SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ कज्जकारणभाव 192- अभिधानराजेन्द्रः भाग 3 कजकारणभाव नाम कश्चित्संबन्धी यद्यन्योऽभावो भवेत् निष्पन्नस्य भावस्य तदा तेन तस्य संबन्धासिद्धेः पूर्ववद्दर्शनप्रसङ्ग इति स्वयमेव भावो न भवतीत्यभिधीयते। तथा न निष्पन्नस्य भावस्य भावो नामान्यः कश्चित् तेन तस्य संबन्धासिद्धेर्न भावस्य सत्ता भवेदिति स्वयमेव हेतुनिरपेक्षो भावो भवतीत्येतदपि वक्तव्यम् / यदि पुनस्तत्र न किंचिद्भवतीति क्रियाप्रतिषेधमात्रमिति न हेतुव्यापारः कथं तर्हि तदवस्थस्य भावस्य दर्शनादिक्रिया न भवेदिति वक्तव्यम् / स एव न भवतीति चेत्तर्हि तस्योद्वयनं करोति विनाशहेतुरित्यभ्युपगन्तव्यमिति तद्धेतूनामकिंचित्करतयाऽनपेक्षणीयत्वमनुपपन्नमत एवापेक्षणीयत्वोपपत्तिर्भावस्यान्यथा सहानवस्थानलक्षणविरोधासिद्धेः प्रतिनियतव्यवहारोच्छेदप्रसक्तिः / अपि च यदि नाम स एव न भवति तथापि प्रध्वंसाभावः प्रागभावाभावात्मक उत्तरकार्यवदभ्युपगन्तव्यस्तख्यापि तदनन्तरमुपलम्भात् / एतावान् विशेषो विनाशप्रतिपादनाभिप्राये सति तत्प्राधान्येतरोपसर्जनविवक्षायां विनष्टो भाव इति प्रयुज्यते। प्रतिपत्तिरपि तथैव विनाशोपसर्जनेतरप्राधान्यविवक्षायामुत्पन्नानि कपालानीति प्रतिपत्तिरपि तथैव / परमार्थतस्तूभयात्मकमन्यथा पूर्वोक्तदोषानतिवृत्तेः / न च कारणस्य निरन्वयविनाशे कार्यदलस्यात्यन्तासती उत्पत्तिर्घटते विनष्टस्य सकलशक्तिविरहिणः कारणस्य कार्यक्रियायोगादविनष्टस्वसत्ताकाले कार्यनिवर्त्तने हेतुफलयोः सह भाव इति तद्व्यपदेशः सव्येतरगोविषाणयोरिव न भवेत्। स्वकाले पश्वात्कार्यस्य भावे तदाकारणस्य स्वसत्तामत्यजतः क्षणक्षयपरिक्षयोऽनिष्टोऽनुषज्यते किं च कारणसत्तासमये कार्यस्याभवतः स्वयमेव पश्चाद्भवतस्तदकार्यत्वप्रसक्तिश्च / तथा हि यस्मिन्नसति यन्न भवति असति च भवति तत्तस्य न कार्यमितरचन कारणं यथा कुलालस्य पटादिः / क्षणक्षयपक्षे च प्रथमक्षणे कारणाभिमतभावसद्भावेन भवति कार्यमसति तस्मिन् द्वितीयक्षणे भवति चेति न तत्तकार्यमितरच तत्कारणमिति हेतफलभावाभावस्य तन्मात्रनिबन्धनत्वात / अत एव क्षणिकादर्थक्रिया व्यावर्त्तमाना स्वव्याप्यसत्वलक्षणमादाय निवर्तत इति यत्र सत्वंतत्राक्षणिकत्वसिद्धिमासादयति।