SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ कन्जकारणभाव 198- अभिधानराजेन्द्रः भाग 3 कज्जकारणभाव द्यसमये रसतो भिद्यमानं कर्म भिन्नमिति // 6 // तथा / ( दज्झमाणे | दड्डेति) दाहस्तु कर्मकलिकदारूणां ध्यानाग्निना तद्रूपापनयनमकर्मात्वजननमित्यर्थः / तथा हि काष्ठस्याग्निना दग्धस्य काष्ठरूपापनयनं भस्मात्मना च भवनं दाहस्तथा कर्मणोऽपीति तस्याप्यन्तर्मुहूर्त्तवर्तिल्वेनासंख्येयसमयस्यादिसमये दह्यमानंदग्धमिति॥७॥ तथा (मिजमाणे मडेत्ति) नियमाणमायुः कर्म मृतमिति व्यपदिश्यते मरणं ह्यायुःपुद्गलानां क्षयस्तच्यासंख्येयसमयवर्ति भवति तस्य जन्मनः प्रथमसमयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्प्रियमाणं मृतमिति॥ 8 // तथा। (णिज्जरिजमाणे णिज्जिण्णेत्ति ) निर्जीर्यमाणं नितरामपुनर्भावन क्षीयमाणङ्कर्म निर्जीण क्षीणमिति ध्यपदिश्यते निर्जरणस्यासंख्येयसमय भावित्वेन तत्प्रथमसमय एव पटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपद्यमानत्वादितिपटदृष्टान्तश्च सर्वपदेषु सम्भावनिको वाच्यः।।६।। तदेवमेतान्नव प्रश्नान् गौतमेन भगवता भगवान महावीरः पृष्टः सन्नुवाच। (हन्तेत्यादि) अथ कस्माद्भगवन्तं गौतमः पृच्छति ? विरचितदादशाङ्गतया विदितसकलश्रुतविषयत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य आह च " संखाईए उ भवे, साहइ जं वा परो उ पुच्छेखा / णयणं अणाइसेवी, वियाणई एस छउमत्थोत्ति" || 1 // नैवमुक्तगुणत्वेऽपि छद्मस्थतयाऽनाभोगसम्भवात् / यदाह -- न हि नामानाभोगा, छद्मस्थस्येह कस्यचिन्नास्ति / यस्माज्झानावरणं, ज्ञानावरणप्रकृतिकर्मेति' ॥१॥अथवा जानत एव तस्य प्रश्नः सम्भवति स्वकीयबोधसंवादनार्थमज्ञलोकबोधनार्थ शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थ सूत्ररचनाकल्पसम्पादनार्थं चेति तत्र (हंता! गोयमेत्ति) हन्त इति कोमलामंत्रणार्थो दीर्घत्वं च मागधदेशीप्रभवमुभयत्रापि (चलमाणे इत्यादि) प्रत्युचारणन्तु चलदेव चलितमित्यादीनां स्वानुमतत्वप्रदर्शनार्थम् / वृद्धाः पुनराहुः " हंता ! गोयमा ! इत्यत्र" हन्त इति एवमेतदित्यभ्युपगमवचनं यदनुमतं तत्प्रदर्शनार्थञ्चलमाणे इत्यादिप्रत्युचारितमिति, इह यावत् करणलभ्यानिपदानि सुप्रतीतान्येव एवमेतानि नव पदानि कर्माधिकृत्य वर्तमानातीतकालसमानाधिकरणजिज्ञासया पृष्टानि निर्णीतानि च / अथैतान्येव चलनादीनि परस्परतः किं तुल्यार्थानि भिन्नार्थानि वेति पृच्छां निर्णय च दर्शयितुमाह। एएणं भंते ! नव पदा किं एगट्ठाणाणाघोसाणाणावंजणा उदाहु णाणट्ठा णाणाघोसा णाणावंजणा / गोयमा ! चलमाणे चलिए उदीरित्रमाणे उदीरिए वेइजमाणे वेइए पहेजमाणे पहीणे एएणं चत्तारि तया एगट्ठा णाणाघोसा णाणावंजणा उप्पण्णपक्खस्स छिज्जमाणे छिपणे मिज्जमाणे भिण्णे दज्जमाणे दड्ढे मिज्जमाण मए णिज्जरिजमाणे णिजिण्णे एएणं पंच पदा णाणट्ठा णाणाघोसा णाणावंजणा विगयपक्खस्स। “एएण भंते" इत्यादिव्यक्तं नवरम्। (एगट्ठत्ति) एकार्थान्यनन्यविषयाणि एकप्रयोजनानि वा ( नाणाघोसत्ति ) इह घोषा उदात्तादयः। (नाणा वंजणेत्ति) इह व्यञ्जनान्यक्षराणि (उदाहुत्ति) उताहो निपातो विकल्पार्थः ( नाणहत्ति ) भिन्नाभिधेयानि इह च चतुर्भङ्गी पदेषु दृष्टा / तत्रच कानिचिदेकार्थान्येकव्यञ्जनानियथा क्षीरं क्षीरमित्यादीनि।।