SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ कजकारणभाव १९५-अभिधानराजेन्द्रः भाग 3 कन्जकारणभाव प्रमेयव्यवस्थायाः प्रमाणाधीनत्वात् अणुपरिमाणयोगित्वे चाल्पतरपटादिरूपस्य परमाणोरिवाद्रव्यरूपताप्रसक्तिस्तस्यैव तद्योगित्वात् अत एवैकावयवसहितस्य पटस्यैवोपलम्भात् एकरूपोपलम्भेऽप्याश्रयाव्यापितया शेषरूपाणामनुपलम्भाच प्रतिभासाभाव इति यदुक्तं तदपि निरस्तम् एकरूपोपाध्यपकाराङ्गशक्यभिन्नस्य पटद्रव्यस्यानिश्चयात्मनाऽध्यक्षेपेण ग्रहणे अशेषरूपोपाध्युपकारकशक्यभिन्नात्मनस्तस्यैकरूपतया ग्रहणात् उपकार्यग्रहणमन्तरेणोपकारकत्वग्रहणस्यासंभवात्। शक्तीनां ततो भेदे संबन्धासिद्धेरपरोपकारकशक्तिप्रकल्पनायामनवस्थाप्रसक्तेः कथं नाशेषोपकार्यरूपप्रतिभासाचित्रप्रतिभासप्रसक्तिः। एतेन तन्तूनां नीलाद्यनेकरूपसंबन्धित्वात्पटेऽप्यनेकरूपारम्भकत्वेन किंचित्साधकं प्रमाणं कारणगुणपूर्वप्रक्रमेण तथाविधस्य रूपस्योत्पादादित्यपि प्रत्युक्तम्। एकावयवप्रतिभासे चित्रप्रतिभासोत्पत्तिप्रसङ्गस्यैव बाधकत्वात्। यदपि भवतुवा एकंपटेचित्ररूपनीलादिरूपैरेकरूपभावात् / यथा हि शुक्लादिर्विशेषोरूपस्य तथा चित्रमपिरूपविशेष एव चित्रशब्दवाच्य इतितद्रूपगतमेव। अनेकाकारस्यैकत्वे चित्रैकशब्दवाच्यत्वेवाभ्युपगम्यमाने सदसदनेकाकारानुगतस्यैकस्य कारणादिशब्दवाच्यत्वेनाभ्युपगमाविरोधात्। यथा च बहूनांतन्त्वादिगतनीलादिरूपाणां पटगतैकचित्ररूपारम्भकत्वं दृष्टत्वादविरुद्धं तथाऽनेकाकारस्यैकरूपत्वंवस्तुनो दृष्टत्वादेव विरुद्धमभ्युपगन्तव्यमत एवैकानेकरूपत्वाचित्ररूपस्यैका-- वयवसहितेऽवयविन्युपलभ्यमाने शेषावयवावरणे चित्रप्रतिभसाभाव उपपत्तिमान्। सर्वथात्वे तत्रापि चित्रप्रतिभासः स्यात् अवयविव्याप्या तद्रूपस्य वृत्तेर्न चावयवनानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयतीति तत्र सहकार्यभावात्। चित्रप्रतिभासानुत्पत्तिरिति वाक्यमवयविनोऽप्यनुपलब्धिप्रसङ्गात्न हिचाक्षुषप्रतिपत्या गृहामाणरूपतयाऽवयविनोवायोरिद ग्रहणं दृष्टं न च चित्ररूपव्यतिरेकेणापरं तत्र रूपमात्रमस्ति यतस्तत्प्रतिपत्त्या पटग्रहणं भवेत्। न चावयवरूपोपलम्भोऽवयविरूपप्रतिपत्तौ अक्षिसहकारी तद्भावे वा तदवयवरूपोपलम्भाक्षिसहकारीति तमन्तरेण न स्यादिति पूर्वपूर्वावयवरूपोपलम्भापेक्षपरमाणुरूपोपलम्भाभावात्। तज्जन्यद्व्यणुकाद्यवयविरूपोपलम्भासंभवात्। न क्वचिदपि रूपोपलब्धिः स्यात्तदभावेच नावयव्युपलब्धिरिति तदाश्रितपदार्थानामप्युपलम्भाभावात्सर्वप्रतिभासाभावः स्यात् / तत एकानेकस्वभावं चित्रपटरूपवद्वस्त्वभ्युपगन्तव्यम् / वैशेषिकेण बौद्धनापि चित्रपटप्रतिभासस्यैकानेकरूपतामभ्युपगच्छता एकानेकरूपं वस्त्वभ्युपगतमेव / अथ प्रतिभासोऽप्येकानेकरूपो नाभ्युपगम्यते तर्हि सर्वथा प्रतिभासाभावः स्यादित्यसकृदावेदितंतत एकान्ततोऽसति कार्ये न करणव्यापारस्तेनाभ्युपगन्तव्योऽसति तत्र तदभावात् / नापि सति मृत्पिण्डे तमन्तरेणापि ततः प्रागेव निष्पन्नत्वात् न च मृत्पिण्डे कारकव्यापारः पृथुबुधोदराद्याकारता प्रतिपद्यत इति कारकव्यापारफलयोरैक्यविषयत्वे अनेकान्तवादसिद्धिस्तस्मात् द्रव्यास्तिकपर्यायास्तिकाभ्यां सहिताभ्यामन्योऽन्यनिरपेक्षाभ्यां व्यवस्थापितं वस्त्वसत्यमिति तत्प्रतिपादकं शास्त्रं सर्वं मिथ्येति व्यवस्थितम्। अमुमेवार्थमन्वयव्यतिरेकाभ्यां द्रढीकर्तुमाह ते उभयणोवणीया, सम्मदसमणुत्तरं हॉति। जं भवदुक्खविमोक्खं, दो विन पुरोतिपाडेकं // 17 // तौ द्रव्यपर्यास्तिकनयौ भजनया परस्परस्वभावाविनाभूततयोपनीतौ सदसदूपैकान्तव्यवच्छेदेन तदात्मकैककार्यकारणादिवस्तुप्रतिपादकत्वेनोपयोजितौ यदा भवतस्तदा सम्यग्दर्शनमनुत्तरं नास्त्यस्मादन्यदुत्तरं प्रधानं यस्मिस्तत्तथाभूतं भवतः परस्पराविनिर्भागवर्तिद्रव्यपर्यायात्मकैकवस्तुतत्वविषयरुच्यात्मकबोधितावबोधस्वभावत्वात् / यदात्वन्योऽन्यनिरपेक्षद्रव्यपर्यायप्रतिपादकत्वेनोपनीतौ भवतो न तदा सम्यक्त्वं प्रतिपद्येते। यस्मात् संसारभाविजन्मादिदुःखविमोक्षमात्यन्तिकं चश्लेषं द्वावपि तौ प्रत्येकं न विधत्तः मिथ्याज्ञानात्सम्यक्रियाभङ्गतया आत्यन्तिकभवोपद्रवानिवृत्त्यसिद्धिः / तद्विपर्ययकारणत्वात्। तचासकृत्प्राक् प्रतिपादितमिति न पुनः प्रतन्यते ततः कारणात्कार्य कथंचिदन्यदतएव सदसद्रूपतया सच्चासचेत्यमुमेवार्थमुपसंहारद्वारेणोपदर्शयन्नाह। णत्थि पुठवीविसिट्ठो,घडोत्ति जं तेण जुज्जइ एगेण / जंतु ण घडत्ति पुष्वं,ण आसि पुढवीतओ अण्णा ||14|| नास्ति द्रव्यभूतपृथ्वीत्वादिभ्यो विशिष्टो भिन्नो घटः सदादिव्यतिरिक्तं स्वभावतया तस्यानुपलम्भात्। किं च यदि सत्वादयो धर्मा घटादेकान्ततो सोऽपि वा तेभ्यो भिन्नः स्यात्तदा न घटस्य सदन्वितत्वं स्यात्। स्वतोऽसदादेरन्यधर्मयोगेऽपि शशशृङ्गादेरिव तदयोगात् / सदादेरपि घटाद्याकारादाद्यन्तभेदे निराकारतयाऽत्यन्ताभावस्येवोपलम्भविषयत्वायोगात्। शेयत्वप्रमेयत्वादिधर्माणामपि सदादिधर्मेभ्यो भेदे असत्वं सदसदादेस्तुतेभ्यो भेदेज्ञेयत्वादसत्यमेवोपलम्भः सत्तेति वचनात् ततः सदादिरूपतया उपलभ्यमानत्वात् घटस्य तेभ्यो भिन्नरूपताभ्युपगन्त-- व्या प्रमेयव्यवस्थितेः प्रमाणनिबन्धनात् / यत्पुनः पृथुबुध्नोदराद्याकारतया पूर्व सदादिनासीत्ततोऽसावन्यस्तेभ्यो घटरूपतया प्राक्सदादेरनुपलम्भात् प्रागपि तद्रूपस्य सदादौ अनुपलम्भायोगात् / दृश्यानुपलम्भस्य वा भावव्यभिचारित्वादतद्रूपतायां य विरोधाऽभावात् प्रतीयमानायां तदयोगादबाधितप्रत्ययस्य च मिथ्यात्वासंभवादाधाविरहस्य च प्रागेवोपपादितत्वात्सदेकान्तवादवत्। सम्म०। सदसत्कार्य्यवादश्च केषांचिन्नयानां सत् केषांचिदसदिति सङ्कलने सदस-त्कार्यवाद इत्येवं भाष्यकृव्याख्यानयति। सम्मत्तनाणरहिअस्स-नाणमुप्पजइत्ति ववहारो। नेच्छइ यन उभासइ, उप्पज्जइ तेहिं सहियस्स / / पातनयैव व्याख्याता अत्र तावद्व्यवहारो निश्चयस्य दूषणमाह। ववहारनयं जायं, न जायए भावओ कयघडो व्व। अहवा कयं पि कज्जइ, कञ्जउ निचं नयसमत्ती।। यदि हन्त ? सम्यग्दृष्टिानी च सम्यकत्वज्ञाने प्रतिपद्यत इति त्वया-- ऽभ्युपगम्यतेतर्हि जातमपि तत्सम्यक्त्वं ज्ञानंचासौ पुनरप्युत्पादयतीति सामर्थ्यादापन्नम् न च जातं विद्यमानं पुनरपि जायते न केनापि ततः क्रियत इत्यर्थः / कुत इत्याह। भावतोविद्यमानत्वात्पूर्वनिष्पन्नघटवदित्येतद्व्यवहारनयमतमसत्कार्यवादित्वात्तस्य प्रमाणयति चासो यद्विद्य--मानं तन्न केनचित्क्रियते यथा पूर्वनिष्पन्नो घटः विद्यमाने च सर्म्यग्दृष्टः सम्यक्त्वज्ञानेऽतोन तत्करणमुपपद्यते।अथ कृतमपि क्रियते तर्हि क्रियतां नित्यमपीति क्रियानुपरमप्रसङ्गः / न चैवं सत्येकस्यापि कार्यस्य कदापि परिसमाप्तिरिति प्रस्तुतस्याभिनिबोधिकस्यापि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy