________________ कजकारणभाव २००-अमिधानराजेन्द्रः भाग 3 कज्जकारणभाव रणे क्रियावैफल्यं च स्यादसत्वादेव खरविषाणवत्। अथवा विद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति अत्यन्ताभावरूपत्वात्खरविषाण इव,विद्यमानपक्षे तुपर्यायविशेषणार्पणात्स्यादपि क्रियाव्यपदेशोयथा आकाशं कुरु तथा च नित्यक्रियादयो दोषान भवन्ति न पुनरयं न्यायोऽत्यन्तासति खरविषाणादावस्तीति / यत्रोक्तं पूर्वमसदेवोत्पद्यमानं दृश्यत इति प्रत्यक्षविरोधस्तत्रोच्यते यदि पूर्वमभूतं सद्भवद्दृश्यते तदा पूर्वमभूतं सद्भवत्कस्मात्त्वया खरविषाणमपि न दृश्यते यचोक्तं दीर्घः क्रियाकालो दृश्यतेतत्रोच्यते प्रतिसमयमुत्पन्नानां परस्परेण षड्विधलक्षणानां सुबहीनां स्थासकोशादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घः क्रियाकालो यदि दृश्यते तदा किमत्र घटस्यायातं येनोच्यते दृश्यते दीर्घश्च क्रियाकालोघटादीनामिति यचोक्तं नारम्भे एव दृश्यते इत्यादि। तत्रोच्यते कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत्। शिवकस्थासकादयश्च कार्यविशेषा घटस्वरूपा न भवन्ति ततः शिवकादिकाले कथं घटो दृश्यतामिति / किञ्च अन्त्यसमय एव घटः समारब्धस्तत्रैव च यद्यसौदृश्यते तदा को दोषः? एवञ्च क्रियमाण एव कृतो भवति क्रियमाणसमयस्य निरंशत्यात्। यदि च सम्प्रति समये क्रियाकालेऽप्यकृतं वस्तु तदा अतिक्रान्ते कथं क्रियता कथं वा एष्यति क्रिययो उभयोरपि विनष्टत्वानुत्पन्नत्वेनासत्वादसम्बध्य-- मानत्वात्तस्माक्रियाकाल एव क्रियमाणं कृतमिति। आह च“थेराणमयं नाकयमभावओकीरए खपुष्पं च / अहय अकयं पि कीरइ,कीरउ तो खरविसाणं पि" भ०६ श०१३ उ०। इत्यादिविस्तरेण प्रत्यपादि (एष चैवार्थो गंगदत्तशब्दे परिणमन्तः पुद्गलाः परिणताः इत्यमायिदेवेन प्रतिपादितस्य भंगवतानुमोदनात्पुष्टीभविष्यति) आह। ननु यदि क्रियासम--- येऽपि कार्यं भवति तर्हि तत्तत्र कस्मान्न दृश्यते एवेतिचेन्नन्वहमपि किमिति तन्न पश्यामीत्याशङ्कयाह। पइसमयकज्जकोडी-निरविक्खो घडगयाभिलासोसि। पइसमयकञ्जकालं,थूलमए घडम्मि लगएसि॥ इह यद्यस्मिन्समये प्रारभ्यते तत्तत्र निष्पद्यते दृश्यते च केवलं स्थूला सूक्ष्मेक्षिकाबहिर्भूतत्वाद्वादरदर्शिनी मतिर्यस्य तत्संबोधनं हे स्थूलमते! त्वं घटे लगयसि किमित्याह / प्रतिसमयोत्पन्नानां कार्यकोटीनां कालः प्रतिसमयकालस्तं सर्वमपिघटस्यैवायं समस्तोऽपि मृत्पिण्डविधानचक्रभ्रमणादिक उत्पत्तिकाल इत्येवमेकस्मिन्नेव घटे संघटयसीत्यर्थः / कथं भूतः सन्नित्याह / प्रतिसमयोत्पद्यमानासु मृत्पिण्डशिवकस्थासकोशादिकासु सिद्धकेवलप्रभृतीनां ज्ञानजननादिकासु च कार्यकोटीषु निरपेक्षः कुतः पुनरेतदित्याह। यतो घटगताभिलाषोऽसि त्वं घटोऽस्यां मृद्दण्डचक्रचीवरादिसामग्र्यामुत्पत्स्यत इत्येवं केवलंघटाभिलाषयुक्तत्वागत इत्यर्थः / इदमुक्तं भवति प्रतिसमयमपरापराण्येव शिवकादीनि कार्याण्युत्पद्यन्ते दृश्यन्ते च तानि च तथोत्पद्यमानानि त्वं नावबुध्यसे घटोत्पत्तिनिमित्तभूतैवेयं सर्वापि मृचक्रचीवरादिसामग्रीत्येवं केवलघटोऽभिलाषयुक्तत्वात् ततस्तन्निरपेक्ष एव स्थूलमतितया सर्वमपि तत्कालं घटे लगयसि। ततश्च प्राक्तनक्रियाक्षणेष्वनुत्पन्नत्यात् घटमदृष्ट्वा एवं ब्रूषे क्रियाकाले घटलक्षणं कार्यमहं न पश्यामि / इदं तु नावगच्छामि यदुत चरमक्रियाक्षण एव घटः प्रारभ्यते प्राक्तनक्रियाकाले तु शिक्कादय एवारभ्यन्तेऽन्यारम्भे चान्यत्र दृश्यते एवेति व्यवहारवादी प्राह। को चरमसमयनियमो,पढमो चिय तो न कीरए कर्ज। नाकारणंति कजंतं चेवं तम्मि से समए। प्रथमसमयादारभ्य यद्यपरापराणि कार्याण्यारभ्यन्ते तर्हि कोऽय चरमसमयनियमो येन विवक्षितं कार्यं प्रथमसमय एव न क्रियते अकरणे चततस्तत्तत्र न दृश्यते नत्वाद्यकार्यवद्विवक्षितमपि तत्रैव क्रियतां दृश्यता चेति भावः / अत्र निश्चयः प्रत्युत्तरमाह / नाकारणं क्वचित्कार्यमुत्पद्यते नित्यं सदसत्वप्रसङ्गान्न च तत्कारणं ( से ) तस्य विवक्षितकार्यस्य तदन्त्यसमये एवास्ति न प्रथमादिसमयेष्वतो नतेषूप्पद्यते नापि दृश्यत इति तदेवं क्रियाकाल एव कार्य भवतिन पुनस्तदुपरमे इत्युक्तम्। अथैवं नेष्यते तर्हि प्रस्तुतमाभिनिबोधिकज्ञानमेवाधिकृत्योच्यते। उप्पाए विन नाणं,जइ तो सो कस्स होइ उप्पाओ। तम्मि य जइ अण्णाणं,तो नाणं कम्मिकालम्मि॥ उत्पादनमुत्पादः कार्यस्योत्पत्तिहेतुभूतः क्रियाविशेषस्तत्रापि यदि मतिज्ञानं नेष्यते भवता क्रियमाणावस्थायामपि यदि कार्य त्वया नाऽभ्युपगम्यत इति भावः। तर्हि उत्पाद्यमानस्यासत्वात्स कस्योत्पादो भवत्विति कथ्यतां न ह्यविद्यमानस्य खरविषाणस्यैवोत्पादो युक्तः यदि च तस्मिन् उत्पादकालेऽष्यज्ञानं तर्हि ज्ञानं कस्मिन् काले भविष्यतीति निवेद्यताम् / उत्पादोपरम इति चेन्ननु कथमन्यत्रोत्पादोऽन्यत्र तूत्पन्नमिति / उत्पादोपरमे च भवत्कार्यमुत्पादात्प्रागपि कस्मात्र भवत्यविशेषादित्यायुक्तमेवेति यदुक्तम् "इय नसवेणाईकाले नाणमिति" तत्राह। को व सवणाइकालो,उप्पाओ जम्मि होज से नाणं। नाणं च तदुप्पाओ,यदो विचरिमम्मि समयम्मि।। वाच शब्दार्थे कश्च श्रवणादिकालो व्यवहारवादिन! भवतोऽभिप्रेतो यत्र ज्ञानं निषेधयसि हन्त ! त्वया मतिज्ञानस्योत्पादसमय एव श्रवणादिकालोऽवगन्तव्यो यत्र ( से ) तस्य शिष्यस्य मतिज्ञान भवेन्नापरः / अथादित आरभ्य गुरुसन्निधाने धर्मश्रवाणादय इव मतिज्ञानस्योत्पा-दकालो नाऽपरोऽवगन्तव्य इति चेन्नैवमित्याह / " नाण"मित्यादि ज्ञानं च मतिज्ञानलक्षणं तदुत्पादश्च तस्योत्पत्तिहेतुभूतः क्रियालक्षणः एतौ द्वावपि धर्मश्रवणादिक्रियासमयराशेश्चरमसमय एव भवतोन प्रथमादिसमयेषु तेष्वपराणामेव धर्मावबोधादिकार्याणामुत्पत्तेः / न च तद्वोधादिमात्रादपि सम्यग्ज्ञानोत्पत्तियुज्यते भव्येष्वपि तत्सद्भावात्तस्माद्विशिष्ट एव करिमश्चिद्धर्मश्रवणादीनां चरमसमये मतिज्ञानं तदुत्पादश्च अतो युक्तमुक्तम् " जुत्तं न दत्तमिति" | अस्माभिरपि क्रियाकालस्यान्तसमये एव तस्येष्यमाणत्वात्तस्मान्न सर्वेषु धर्मश्रवणादिक्रियासमयेषु मतिज्ञानं नापि सर्वेषामपि तेषामुपरमे किंत्वेकस्मिस्तचरमसमये तदारभ्यते निष्पद्यते च अतः क्रियमाणमेव कृतम् / यदि कृतमपि क्रियते निश्चयवादस्तर्हि पुनः पुनरपि क्रियता कृतत्वाविशेषादतः करणानवस्थेति चेन्नैवं क्रियाकालनिष्ठाकालयोरभेदाद् / यदि हि तदुत्पादयित्री क्रिया प्रारब्धा सती उत्तरसमयेष्वपि प्राप्येत तदा स्यात्पुनरपि तत्कारणमेतच नास्ति यतोऽसौ तदुत्पादयित्री क्रिया न पूर्व नाप्युत्तरत्रापि किं तु तस्मिन्नेव चरमसमये प्रारभ्यते निष्ठांचयातीति कुतः पुनरपि कार्यकारणमतो न तत्करणानवस्थति