________________ कजकारणभाव १६३-अभिधानराजेन्द्रः भाग 3 कन्जकारणभाव स्थायां सत्वे प्रागनवस्थायोगदसत्वेऽपि शशशृङ्गस्येव तदनुपपत्तेः / अथास्योत्पत्तिदर्शनात्प्रागभावो न शशशृङ्गस्येति नेतरेतराश्रयदोषप्रसक्तेः / तथा हि यावदस्य प्रागभावत्वं न तावदुत्पत्तिसिद्धिः यावच्च नोत्पत्तिसिद्धिर्न तावत्प्रागभावित्वसिद्धिरिति व्यक्तमितरेतराश्रयत्वम्। अथ कारणस्य कार्यशून्यताप्रागभावः प्रागेव सिद्धः असदेतत् अकारणस्यापि कार्यशून्यतोपलम्भात्तत्संबन्धात्घटस्य तत्कार्यताप्रसक्तेः / तथा हि यस्य प्रागभावित्वं तस्य कार्यता तच्च कार्यशून्य पदार्थान्तरं कारकाभिमतादन्यत्। अपिचतत् प्रागभावस्वभावं प्राप्तं तत्संबन्धेन च घटादेः शशशृङ्गादिव्यवच्छेदेन कार्यता अभ्युपगतेति सूत्रपिण्डकार्यताऽपिघटस्यैवं भवेत्।नचतदन्वयव्यतिरेकस्तस्यैव तत्र प्रतिभासनात् / नच कारणस्वरूपमेव प्रागभावो निर्विशेषणस्य स्वरूपमात्रस्य कार्येऽपि सद्भावात्। तस्यापि प्रागभावरूपताप्रसक्तेः तथा प्रतीत्यभावात् नतद्रूपतेति तन्न प्रतीतिमात्रादनपेक्षात् वस्तुस्वरूपाद्वस्तुव्यवस्थायोगात्। ततो मृत्पिण्डादिरूपतया वस्तु गृह्यते। अध्यक्षादिनानपुनस्तद्व्यतिरिक्तकारणादिरूपतायास्तस्यास्तत्राप्रतिभासनात् / प्रतिभासनेऽपि विशिष्टकार्यापेक्षया कारणत्वस्य प्रतिपत्तौ कार्यप्रतिभासमन्तरेण तस्याप्रतीतेरसतस्तदानीं कार्यस्याप्रतिभासनात्प्रत्यक्षस्यासद्ग्राहकत्वेन भ्रान्तता प्रसक्तेः / तदा तत्कार्यस्य सत्वप्रशक्तिः स्यादिति / कथमसति कारणव्यापारः प्रतीयेत तन्नासतः कार्यत्वंयुक्तम् / नाष्यसत्कारणं कार्य तदानीमसति कारणे तस्यतस्य तत्कृतत्वायोगात्क्षणमाबावस्थायिनः कारणस्वभावमात्रव्यवस्थितेरन्यत्र व्यापारायोगात्। अथ तदनन्तरं कार्यस्य भावात् प्रागभावित्वमात्रमेव कारणस्य व्यापारः असदेतत् समस्तभावलक्षणानन्तरं विवक्षितकार्यस्य सद्भावात् सर्वेषां तत्सर्वकालभावित्वस्य भावात्तत्कारणताप्रसक्तेः / अथ सर्वभावक्षणाभावेऽपि तदभावे इतिन तस्य तत्कार्यता न क्षणिकेषु भावेषु विवक्षिताभावएव सर्वत्र विवादाध्यासितकार्यसद्भावात्तदपेक्षयाऽपि तस्य कार्यता भवेत्। न च क्षणिकस्य कार्यस्य तदभावेऽपि पुनर्भवनसंभवस्त-स्य तदेव भावादन्यदा कदाचिदप्यभावान्न च विशिष्टभावक्षणधर्मानुविधानात्तस्य तत्कार्यताव्यवस्था सर्वथा च तद्धर्मानुविधाने