नच कार्यकालेऽभवतोऽपि कारणस्य प्राक्तनानन्तक्षणे भावित्वात्कारणत्वं कार्यकाले स्वयमेवाभवतोऽकारणान्तरवत् कारणत्वयोगात् / कार्यस्य च कारणकाले आत्मनैवाभवतः / कार्यान्तरवत् तत्कार्यत्वानुपपत्तेः क्षणिकस्य च प्रमाणाविषयत्यान्न तत्र कार्यकारणभावकल्पनायुक्तिसङ्गता न चानुपलब्धेऽपि तत्र कारणभावाव्यवस्थाऽतिप्रसङ्गान्न च क्षणक्षयमीक्षमाणोऽपि सदृशापरापरोत्पत्त्यादिवन्नोपलक्षयतीति वक्तव्यं यतो नाध्यक्षात् क्षणक्षयलक्षणस्तत्र कार्यकारणभावं व्यवस्थापयितुं शक्नोति नाप्यनुमानात् क्षणिकत्वं व्यवस्थापयितु समर्थस्तस्य स्वांशमात्रावलम्बितया वस्तुविषयत्वायोगात्। न च मिथ्याविकल्पनाध्यवसितं क्षणिकत्वं वस्तुनो व्यवस्थापित भवति यदप्यक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधादित्याद्युक्तं तदपि सहकारिसन्निधानवशादक्षणिकस्य क्रमेणार्थक्रियां निर्वर्तयतोऽयुक्तमेव / यदप्युक्तं तत्करणस्वभावश्वेदक्षणिकः प्रागेव तत्करणप्रसङ्गः पश्चादिति स्वभावाविशेषादिति तदप्ययुक्तं यतो न वैकिंचिदेकं जनक सामग्रीतः फलोत्पत्तेः / अक्षणिकश्व सामग्रीसन्निधानापेक्षया कार्यनिर्वर्तनस्वभावः केवलस्तु तदकरणस्वभावः न च तदा भावि कार्याकरणादवस्तुत्वप्रसक्तेरत एकत्र कारणान्तरापेक्षानपेक्षाभ्यां जनकत्वाजनकत्येऽविरुद्ध यतो न क्षणिकवाद्यभ्युपगतक्षणस्यासंबन्धान्तरसन्निधानासन्निधानकृत स्वभावभेदः / अन्यथाऽनेकसामग्रीसन्निपातिन एकक्षणस्यैकदा विलक्षणानेककार्योत्पादनेऽनेकत्वाप्रसक्तिर्भवेत्। दृश्यते च प्रदीपक्षणस्य समानजातीयक्षणान्तरकज्जलं चक्षुर्विज्ञानादनेककार्यनिर्वर्तकत्वमेकस्य नानासामग्युपनिपातिन इति / क्रमेणाप्यक्षणिकस्य तग्रुद्धं यथा चैकक्षणस्य स्वपरकार्यापेक्षयैकदा जनकत्वाजनकत्वे अविरुद्ध तथाऽक्षणिकस्यापि सहकारिकारणसन्निधानासन्निधानाभ्यां क्रमेण कार्यजनकत्वेन विरोत्स्यते। विज्ञप्तिपरमाणुपक्षेऽपि यथैको ज्ञानपरमाणुः संबन्ध्यन्तरजनितस्वभावभेदेऽप्यभिन्नः अन्यथा दिक्षट्कयोगात् सावयवत्वकल्पनयाऽवस्तुत्यप्रसक्तेः सेनावनादिवत / स्वसंविदि निर्विकल्पिकायामप्रतिभासतः सर्वप्रतिभासविशेषवत् एवमक्षणिकोऽपि क्रमभाव्यनेकतत्सहकारिसंबन्ध्यन्तरसव्यपेक्षकार्यजननस्वभावभेदेऽप्यभिनोऽभ्युपगन्तव्यो जनकत्वभेदेऽप्यभिन्नस्वभाव इति नाक्षणिकेऽर्थक्रियाविरोधो न च क्षणक्षयेऽध्यक्षप्रवृत्तिव्यतिरेकेणाक्षणिके अर्थक्रियाविरोधः सिध्यतीतरेतराश्रयप्रसक्तेः / तथा ह्यक्षणिकत्वेऽर्थक्रियाविरोधात् प्रतिक्षणविशरारुष्वध्यक्षप्रवृत्तिसिद्धिस्तस्याश्चाक्षणिके अर्थक्रियाविरोधसिद्धिरिति / न चाक्षणिक्चादमतेऽप्ययं समानो दोषः कालान्तरस्थायिनि भावेऽध्यक्षप्रवृत्तिनिश्चयादवे क्षणिकत्वेऽर्थक्रियाविरोधस्य सिद्धेर्नच क्षणिकेऽध्यक्षवृत्तिरपजातैव केवलं श्रान्तिकारणस द्भावान्न निश्चितेति वक्तव्यं विहितोत्तरत्वात् / न चैकक्षणिकस्यार्थक्रियाकरणलक्षणं सत्वमन्यस्य सत्तासंबन्धादेः सत्वस्य परेणानभ्युपगमादसत एकान्तक्षणिकाक्षणिकवदेकान्ताक्षणिकेष्वप्यर्थक्रियालक्षणं सत्वं पूर्वोपदर्शितन्यायेन व्यावृत्तं संबन्धलक्षणस्य च सत्वस्यातिव्याप्तित्वासंभवादिदोषदुष्टत्वादसत्यमित्येकान्ताक्षणिका अप्यसन्तो भावा इत्युत्पादव्ययधाव्यलक्षणमेव भावानामभ्युपगन्तव्यमिति नैकान्ततः कारणेषु कार्यमसदितिन तदितिपक्षो मिथ्यात्वमिति स्थितम्।अपरस्तु कार्यकारणभावस्य कल्पना शिल्पिविरचितत्वात् / तदुभयव्यतिरिक्तमद्वैतमात्रं तत्वमित्यभ्युपपन्नस्तन्मतमपि मिथ्याकार्यकारणोभयशून्यत्वात् खरविषाणवदद्वैतमात्रस्य व्योमोत्पलतुल्यत्वात् सम्म० / किञ्च / / जे संतवाए दोसा, सक्कोलूया वयंति संखाणं / संखाए असव्वाए, तेसिं सव्वे पिते सच्चा।। यनेकान्तसद्वादपक्षे द्रव्यास्तिकाभ्युपगमपदार्थाभ्युपगमे शाक्योलूका दोषान्वदन्ति सांख्यानां क्रियागुणव्यपदेशोपलब्ध्यादिप्रसङ्गादिलक्षणास्ते सर्वेऽपि तेषां सत्या इत्येवं संबन्धः कार्यः / ते च दोषा एवं सत्याः स्युः / यद्यन्यनिरपेक्षतयाऽभ्युपगतपदार्थप्रतिपादकं तच्छास्वं मिथ्या स्यात् नान्यथा प्रागपि कार्यावस्थात एकान्तेन तत्सत्वनिबन्धनत्वातेषामन्यथा कथंचित्सत्वे अनेकान्तवादापत्तेर्दोषाभाव एव स्यात्। सांख्या अप्यसत्कार्यदोषानसदकरणादीन् यान् वदन्ति ते सर्वे तेषां सत्या एव एकान्ता सति कारणाभावात् अन्यथा शशशृङ्गादेरपि कारणव्यापारादुत्पतिः स्यात् / अथ शशशृङ्गस्य कारणाभावः अत्यन्ताभावरूपत्वात् तस्य इति चेत् तदेव कुतः कारणाभावादिति चेत् सोऽयमितरेतराश्रयदोषो घटादीनामपि च मृत्पिण्डावस्थायामसत्वेऽपि कुतः कारणसद्भावः प्रागसत्वादेव तत्र कारणसद्भावः सति कारणव्यापारासम्भवादिति चेत् / असदेतत् घटस्य मृत्पिण्डाव
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy