________________ कजकारणभाव १६४-अभिधानराजेन्द्रः भाग 3 कजकारणभाव श्यमाना जडेश्वरादिहेतुकमकृष्टोत्पत्तिकं भूरुहादि संभवतीति प्राक् प्रतिपादितेन चासतः कार्यस्य विज्ञानं न ग्राहकमसत्पक्षादिबुद्धेः प्रवृत्तेः / / अन्यथा कथं कार्यार्थप्रतिपादिताचोदना भवेत्। किं चयदिसत्येव कार्ये कारणव्यापारस्तदोत्पन्नेऽपि घटादिकार्ये कारणव्यापारादनवरतं तदुत्पत्तिप्रसक्तिस्तत्राविशेषात्। अथाभिव्यक्तत्वान्नोत्पन्ने पुनरुत्पत्तिरुत्पत्तेरभिव्यक्तिरूपत्वात् तस्याश्च प्रथमकारणव्यापारदेव निवृत्तत्वात् नन्वभिव्यक्तिरपि यदिव्यज्यमानैवोत्पद्यते उत्पन्नाऽपि पुनः पुनरुत्पद्येत। अथाविद्यमाना तदा असदुत्पत्तिप्रसक्तिर्न चाभिव्यक्तावप्यसत्यां कार्य इव कारणव्यापारोऽभ्युपगन्तुंयुक्तः / स्वसिद्धात्तप्रकोपप्रसङ्गात्। अथ सतः कारणात् कार्यमिति सत्कार्यवादोऽसतो हेतुत्वायोगात्तथाऽभ्युपगमे वा शशशृङ्गादेरपि पदार्थोत्पत्तिप्रसक्तिरत्यन्ताभावप्रागभावयोरसत्वेनाविशेषात्। न च प्रागभावी आसीदिति हेतु त्यन्ताभावीति वक्तव्यं यतो यदान हेतुरन्यदा हेतुरिति प्रसक्तेस्ततश्चेदं प्रसक्तम्। असन् हेतुः संश्चाहेतुरिति ततः सन्नेव हेतुस्तस्य कार्ये व्यापारात्। नासंस्तत्र तदयो-- गादेतदप्यसयतः सतोऽपि कारणस्य प्राक्तनरूपापरित्यागात् न कार्य प्रति हेतुता प्राक्तनावस्थावत् / अथ तदा व्यापारायोगाद्धेतुताऽसदेतद्व्यापारेण कार्ये प्रति तस्य हेतुत्वे सोऽपि व्यापारः कुतस्तस्येति पर्यनुयोगासंभवाद् व्यापारवत्पदार्थत्वात् / ननु तत्रापि व्यापारोऽयं परव्यापारात् तदा व्यापारपरम्पराव्यवहितत्वात् कारणस्य न कदाचित्कार्योत्पादने प्रवृत्तिः स्यात् अनन्तरव्यापारापरम्परापर्यवसानं यावत् कस्यचिदनवस्थानादसतः कारणात् कार्योत्पत्तिश्च स्यात् / अथ कारणस्वरूपमेव व्यापारस्तत्काल एव कार्ये तेन नानवस्थानाप्यसतः कारणात्कार्योत्पत्तिः / नन्वेवं कारणसमानकाले कार्ये स्यात् तथा च सव्येतरगोविषाणवत् कुतः कार्यकारणभावः / अथ कार्यभावकाले कारणस्य न सदभावस्तर्हि चिरतरनष्टादिवत्तत्कालध्वंसिनोऽपि कुतः कार्यसद्भावः कार्योत्पत्तिकाले तदनन्तरभाविनः सत्ता चेत्तर्हि कार्योत्पत्तिः / कार्योन्नतिकार्यकारणयोः समानकालता च स्यात्। तथा कुतः कार्यकारणभावो न च सतः कारणतः कार्योत्पत्तिरित्यभ्युपगमवादिनः कार्योत्पत्तिकाले कारणस्य सत्वं बौद्धस्यैव सिद्धमविचलितरूफ्स्य च तस्य सद्भावे तदापि न कार्यक्त्त्वाविकलकारणत्वात्। प्राग्वत् तदा तद्वत्वे वा पूर्वमपि तद्वत्त्वं स्यादविकलकारणत्वात्। तदवस्थावन्नकान्तसत्कार्यवादोऽसत्कार्यवादो वा युक्तोऽनेकदोषदुष्टत्वात् / अथैकान्तेन सदसतोरजन्यत्वादजनकत्वाच्च कार्यकारणभावाभावात्। सर्वशून्यतैव तदुक्तमयुक्तं सर्वमिति चेत्यादिना कथंचित् सदसतोर्जन्यत्वाच / न चैकस्यैव सदसद्रूपत्वं विरुद्धं कथंचिदिन्ननिमित्तपक्षस्य सदस्त्वस्यैकत्राबाधिताध्यक्षतः प्रतिपत्तेर्न चाध्यक्ष प्रतिपन्ने वस्तुनि विरोधोऽन्यथैकचित्रपटेज्ञाने चित्ररूपतायाचित्रपटे च चित्रैकरूपस्य को विरोधः स्यात्तथा च शुक्लाद्यनेकप्रकारं पृथिव्या रूपमिति वैशेषिकस्य विरुद्धाभिधानं भवेत्। अथ तदवयवानां शुक्लाद्यनेकरूपयोगिताऽवयविनस्त्वेकमेव रूपं तत्तदवयवानामप्यवयवित्वेनानेकप्रकारैकप्रतियोगित्वविरोधात् / अथ प्रत्येकमवयदेषु शुक्लादिकमेकैकं रूपं तर्हि तदवयवादिष्वप्येकैकमेव रूपं यावत् परमाणव इतिविभिन्नघटपटादिपदार्थेष्विव चित्रपटे नीलपीतशुक्लरूपा एते भावा इति प्रतिपत्तिः स्यात् | न पुनश्चित्ररूपः पट इत्यवयवावयविनोरन्यत्वात् अवयवानामनेकरूप संबन्धित्वेऽप्यवयविनस्तथा भावाभावात्। अथावयविनोऽपि विभिन्नानेकरूपसंबन्धित्वमभ्युपगम्यते तथापि चित्रैकरूपप्रतिभासानुपपत्तिरनेकरूपसंबन्धित्वस्यैव तत्र सद्भावात्सूत्रव्याघातश्चैवं स्यात्। अविभुनिद्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामसंभवादिति सूत्रेणाभिधानात् / अव्यापके पटादिद्रव्ये एकेन्द्रियग्राह्याणां शुक्लादीनां विशेषगुणानामसंभवोऽनेन सूत्रेण प्रतिपादितः स च व्याहन्येत / किं च शुक्लादीनामेकत्र पटादावनेकस्वरूपाणां सद्भावाभ्युपगमे व्याप्यवृत्तित्वमव्याप्यवृत्तित्वं वा / अव्याप्यवृत्तित्वे शेषाणामाश्रयव्यापित्वमिति विरूध्येत। आश्रयव्यापित्वेऽप्येकावयवसहितेऽप्यवयविन्युपलभ्यमाने अपरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिः स्यात् सर्वरूपाणामाश्रयव्यापित्वात्। अथ शुक्लाधनेकाकारं चित्रमेकं तद्रूपं यथा शुक्लादिको रूपविशेषः कथं तहनेकाकारमेकरूपविरूद्धं भवेत्। चित्रैकरूपाभ्युपगमस्य चित्रतरत्वात्। अथ चित्रैकरूपस्य तस्य प्रत्यक्षेण प्रतीतेन विरोधस्तर्हि सदसद्रूपैकरूपतया कार्यकारणरूपस्य वस्तुनः प्रतिपत्तौ विरोधः कथं भवेन्न च चित्रपटादावपास्तशुक्लादिविशेष रूपमात्रं तदुपलम्भान्यथानुपपत्त्यास्तीत्यभ्युपगन्तव्यं चित्ररूपः पट इति प्रतिभासावप्रसक्तेः। अथ परस्परविरुद्धानां शुक्लादिरूपाणां चित्रैकरूपानारम्भकत्वमेव कारणगुणानामित्यभ्युपगमः शुक्लाच्छुक्लमित्यादिप्रतीतेः कथं तर्हि कारणगतक्शुक्लादिरूपाविशेषेभ्यः कार्य्यरूपमात्रस्यापास्ततद्विशेषस्योत्पत्तिर्भवेत् तेभ्यस्तस्यासमानत्वात्। अथ तद्गतरूपमात्रेभ्यस्तद्रूपमात्रस्योत्पत्तेर्न दोषोऽसदेतत् शुक्लादिरूपविशेषव्यतिरेकेण रूपत्वादिसामान्यमपहाय रूपमात्रस्यास्याभावात् सामान्यस्य च नित्यत्वेनाजन्यत्वान्न च रूपमात्रनिबन्धनश्चित्ररूपः पट इति प्रतिभासो युक्तः शुक्लादिप्रत्ययस्यापि तन्निबन्धनत्वेन शुक्लादिरूपविशेषस्याप्यभावप्रसक्तेः नचावयवगतचित्ररूपात्पटादिचित्रप्रतिभासोऽवयवेष्वपि तद्रूपासंभवात् न चान्यरूपस्यान्यत्र विशिष्टप्रतिपत्तिजनकत्वं पृथिवीगतचित्ररूपमात्रमेव तत्र स्यात् क्षितौ रूपमनेकप्रकारमिति विरुध्येत अनेकप्रकारं हि शुक्लत्वादिभेद भिन्नमुच्यते रूपमात्रं च शुक्लादिविशेषरहितं तस्य शुक्लादिविशेषेष्वनन्तर्भावात् कथं न विरोधः / यदपि शुक्लायेनकप्रकाररूपाभ्युपगमे क्षितौ तत्र विशेषपरिहाराभिधानं किलाविभुनि द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामेकाकाराणामसंभवो न त्वनेकाकाराणां तेषामुपलम्भात्एकाकाराणामेकत्र बहूनां सद्भावे एकेनैव शुक्लादिप्रतिपत्तेर्जनितत्वादपरतद्भेदकल्पनावैयर्थ्यप्रसङ्गान्न तदभ्युपगमः / न चैवमनसेकाकाराणामिति तदप्यसंगतं व्याप्याव्याप्यवृत्तित्वविकल्पद्वयेऽपि दोषप्रतिपादनात् / अथ याप्यवृत्तित्वेन विरोधदोषः शेषाणामाश्रयव्यापित्वमेवेत्यवधारणानभ्युपगमात् नन्वेवं सूक्ष्मविवरप्रतिष्ठालोकोद्योतितान्यतरपटविभागवृत्तिरूपदेशस्य प्रतिपत्तौ यदितदारभ्य पटावयविनः प्रतिपत्तिस्तदाधेयाशेषशुक्लादिरूपप्रतिपत्तिरपि भवेत्। आधेयप्रतिपत्तिमन्तरेण तदाधारत्वस्य प्रतिपत्तुमसक्तेः। न चान्यतरान्यतमरूपाधारत्वव्यतिरिक्तं तस्य तदन्यरूपाधारत्वमनेकमनेकस्वभावयोगिनः पटस्यानेकत्वप्रसक्तेः स्वभावभेदलक्षणत्वाद्वस्तुभेदस्यान्यथा तदयोगात्। तदनेकत्वेऽपि तस्यैकत्वे कथं नानेकाकारमेकं स्यात्। अथ तत्प्रतिपत्तौ भवेद् विप्रतिपत्तिस्तर्हि निराधारस्य रूपस्य प्रतिपत्तौ गुणरूपता विशीर्यंत द्रव्याश्रयादिलक्षणयोगित्वात्तस्य न च तद्रूपताप्रतिपत्तौ तल्लक्षणयोगिता तस्यावगन्तुं शक्या