तस्य कारणरूपतापत्तेस्तत्प्राक्कालभावितया तत्कार्यताव्यतिक्रमात् / कथंचित्तद्धमानुविधाने अनेकान्तवादापत्तेरसत्कारणं कार्यमित्यभ्युपगमव्याघातात्। अथ सन्तानापेक्षः कार्यकारणभाव इत्ययमदोषो न सन्तानस्य पूर्वापरक्षणव्यतिरेकेणाभावात्। भावे वा तस्यैव कार्यकारणरूपस्यार्थक्रिया-- सामर्थ्यात्सत्वं स्यान्न क्षणानामर्थक्रियासामर्थ्य विकलतया भवेत्। अथ तत्संबन्धिनः सन्तानस्य कार्यकारणत्वे तेषामपि कार्यकारणभावो न भिन्नयोः कार्यकारणभावादपरस्य संबन्धस्याभावात्सन्तानस्य च सर्वजगत्क्षणानन्तरभावित्वेन सर्वसन्तानताप्रसक्तिः स्यात् / किं घ तस्यापि नित्यत्वेक्षणकार्यत्वे च सत्कार्यवादप्रसक्तिः क्षणिकत्वे चान्यथाप्रसिद्धेस्तस्य तत्कार्यताऽप्रसिद्धर्व्यतिरेकश्च कार्यतानिबन्धनं क्षणि-- कपक्षे न संभवतीति प्रतिपादितमेव न चात्राप्यपरसन्तानप्रकल्पनया कार्यकारणभावप्रकल्पनं युक्तमनवस्थाप्रसक्तेः। तथा हि सन्तानस्यापि कार्यताभ्युपगमे क्षणिकत्वान्न कार्यरूपताऽतः सन्तानान्तरमत्रापि कार्यतानिबन्धमभ्युपगन्तव्यं तत्रापि च क्षणिकत्वे कार्यताप्रसिद्धेस्त- | निबन्धनमपरं सन्तानान्तरमभ्युपगमनीयमित्यनवस्था परिस्फुटैव। किं च क्षणिकभावाभ्युपगमवादिनो यदि भिन्नकार्योदयाद्धेतोः सत्वमभिमतं तदा तत्कार्यस्याप्यपरकार्योदयात् सत्वसिद्धिरित्यनवस्थाप्रशक्तेन क्वचित् सत्वव्यवस्था स्यादिति कृतस्तद्व्यवच्छेदेनासत्कार्यमिति व्यपदेशः / अथ ज्ञानलक्षणकार्यसद्भवाद्धेतोः सत्यव्यवस्थितिः / ननु ज्ञानस्यापि कथं ज्ञेयसत्ताव्यवस्थापकत्वं ज्ञेयकार्यत्वादिति चेत् ननु किं तेनैव ज्ञानेन ज्ञेयकार्यतास्वात्मनःप्रतीयेतउत ज्ञानान्तरेणानतावत्तेनैव तस्य प्रागसत्वाभ्युपगमादप्रवृत्तेः प्रवृत्तौ वा तत्कार्यतावगतिः / अथ ज्ञानकालत्वेऽपि ज्ञानस्य ज्ञेयकार्यता नन्वेवमविशेषाज्ज्ञेयस्यापि ज्ञानकार्यतावगतिः स्यादिति तह्यवस्थापकं प्रसज्येत / न च समानकालयोस्तम्भकुम्भयोः कार्यकारणतोपलब्धेति प्रकृतेऽपि सा न स्यादथ केवलस्यापि कुम्भस्य दृष्टरकार्यता ज्ञानस्यापि केवलस्य दृष्टरकार्यताप्रशक्तिस्तस्य ततोऽन्यत्वव्यभिचार इति चेत्। ननु कुम्भोऽपि कुतोऽन्यः स न भवेत् प्रत्यभिज्ञानान्नान्य इति चेत् एतज्ज्ञानेऽपि समानं नित्यतावत्कुम्भस्यैवं भवेदिति कुतोऽसत्कार्यवादः / न च प्रत्यभिज्ञानं भवतः प्रमाणं पूर्वापररूपाधिकरणस्यैकतयाऽप्रतीतेः। न हि पूर्वापरप्रत्ययाभ्यामपरपूर्वरूपताग्रहः नाप्येकप्रत्ययेन पूर्वापररूपद्वयस्य क्रमेण ग्रह एकस्याक्रमस्य क्रमवद्रूपग्रहकतयाऽप्रवृत्तेः / न च स्मरणस्य द्वयोवृत्तिः संभवति न वास्य प्रमाणता न च पूर्वापरस्य क्रमेण ग्रह एकस्याक्रमस्य क्रमवद्रूपग्रहकतया प्रवृत्तेः न च स्मरणस्य द्वयोः प्रत्यययोः परस्परपरिहारेण वृत्तौ तत उत्पद्यमानं स्मरणमेकत्वस्य वेदकं युक्तमग्रहीतग्राहितया अस्मरणरूपताप्रशक्तेः। न चात्माऽप्येकत्वमवैति प्रत्यक्षादप्रमाणवशेनाथविदकत्वात्तस्य चैकत्वेऽप्रवृत्तेर्न न प्रमाणनिरपेक्ष एवात्मैकत्वग्राहकः स्वापमदमूर्छाद्यवस्थामपि तस्य तद्ग्राहकत्वोपपक्तेः / न चैतस्याप्येकत्वं कुतश्चित्प्रमाणात् प्रसिद्धं तद्गाहकत्वेन तस्याप्रतीतेः। न च बौद्धस्यात्मा अन्यथा वस्तु नित्यमस्ति क्षणिकाः / सर्वसंस्कारा इतिवचनात् तन्न तेनैवात्मनः प्रमेयकार्यतावगतिः नाप्यनेनतस्यापि स्वप्रमेयकार्यावगतौ प्रागवृत्तितयाऽसामर्थ्यात्। तत्रज्ञानलक्षणमपि कार्य हेतोः सत्ता व्यवस्थापयितुं समर्थ क्षणिकैकान्तवादे अध्यक्षस्य यथोक्तन्यायेनः पौर्वापर्ये अप्रवृत्तरत एव नानुमानस्यापि पौर्वापर्ये प्रवृत्तिस्तस्य तत्पूर्वकत्वात्। प्रत्यक्षाप्रतिपन्नेऽर्थे परलोकादाविवार्थविकल्पनामात्रत्वेन सर्वज्ञानस्याभ्युपगमात् तन्नासत्कार्यवादः प्रमाणसङ्गतः / सत्कार्यवादस्तु प्रागेव निरस्तत्वादयुक्त एव / तथाहि नित्यस्य कार्यकारित्वं तत्र स्यात्तच्चायुक्तं नित्यस्य व्यतिरेकाप्रसिद्धितः कार्यकारणसामाप्रसिद्धेः / न हि नित्यसर्वदेशकालव्यापिनः क्वचित्कार्यव्यापारविरहिणः सामर्थ्यमवगन्तुं शक्यम् / अथ सर्वदेशाव्यापिनस्तस्यतत्रसामर्थ्य भविष्यति तदसद्यतः सर्वदेशाव्याप्तिः तस्य तथा प्रतीतर्यद्यवसीयते सर्वकाला च्याप्तिरपि तस्य तत एवाभ्युपगमनीया स्यात् / अभ्युपगम्यते एवेति चेन्नन्वेवं कतिपयदेशकालव्याप्तिरप्यप्रतिपत्तेरेवानुपपत्तेः निरंशैकक्षणरूपता भावानां समायाता / न च तदेवं कार्यजनकता प्राक् प्रतिक्षिप्तत्वान्न चैकान्तनित्यव्यापकत्यपक्षे प्रमाणप्रवृत्तिरित्यसकृत् प्रतिपादितम्। न चासति कार्ये निर्विषयत्वात् कारणव्यापारसंभवात् सत्येव तत्र तेषां व्यापारोऽतो न दृष्ट्वा श्रुत्वा ज्ञात्वा वा हेतूनांकार्ये व्यापारस्तेषां जडत्वनेतदसंभवात्। न चादृ