________________ कजकारणभाव १९६-अभिधानराजेन्द्रः भाग 3 कज्जकारणभाव प्रतिप्रत्यनवस्थेति। अपि च यदि कृतमपि क्रियते तदाऽन्येऽपि दोषाः। क इत्याह। किरियाइवेफलं वि य-पुटवमभूयं च दीसए होति। दीसइ दीहोय जहा, किरियाकालो घडाईणं / / यदि कृतमपि क्रियत इत्यभ्युपगम्यते तर्हि घटादिकार्य उत्पाद्ये क्रियायाश्चक्रभ्रमणादिकाया वैफल्यं निरर्थकता प्राप्नोति। कार्यस्य प्रागेव सत्त्वात्। किं चाध्यक्षविरोधः सत्कार्यवादेयतः पूर्वं मृत्पिण्डावस्थायामभूतमविद्यमानं पश्चात्तु कुम्भकारादिव्यापारे घटादिकार्य भवज्जायमानं दृश्यतेऽतः कथमुच्यते सदुत्पद्यते इति यस्मिन्नेव समये प्रारभ्यते तस्मिनेव निष्पद्यतेऽतो निष्पन्नमेव तत् क्रियते। क्रियाकालनिष्ठाकालयोरभेदादिति चेन्नैवम्। कुत इत्याह (दीसईत्यादि) दीर्घोऽसंख्येयसामयिको घटादीनामुत्पद्यमानानां क्रियाकालो लगन्नालोक्यते यस्मात्ततो न यस्मिन्नेव समये घटादि प्रारभ्यते तस्मिन्नेव समेय निष्पद्यते मृदानयनतत्पिण्डविधानचक्रारोपणशिवकादिविधानादिचिरकालेनैव तदुत्पत्तिरिति। भवतु दीर्घक्रियाकालः कार्य चारम्भसमयेऽप्युपलभ्यत इत्याह। नारंभे चिअदीसइ, न सिवादद्धाए दीसह तदंते। यइन समणाइ काले, नाणं जुत्तं तदंतम्मि // 57 // यदि क्रियाप्रथमसमय एव कार्य निष्पद्येत तदा तत्तत्रैवोपलभ्येत / न चारम्भसमय एव तद्दश्यते / नापि शिवकाद्यद्धायां शिवकास्थासकोशकुसुलादिकाले कतर्हि दृश्यते इत्याहा दृश्यते घटादिकार्य तस्य दीर्घक्रियाकालस्यान्तः परिसमाप्तिस्तदन्तस्तस्मिन्निति / तस्मात् क्रियाकालपर्यन्त एव तस्य सत्वं युज्यते न तु पूर्वमुपलभ्यमानत्वात्। यस्मादेवमित्यतो न गुरुसन्निधाने सिद्धान्तश्रमणचिन्तने हननादिक्रियाकाले ज्ञानमाभिनिबोधिकं युक्तं किं तु तस्य श्रमणादिक्रियाकालस्यान्तस्तदन्तस्तस्मिन्नेव तद्युक्तं तत्रैवोपलभ्यमानत्वादिति प्रस्तुतोपयोगः। तदेयं न क्रियाकाले कार्यमस्त्यनुपलभ्यमानत्वात्किं तु तन्निष्ठाकाल एव तदस्तितत्रैवोपलभ्यमानत्वात्तता न प्रतिपाद्यमानं प्रतिपन्नं कार्ये क्रियाकाल एव तस्य प्रतिपद्यमानत्वान्निष्ठाकाल एव च प्रतिपन्नत्वात्। क्रिया-- कालनिष्ठाकालयोश्चात्यन्तंभेदात्तस्मान्मिथ्यादृष्टिरज्ञानीच सम्यक्त्वज्ञाने प्रतिपद्यते न सम्यग्दृष्टिानी इतिव्यवहारनयः। अत्र निश्चयनयः प्रतिविधानमाह। निच्छइओ नाजायं,जाय अभावत्तओ खपुष्पं च। अहव अजायं जायइ,जायउ तो खरविसाणं पि॥५६॥ निश्चये भवो नैश्चयिको नयः प्राहा यथा जातं न जायते कृतघटवदिति 'भवता असत्कार्यवादिनाऽभिधीयते तथा वयमपि सत्कार्यवादिनो ब्रूमः।। नाजातं जायते अत्रेकारलोपः / नाऽविद्यमानमुत्पद्यत इति प्रतिज्ञा अभावत्वादविद्यमानत्वादिति हेतुः खपुष्पवदिति दृष्टान्तः / अयमपि विपर्यये बाधामाह। अथाजातमपि जायते जायतां ततःखरविषाणमपि अभावाविशेषादिति। अपिच नियकिरियाइ दोसा,नणु तुल्ला असइ कट्ठतरगा वा। पुध्वमभूयं च न ते, दीसइ किं खरविसाणे पि॥५६॥ ननु नित्यकरणादयः सत्कार्यवादे ये दोषाः प्रदत्तास्ते असति कार्य असत्कार्यवादेऽपीत्यर्थः / तुल्याः समानास्तथा ह्यत्रापि शक्यते वक्तुं / यद्यसक्रियतेतर्हि क्रियतां नित्यमेव असत्वाद्यविशेषान्न चैवमेकस्यापि कार्यनिष्पत्तिर्युज्यते खरविषाणकल्पे वा सति कार्ये समुत्पाद्ये क्रियावैकल्पमित्यादि किंतुल्याएवासति कार्येऽमी दोषा नेत्याह। कष्टतरा वा दुष्परिहार्या वा / सतो हि कार्यस्य केनापि पर्यायविशेषेण करणं संभवत्यपि लोकेऽपि सतामाकाशादीनां पर्यायविशेषाधानापेक्षया कारणस्य रूढत्वात्तथा च तत्र वक्तारः समुपलभ्यन्ते “आकाशं कुरु पृष्ठ कुरु पादौ कुर्वित्यादि" खरविषाणकल्पेत्वसति कार्येन केनापि प्रकारेण करणं संभवति / ततः कष्टतरास्तत्राऽमी दोषा इति भावः / यदुक्तं "पुव्वमभूयं चदीसए होंतमिति" तत्राह। (पुव्वमित्यादि) उत्पत्तेः पूर्व च यद्यभूतं सर्वथाऽविद्यमानं कार्यमुत्पद्यत इतीष्यतेतर्हि ते तव मतेन किं खरविषाणमपि पूर्वमभूतं पश्चादुत्पद्यमानं न दृश्यते प्रागसत्वाविशेषादिति यदुक्तम् “दीसइ दीहो य जहा किरियाकालो इति" तत्राह। पइसमउप्पण्णाणं,परोप्परविलक्खणाण सुबहूणं / दीहो किरियाकालो,जइ दीसइ किं च कुंभस्स। समये समये प्रत्युत्पन्नानां परस्परविलक्षणानां सुबहूनामसंख्येयानां मृत्खननसंहरणपिटकरासभपृष्ठारोपणावतारणारभःसेचनपरिमाईनपिण्डविधानभ्रमणचकारोपणशिवकस्थासकोशकुसूलादिकार्याणामिति शेषः / यदि दीर्घा द्राधीयान् क्रियाकालो दृश्यते तर्हि किमत्र हन्त ? कुम्भस्य घटस्यायातम् / इदमुक्तं भवति प्रतिसमयं भिन्ना एव क्रियाः भिन्नान्येव च मृत्पिण्डशिवकादीनि कार्याणि घटस्तु चरमैकक्रियाक्षणमात्रभाव्येव। ततश्च प्रतिसमयभिन्नानामनेककार्याणां यदि दीर्घः क्रियाकालो भवति तर्हि चरमैकक्रियाक्षणमात्रभाविनि घटेदीर्घक्रियाकालप्रेरणं परस्याज्ञतामेव सूचयतीति। यदुक्तं " नारंभे चिय दीसईत्यादि " तत्राह। अण्णारंभे अण्णं,कह दीसइ जह घमो पडारंभे / सिवकादओन घटओ, किह दीसइ सो तदद्धाए॥ इह " नारंभे चिय दीसइ" इत्यत्र भवतोऽयमभिप्रायो यदुत मृचक्रचीवरकुम्भकारादिसामाग्र्याः प्रथमेऽपि प्रवृत्तिसमये। घटः किं नोपलभ्यतेऽनुपलम्भाचायमसंस्तत्र पश्चादुत्पद्यते। एतच्चायुक्तमेव यतोन प्रथमे प्रारम्भसमये घटः प्रारब्धः किं तुचक्रमस्तकमृत्पिण्डारोपणादीन्येवारब्धानि अन्यारम्भे चान्यत्कथं दृश्यतेन दृश्यत एवेत्यर्थः। यथा पटारम्भे घटः / यदुक्तं "न सिवादद्धाएत्ति" तत्राह “सिवकादओ इत्यादि " शिवकादिकाले घटो न दृश्यत इत्युक्तं तदेतद्युक्तमेव यतः शिवकादयो घटोन भवन्त्यतो यत एव शिवकादिकालोऽसौ अतः तदद्धायां तत्काले कथमसौ घटो दृश्यतामन्यारम्भकालेऽन्यस्य दर्शनानुपपत्तेरिति। यदुक्तं "दीसइ तदंतम्मि" इति तत्राह। अंतिचिय आरद्धो,जहदीसइ तम्मि चेव को दोसो। अकयं व संपइ गए,किह किरइ किह व एसम्मि॥ अन्त्य एव क्रियाक्षणे आरब्धोयदि घटस्तस्मिन्नेव दृश्यतेतर्हि को दोषोन कश्चिदित्यर्थः। अतः किमुच्यते। यतोऽन्यसमय एवोपलभ्यते नान्यत्र ततोऽयं पूर्वमसन्नेव क्रियत इति स हि पूर्व प्रथमादिक्रियाक्षणेषु नारब्धो न च दृश्यते / अन्त्ये तु क्रियाक्षणे प्रारब्धो दृश्यते च तस्मिन् क्रियासमये क्रियमाणः कृत एव समयस्य निरन्तत्वात्यच कृतंतत्सदेव ततः सदेव क्रियते नासत्यब सत्तदुपलभ्यत एवेति स्थितम्। अथ यस्मिन्समये क्रियमाणं