच शुद्ध्यभावः शुद्ध्यभावाच मोक्षाभावः / न च मुक्तानामशेषकर्मकलङ्कानां कृतकृत्यानामपगताशेषयथावस्थितवस्तुतत्यानां समस्तुतिनिन्दानामपगतात्माऽऽत्मीयपरिग्रहाणांरागद्वेषानुषगस्तद्वावाच कुतः पुनः कर्मबन्धस्तस्माच संसारावतरणमित्यर्थः / अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथाऽपि सम्यक् ज्ञानाभावान्नसम्यगनुष्ठानभाज इति स्थितम्। अपिचसर्वेऽप्येते प्रावादुकाः स्वकं स्वकमात्मीयं दर्शनं स्वदर्शनानुरागादाख्यातारः शोभनत्वेन प्रख्यापयितार इति। न च तत्र विदितवेद्येनास्था विधेयेति॥ 13 // पुनरन्यथा कृतवादिमतमुपदर्शयितुमाहसए सए उवहाणे, सिद्धिमेव न अन्नहा। अहो इहेव वसवत्ती, सव्वकामसमप्पिए।॥१४॥ (सएसए इत्यादि) ते कृतवादिनः शैवैकदण्डिप्रभृतवः स्वकीये स्वकीये उपतिष्ठन्तेऽस्मिन्नित्युपस्थानं स्वीयमनुष्ठानं दीक्षा गुरुचरणशुश्रूषादिका तस्मिन्नेव सिद्धिमशेषसांसारिकप्रपञ्चरहितस्वभावमभिहितवन्तो नान्यथा नान्येन प्रकारेण सिद्धिरवाप्यत इति। तथा हि शैवा दीक्षात एव मोक्ष इत्येवं व्यवस्थिताः एकदण्डिकाःपञ्चविंशतितत्वपरिज्ञानान्मुक्तिरित्यभिहितवन्तस्तथान्येऽपि वैदान्तिका ध्यानाध्यनसमाधिमार्गानुष्ठानात्सिद्धिमुक्तवन्त इत्येवमन्ये अपि यथा स्वदर्शनान्मोक्षमार्ग प्रतिपादयन्तीति / अशेषद्वन्द्वोपरमलक्षणायाः सिद्धिप्राप्तेरधस्तात्प्रागपि यावदद्यापि सिद्धिप्राप्तिन भवतीति तावदिहैव जन्मन्यस्मदीयदर्शनोक्तानुष्ठानानुभावादष्टगुणैश्वर्य-सद्भावो भवतीति दर्शयति / आत्मवशं वर्तितुं शीलमस्येति आत्मवशवर्ती वशेन्द्रिय इत्युक्तं भवति तसिौ सांसारिकैः स्वभावैरभिभूयत्ते / सर्वे कामा अभिलाषा अर्पिताः संपन्ना यस्य स सर्वकामसमर्पितो यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीति यावत्। तथा हि। सिद्धे