१।। तथाऽन्यानि एकार्थानि नानाव्यञ्जनानि यथा क्षीरं पय इत्यादीनि // 2 // तथाऽनेकार्थान्येकव्यञ्जनानि यथाऽकंगव्यमाहियाणि क्षीराणि // 3 // तथाऽन्यानि नानार्थानि नानाव्यञ्जनानियथा घटपटलकुटादीनि // 4 // तदेवं चतुर्भङ्गीसम्भवेऽपि द्वितीयचतुर्थभङ्गको प्रश्नसूत्रे गृहीतौ, परिदृश्यमाननानाव्यञ्जनतया तदन्ययोरसम्भवात् निर्वचनसूत्रे च चलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः छिद्यमानादीनि तु पञ्च पदान्याश्रित्य चतुर्थ इतिाननु चलितादीनामर्थानां व्यक्तभेदत्वात्कथमाद्यानिचत्वारि पदान्येकार्थानीत्याशङ्याह। (उप्पण्णपक्खस्सत्ति) उत्पन्नमुत्पादो भावेतप्रत्ययविधानात् तस्य पक्षः परिग्रहोऽङ्गीकारः पक्षपरिग्रह इति धातुपाठादिति, उत्पन्नपक्ष इह च षष्ठ्यास्तृतीयार्थत्वादुत्पन्नपक्षण उत्पादाङ्गीकारेण उत्पादाख्यं पर्यायं परिगृहौकार्थान्येतान्युच्यन्ते। अथवा उत्पन्नपक्षस्य उत्पादाख्यवस्तुविकल्पस्याभिधायकानीति शेषः सर्वेषामेषाभुत्पादमाश्रित्यैकार्थकारित्वादेकान्तर्मुहूर्तमध्यभावित्वेन तुल्यकालत्वाचैकार्थिकत्वमिति भावः / स पुनरूत्पादाख्यः पर्यायो विशिष्टः केवलोत्पादविषयत्वोदकार्यान्युक्तानि यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्वो यस्माच प्रधानस्ततस्तदर्थ एव पुरुषप्रयासस्तस्मात्स एव केवलज्ञानोत्पत्तिपर्यायोऽभ्युपगतः। एषाञ्च पदानामेकार्थानामपि सतामयमर्थः सामर्थ्यप्रापितक्रमो यदुत पूर्वन्तचलति उदेतीत्यर्थः / तच द्विधा स्थितिक्षयादुदयप्राप्तमुदीरणया चोदयमुपनीतं ततश्चानुभवानन्तरं तत्प्रहीयते दत्तफलत्वाज्जीवादपयातीत्यर्थः / एतच्च टीकाकारमतेन व्याख्यातमन्ये तु व्याख्यान्ति स्थितिबन्धाद्यविशेषतसामान्यकश्रियत्वादेकाथिकान्येतानि के वलोत्पादयक्षस्य च साधकानीति चत्वारि चलनादीनि पदान्येकाथिकानीत्युक्ते शेषाण्यनेकाथिकानीति सामाद वगतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह / " छिज्जमाणेत्यादि " व्यक्तं नवरं (नाणहत्ति ) नानार्थानि नानार्थत्वं त्वेवं छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयं यतःसयोगिकेवली अनन्तकाले योगनिरोधं कर्तुकामो वेदनीयनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापवान्तौहूर्तिकं स्थितिपरिमाणं करोति / तथा भिद्यमानं भिन्नमित्येतत्पदमनुभावबन्धाश्रयं तत्र च यस्मिन् काले स्थितिघातं करोति तस्मिन्नेव काले रसधातमपि करोति केवलं रसघात: स्थितिखण्ड केभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकोऽतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थे भवति तथा दह्यमानं दग्धमित्येतत्पदं प्रदेशबन्धाश्रयं प्रदेशबन्धकर्मणः सत्कानां पञ्च ह्रस्वाक्षरोचारणकालपरिमाणयाऽसंख्यातसमयया गुणश्रेणीरचनाया पूर्व रचितानां शैलेश्यवस्थाभाविसमुच्छिन्नक्रियाध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत्प्रतिसमयं क्रमेणासंख्यगुणवृद्धानां कर्मपुद्गलानां दहनं दाहोऽनेन च दहनाथ नेदं पूर्वस्मात्पदा भिन्नार्थं पदं भवति दाहश्चान्यबान्यथारूढोऽपीह मोक्षचिन्ताधिकारान्मोक्षसाधन उक्तलक्षणकर्मविषय एव ग्राह्य इति। तथा नियमाणं मृतमित्येतत्पदमायुःकर्मविषयं यत आयुष्कपुरलानां प्रतिसमयं क्षयो मरणमनेन च मरणार्थन पूर्वपदेभ्यो भिन्नार्यत्वाद्भिन्नार्थं पदं भवति तथा नियमाणं मृतमित्यनेनायुःकर्मवोक्तं यतः कर्मव तिष्ठज्जीवतीत्युच्यते कमव च
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy