________________ कन्जकारणभाव १९७-अभिधानराजेन्द्रः भाग 3 कज्जकारणभाव तस्मिन्नेव कृतं नेष्यतेतत्राह (अकार्यवेत्यादि) अकृतंवा संप्रति समये क्रियमाणसमये यदीष्यते तर्हि तद्गतेऽतीते समये कथं क्रियतां तस्य / विनष्टत्वेनासत्वात्कयं वा इष्येत भविष्यत्यन्तरागामिनि समये क्रियतां | तस्याप्यनुत्पन्नत्वेन असत्वादेव। अथ व्यवहारवादी ब्रूयात्क्रियासमयः सर्वोऽपि क्रियमाणकालः तत्र च क्रियमाणं वस्तु नास्त्येव उपरतायां तु क्रियायां योऽनन्तरसमयः स कृतकालस्तत्रैव कार्यनिष्पत्तेरतः कृतमेव कृतमुच्यतेन क्रियमाणमिति। साध्वेतत्किं त्विदं प्रष्टव्योऽसि किं भवतः क्रियया कार्य क्रियतेऽक्रियया वा / यदि क्रियया तर्हि कयमियमन्यत्र कार्य त्वन्यत्रेति न हि खदिरे छेदनक्रिया पलाशे तु तत्कार्यभूतच्छेद इत्युच्यमानं शोभां विभर्ति। किं च क्रियाकाले कार्य न भवति पश्चात्तु भवतीत्यनेनैतदापद्यतेयदुत क्रियैवहतका सर्वानर्थमूलमेषा कार्यस्योत्पित्सोर्विघ्नहेतुत्वाद्यावद्ध्येषा प्रवर्तते तावद्वराकं कार्यं नोत्पद्यते अतः प्रत्युतासौ तस्य विनभूतैव ततस्त्वदभिप्रायेण विपर्यस्ततयैव प्रेक्षावन्त एतान प्रारम्भन्त इति क्रियैव कार्य करोति केवलं तद्विरामे तन्निष्पद्यत इति चेत्तर्हि हन्त! कस्तस्यास्य विरोधोयेन तत् कुर्वन्त्या अप्यस्यास्तत्कालमतिवाह्य पश्चान्निप्पद्यतेन पुनस्तत्कालेऽपिक्रियोपरमेऽपिजायमानं कार्यम्। तदनारम्भेऽपि कस्मान्न भवति क्रियानारम्भतदुपरमयोरथतोऽभिन्नत्वादिति। अथाक्रिययेति द्वितीयः पक्षस्तर्हि हिमवन्मेरुसमुद्रादिवत् घटादयोऽप्यकृतका एव प्राप्तास्तद्वत्तेषामपि कारणभूतक्रियामन्तरेणैव प्रवृत्तेः / तपःस्वाध्यायादिक्रियाविधानं च मोक्षादीन् प्रति साध्वादीनामनर्थकमेव स्यात् क्रियामन्तरेणैव सर्वकार्योत्पत्तेः अतः तूष्णींभावमास्थाय निष्परिस्पन्दनानिनिराकुलानि तिष्ठन्तु त्रीण्यपि भुवनानि क्रियारम्भविरहेणाप्यहिकामुष्मिकसमस्तसमीहितसिद्धेः।न चैवंतस्मात्क्रियैव कार्यस्यकत्रीं तत्काल एव च तद्भवति नपुनस्तदुपरमेऽतः क्रियमाणमेव कृतमिति स्थितम्। विशे० आ० म०प्र०। निश्चितं चैतत्तयाविधसूत्रोपलम्भात् / तथा हि। से गुणं भंते ! चलमाणे चलिऐ 1 उदीरिजमाणे उदीरिए 2 | वेदिज्जमाणे वेदिए 3 पहेलमाणे पहीणे छिज्जमाणे छिपणे 5 भिजमाणे भिण्णे 6 दज्जमाणे दड्डे७मिजमाणे ममेणिजिरिज्ज- | माणे णिजिण्णे हंता गोयमा! चलमाणे चलिए जाव णिज्जरिजमाणे णिजिण्णे। अथ केनाभिप्रायेण भगवता सुधर्मस्वामिना पश्चमाङ्गप्रथमशतकप्रथमोद्देशकस्यार्थानुकथनं कुर्वतैवमर्थवाचकं सूत्रमुपन्यस्तं नान्यानीति ? अत्रोच्यते इह चतुर्यु पुरुषार्थेषु मोक्षाख्यः पुरुषार्थो मुख्यः सर्वातिशायित्वात् तस्य चमोक्षस्य साध्यस्य साधनानांच सम्यग्दर्शनादीनां साधनत्वेनाव्यभिज्ञचारिणामुभयनियमस्य शासनाच्छास्त्रं सद्भिरिष्यते। उभयनियमस्त्वेवं सम्यग्दर्शनादीनिमोक्षस्यैव साध्यस्य साधनानि नान्यस्यार्थस्य मोक्षश्च तेषामेव साधनानां साध्यो नान्येषामिति। स च मोक्षो विपक्षक्षयात्तद्विपक्षश्च बन्धः स च मुख्यः कर्मभिरात्मनः सम्बन्धस्तेषां तु कर्मणां प्रक्षयेऽयमनुक्रम उक्तः "चलमाणे इत्यादि" तत्र (चलमाणत्ति) चलस्थितिक्षयादुदयमागच्छत्विपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यम् तचलितमुदितमिति व्यपदिश्यते। चलन- | कालोह्युदयावलिका तस्यचकालस्यासङ्ख्येयसमयत्वादादिमध्यान्तयोगित्वं कर्मपुद्गलानामप्यनन्ताः स्कन्धा अनन्तप्रदेशास्ततश्च ते क्रमेण प्रतिसमयमेव चलन्ति तत्र योऽसावाद्यचलनसमयस्तस्मिश्चलदेव तचलितमुच्यते कथं पुनस्तद्वर्तमानं सदतीतं भवतीत्यत्रोच्यते यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवतीति उत्पद्यमानत्वंचतस्य प्रथमतन्तुप्रवेशकालादारभ्य पट उत्पद्यत इत्येवं व्यपदेशदर्शनात्प्रसिद्धमेवोत्पन्नत्वं तूपपत्त्या प्रसाध्यते / तथा हि उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नो यदि पुनर्नोत्पन्नोऽभविष्यत्तदा तस्या क्रियाया वैयर्थ्यमभविष्यन्निष्फलत्वादुत्पाद्योत्पादनार्था हि क्रिया भवन्ति यथा च प्रथमे क्रियाक्षणे नासावुत्पन्नस्तथोत्तरेष्वपि क्षणेष्वनुत्पन्न एवासौ प्रानोति / को ह्युत्तरक्षणक्रियाणामात्मनि रूपविशेषो येन प्रथमसमये नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते / अतः सर्वदैवानुत्पत्तिप्रसङ्गः दृष्टा चोत्पत्तिरन्त्यतन्तुप्रवेशेपटस्यदर्शनात्। अतः प्रथमतन्तुप्रवेशकाल एव किञ्चिदुत्पन्नं पटस्य यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते / यदि पुनरुपाद्येत तदा तदेकदेशोत्पादन एव क्रियाणां कालानाञ्च क्षयः स्यात् यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं युज्येत नान्यथा तदेवं यथा पट उत्पद्यमान एवोत्पन्नस्तथैवासंख्येयसमयपरिमाणत्वादुदयावलिकाया आदिसमयात्प्रभृति चलदेव कर्मचलितम्।कथं यतो यदि हि तत्कर्म चलनाभिमुखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात्तदा तस्याद्यस्य चलनसमस्य वैयर्थे स्यात्तत्राचलितत्वात् यथा च तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपिनचलेत् को हितेषामात्मनि रूपविशेषो येन प्रथमसमये न चलितमुत्तरेषु चलतीति / अतः सर्वदैवाचलनप्रसङ्गः / अस्ति चान्त्ये समवे चलनं स्थितिपरिमितत्वेन कर्माभावाभ्युपगमात् अत आवलिकाकालादि-समय एव किञ्चिचलित यच तस्मिश्चलितं तन्नोत्तरेषु समयेषु चलति यदि तु तेष्वपि तदेवाचं चलनम्भवेत्तदा तस्मिन्नेवं चलने सर्वेषामुदयावलिकाचलनसमयानां क्षयः स्यात् / यदि हि तत्समयचलननिरपेक्षाण्यन्यसमयचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा तदेवं चलदपि तत्कर्म चलितम्भवतीति / / 1 / / तथा ( उदीरिजमाणे उदीरिएत्ति) उदीरणा नाम अनुदयप्राप्तं चिरेणागामिना कालेन यद्वेदितव्यं कर्मदलिकं तस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं सा चासङ्ख्येयसमयवर्तिनी तया च पुनरुदीरणया उदीरणाप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितम्भवतीति // 2 // तथा ( वेइलमाणे वेइएत्ति) वेदनं कर्मणो भोगोऽनुभव इत्यर्थस्तच वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन चोदयमुपनीतस्य भवति तस्य च वेदनाकालस्यासङ्ख्येयसमयत्वादाद्यसमये वेद्यमानमेव वेदितम्भवतीति // 3 // तथा / ( पहेजमाणे पहीणेत्ति ) प्रहीणं तु जीवप्रदेशः सह संश्लिष्ट-स्य कर्मणस्तेभ्यः पतनमेतदप्यसंख्येसमयपरिमाणमेवतस्य तु प्रही-णस्यादिसमये प्रहीयमाणं कर्म प्रहीणं स्यादिति॥ 4 // तथा (छिज्जमाणे छिण्णेत्ति)। छेदनं तु कर्मणो दीर्घकालानां स्थितीनां ह्रस्वताकरणं तचापवर्तना-भिधानेन करणविशेषेण करोति। तदपि च छेदनमसंख्येय-समयमेव तस्य त्वादिसमये स्थितितश्छिद्यमानं कर्म च्छिन्नमिति / / 5 / / तथा। (भिज्जमाणे भिण्णेत्ति ) भेदस्तु कर्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्तनाकरणेन मन्दताकरणं मन्दस्य चोद्वर्तनाकरणेन तीव्रताकरणं सोऽपिचासंख्येयसमय एव ततश्च तदा