________________ कडमूढ 204 - अभिधानराजेन्द्रः - भाग 3 कडवाइ कडमूठ-पुं० ( कृतमूढ ) करणं कृतं तेन मूढः / किङ्कर्तव्यताव्याकुले, आचा०१ श्रु०२ अ०॥ कडय-न० ( कटक ) कलाचिकाभरणे, आ० म०प्र० / वलये, स्था०३ ठा० 5 उ० / अनीके, पर्वततटे, पर्वतदेशे, ज्ञा० 1 अ०। कडयंतरिय-पुं० ( कटकान्तरित) कटान्तर्वर्तिप्रच्छन्नरक्षिते, “अन्नो कडयंतरिओ अन्नो पडयंतरे ठविओ" तं०1 कडयणिवेस-पुं०(कटकनिवेश) स्कन्धावारे, स्था०६ ठा०। कडयपल्लल-न० (कटकपल्वल) पर्वततटव्यव-स्थितजलाशयविशेषे, ज्ञा०१ अ०। कडयमद-पुं० (कटकमर्द) सैन्यसंमर्दे,तेन कठकमर्दैन मारणार्थचाज्ञप्ताः अव्यक्तवादिनिहवाः विशे०। स्था०। कडवाइ (ण)-पुं० ( कृतवादिन् ) केनचित् ईश्वरेण प्रधानादिना वा कृतोऽयं लोक इत्येवमभ्युपगमग्रहिले वादिनि, सूत्र०१ श्रु० 1 अ०१ उ०। तेषां मतोपदर्शनायाहइणमन्नं तु अन्नाणं, इहमेगेसि आहियं / देवउत्ते अयं लोए, बंमउत्ते त्ति आवरे / / 5 / / ईसरेण कडे लोए, पहाणाइ तहावरे। जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए॥६॥ इदमिति वक्ष्यमाणं तुशब्दः पूर्वेभ्यो विशेषणार्थः / अज्ञानमिति मोहविजृम्भणमिहास्मिन् लोके एकेषांन सर्वेषामाख्यातमित्यभिप्रायः / किं पुनस्तदाख्यातमिति तदाह / देवेनोप्तो देवोप्तः कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थः / देवैर्वा गुप्तो रक्षितो देवगुप्तो देवपुत्रो वेत्यादिकमज्ञानमिति। तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यर्थः / परे एवं व्यवस्थिताः। तथा हि तेषामयमभ्युपगमः। ब्रह्मा जगत्पितामहः स चैक एव जगदवासीत्तेन च प्रजापतयः सृष्टास्तैश्च क्रमेणैतत्सकलं जगदिति / तथेश्वरेण कृतोऽयं लोकः। एवमेके ईश्वरकारका अभिदधति प्रमाणयन्ति वा सर्वमिदं विमत्यधिकरणभावोपपन्नंनतुभुवनकरणादिक धर्मित्वेनोपादीयते / बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः संस्थानविशेषवत्त्वादिति हेतुः / यथा घटादिरिति दृष्टान्तोऽयं यद्यत्संस्थानविशेषवत्तत्तद्बुद्धिभत्करणपूर्वकं दृष्टम् / यथा देवकुलकूपादि संस्थानविशेषवच मकराकरनदीधराधरशरीरकरणादिकं विवादगोचरापन्नमिति। तस्माद्बुद्धिमत्कारणपूर्वकं यश्च समस्तस्यास्य जगतः कर्ता स सामान्यपुरुषो न भवतीत्यसावीश्वर इति / तथा सर्वमिदं तनुभुवनकरणादिकं धर्मित्वेनोपादीयते / बुद्धिमत्कारणपूर्वकमिति / साध्यो धर्मः कार्यत्वाद्घटादिवत् तथा स्थित्वा प्रवृत्तेस्यिादिवदिति। तथाऽपरे प्रतिपन्ना यथा प्रधानादिकृतो लोकः / सत्वरजस्तमसां साम्यावस्था प्रकृतिः। सा च पुरुषार्थ प्रवर्तते। आदिग्रहणाच प्रकृतेर्महान् ततोऽहंकारस्तस्माच गणः षोडशकस्तस्मादपि षोडशकात्पञ्चभ्यः पञ्च महाभूतानीत्यादिकया प्रक्रियया सृष्टिर्भवतीति / यदि वा आदिग्रहणात्स्वभावादिकं गृह्यते / ततश्वायमर्थः / स्वभावेन कृतो लोकः कण्टकादितैक्षण्यवत्। तथाऽन्ये नियतिकृतो लोको मयूराङ्गरुहवदित्यादिभिः कारणैः कृतोऽयं लोको जीवाजीवसमायुक्तो जीवैरुपयोगलक्षणस्तथा अजीवैर्धर्माधर्माकाशपुद्गलादिकैः समन्वितः समुद्रधराधरादिकः इति। पुनरपि लोकं विशेषयितुमाह / सुखमानन्दरूपं दुःखमसालोदयरूपमिति ताभ्यां समन्वितो युक्त इति। // किश्च / / सयंभुणा कडे लोए, इति दुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासए॥७॥ (संयभुणा इत्यादि) स्वयं भवतीति स्वयंभूर्विष्णुरन्यो वा स चैक एवादावभूत्तत्रैकाकी रमते द्वितीयमिष्टवांस्तच्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना तदनन्तरमेव जगत्सृष्टिरभूदित्येवं महर्षिणोक्तमभिहितम्। एवं वादिनोलोकस्य करिमभ्युपगतवन्तोऽपि च तेन स्वयंभुवा लोकं संपाद्यातिभारभयाद्यमाख्यो मारयतीति मारोऽभ्यधायि / तेन मारेण संस्तुता कृता प्रसाधिता माया तया च मायया लोका नियन्तेनच परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्तिरस्त्यतो मायैषा। यथाऽयं मृतस्तथा चायं लोकोऽशाश्वतोऽनित्योऽविनाशीति गम्यते / / 7 // (अण्मकृत्वादिमतं स्वस्थाने उक्तम् ) अधूना एतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाह / सएहिं परियारहिं, लोयं वूया कडेतिया। तत्तं तेण वि जाणंति, ण विणासी कयाइवी // 8 // स्वकैः स्वकीयैः पर्यायैरभिप्रायैर्युक्तिविशेषैरयं लोकः कृत इत्येवमब्रुवन्नभिहितवन्तः / देवोप्तो ब्रह्मोप्त ईश्वरकृतः प्रधानादिनिष्पादितः स्वयंभुवाव्यधायि तन्निष्पादितमायया मियते / तथाऽण्डजश्चायं लोक इत्यपि स्वकीयाभिरुपपत्तिभिः प्रतिपादयन्ति। यथाऽस्मदुक्तमेव सत्यं नान्यदिति। ते चैवंवादिनो वादिनः सर्वे ऽपि तत्त्वं परमार्थ यथाऽवस्थितलोकस्वभावं नाभिजानन्ति न सम्यक विवेचयन्ति / यथाऽयं लोको द्रव्यार्थतया न विनाशीति निर्मूलतः कदाचनन चायमादित आरभ्य केनचित् क्रियते अपि त्वयंलोकोऽभूद्भवति भविष्यति / तथा हि यत्तावदुक्तं यथा देवोप्तोऽयं लोक इति तद्सङ्गतं यतो देवोप्तत्वे लोकस्य न किंचितथाविधं प्रमाणमस्ति न चाप्रमाणकमुच्यमानं विद्वज्जनभनांसि प्रीणयति / ईश्वरवादखण्डन स्वस्थाने विस्तरतः कृतम् यदपि चोक्तं प्रधानदिकृतोऽयं लोक इति तदप्यसङ्गतं यतस्तत्प्रधानं किं मूर्तममूर्त वा यद्यमूर्त न ततो मकराकरादेर्मूर्तस्योद्भवो घटते। न ह्याकाशात्किंचिदुत्पद्यमानमालक्ष्यते मूर्तामूर्तयोः कारणविरोधादिति। अथमूर्ततत्कुतः समुत्पन्नं न तावत्स्वतो लोकस्यापि तथोत्पत्तिप्रसङ्गात् नाष्यन्यतोऽनवस्थापत्तेरिति / अन्यथाऽनुत्पन्नमेव प्रधानाद्यनादिभावेनास्तेतल्लोकोऽपि किं नेष्यते। अपि चासत्वरजस्तमसा साम्यावस्था प्रधानमित्युच्यतेन चाविकृतात्प्रधानान्महदादेरुत्पत्तिरिष्यते भवद्भिः / न च विकृतं प्रधानव्यपदेशमास्कन्दतीत्यतो न प्रधानान्महदादेरुत्पत्तिरिति / अपि चाचेतनायाः प्रकृतेः कथं पुरूषार्थ प्रति प्रवृत्तिर्येनात्मनो भोगोपपत्या सृष्टिः स्यादिति। प्रकृतेरयं स्वभाव इति चेदेवं तर्हि स्वभाव एव बलीयान् यस्तामपि प्रकृति नियमयति तत एव च लोकोऽष्यस्तु किमदृष्टप्रधानादिकल्पनयेति / अथादिग्रहणात्स्वभावस्यापि कारणत्वं कैश्चिदिष्यत इति चेदस्तु। न हि स्वभावोऽभ्युपगम्यमानो नः क्षतिमातनोति। तथा हि स्वभावः स्वकीयोत्पत्तिः सा च पदार्थानामिष्यत एवेति। तथा यदुक्तं नियतिकृ तोऽयं लोक इति तत्रापि नियमनं नियतिर्यथाभवनं नियतिरित्युच्यते सा चालोच्यमाना न स्व