________________ कन्जकारणभाव 191 - अमिधानराजेन्द्रः भाग 3 कजकारणभाव स्योपलब्धिप्रसक्तेश्च कारणभावाभावरूपानतन्निवृत्तिः कारणस्यानुगतव्यावृत्तताप्रसक्तेरत एव च सदसद्रूपं स्वपररूपापेक्षयाऽनेकान्तवादिभिर्वस्त्वभ्युपगम्यते पररूपेणास्य सत्वे वस्तुनो निःस्वभावताप्रसक्तेः स्वरुपवत् / पररुपेणापि सत्वे पररुपताप्रसक्तेः एकरूपापेक्षयैव सदसत्वविरोधादन्यथा वस्त्वेव न भवेत् / नापि कार्यभावाभावरूपा कार्यस्योत्पत्त्यनुत्पत्युभयरूपताप्रसक्तेः तथा चरसिद्धसाध्यता केवलोभयपक्षोक्तदोषप्रसक्तिश्च नापि कार्यकारणोभयभावरूपा प्रत्येकपक्षोदितसकलदोषप्रसक्तेः परस्परव्यपदेश्यकार्यकारणभावाभावरूपकारणनिवृत्त्यभ्युपगमेऽनेकान्तवाद प्रसक्तिश्च / नाप्यनुभयभावाभावरूपा अनुभयरूपस्य वस्तुनोऽभावान्नच तन्निवृत्तेः सत्वमेकान्तभावाभावयोर्विरोधात्। अनुभयभावरूपत्वे तु तस्याः कारणस्याप्रच्युतत्वात्। तथैव चोपलब्धिप्रसङ्ग अपि च कारणनिवृत्तिस्तत्स्वरूपादिनाऽभिन्ना वा यद्यभिन्ना निवृत्तिकालेऽपि कारणस्योपलब्धिप्रसङ्गस्तनिवृत्तेः कारणात्मकत्वात्। स्वकालेऽपि वा कारणस्योपलब्धिप्रसङ्गस्तनिवृत्तेः कारणात्मकत्वात् / स्वकालेऽपि वा कारणस्योपलब्धिर्न स्यात् तस्य तन्निवृत्तिरूपत्वाद्भिन्ना चेत्कारणस्य निवृत्तिरिति संबन्धाभावादभिधानानुपपत्तिः संकेतवशादभिधानप्रवृत्तावप्याधेयनिवृत्तिकालेऽधिकरणस्य सत्वमसत्वं वेति वक्तव्यम्। सत्वे कारणविनाशानुपपत्तिः आधेयनिवृत्त्या करणस्वरूपस्याधारस्याविरोधे विरोधे वा कारणतन्निवृत्त्योर्योगपद्यासंभवादसत्वेऽप्यधिकरणविरोधोऽसतोऽधिकरणत्वायोगात् तस्य वस्तुधर्मात्यादथ कारणनिवृत्तेनाधिकरणमपि तु तद्धेतुस्तन्निवृत्तेरुत्तरकार्यवत् तत्कार्यत्वप्रसङ्गात् / तदनभ्युपगमे कारणस्य तद्धेतृत्वप्रतिज्ञाहानिरकार्यस्य तद्धेतुत्वविरोधे वन्ध्याया अपि सुतं प्रति हेतुत्वप्रसक्तेः। नच कारणहेतुकैव कारणानिवृत्तिः कारणानन्तरभावित्वविरोधात्नच कारणहेतुका तन्निवृत्तिः कारणसमानकालं तदुत्पत्तिप्रसङ्गतः प्रथमक्षणे एव कारणस्यानुपलब्धिर्भवत् तन्निवृत्त्याऽविरुद्धत्वात्। न च कारणनिवृत्तिः स्वहेतुका स्वात्मनि क्रियाविरोधात् न च निर्हेतुकैव कारणानन्तरमेव तस्याभावविरोधात् अहेतो र्देशादिनियमाभावात् / अथ कारणं निवृत्तेर्हेतुः कारणं वा किं तु स्वयमेव न भवति। नन्वत्र किं स्वसत्तासमय एव स्वयं न भवत्याहोश्विदुत्तरकालमिति विकल्पद्वयी गतिः। यदि प्राक्तनविकल्पस्तदा कारणानुत्पत्तिप्रसङ्गः। प्रथमक्षण एव निवृत्त्याक्रान्तत्वादुत्पत्यभावेन निवृत्तिरप्यनुत्पन्नस्य विनाशासंभवात् नापि द्वितीयस्तदा निवृत्तिभवनेनोत्पन्नानुत्पन्नतया कारणस्वरूपा भवनयोरविरोधात् स्वयमेव भावो न भवेदिति यचो घटते नान्यथा। न च जन्मान्तरं भावाभावस्य भावात्मकत्वात्तदव्य-तिरिक्त एवाभावो नन्वेनमपि जन्मानन्तरं स एव न भवतीत्यनेनाभावस्य भावरूपतैवोक्तेत्युत्त रकालमपि कारणानिवृत्तेस्तथैवोपलब्ध्यादिप्रसङ्गो भावस्याभावात्मकत्वान्नायं दोष इति चेन्नात्रापि पर्युदासाभावात्मकत्वं भावस्य प्रसज्यरूपाभावात्मकत्वं वा / प्रथमपक्षे स्वरूपपरिहारेण तदात्मकता प्रतिपद्यते अपरिहारेण वा प्रथमपक्षे स्वभवनप्रतिषेधपर्यवसानत्वान्न पर्युदासाभावात्मको भावो भवेन्न वाऽसौ तथा तद्भाहकप्रमाणाभावात्। तथा भूतभावग्राहकप्रमाणाभ्युपगमे च प्रसज्यपर्युदासात्मको भावो भवेदित्यनेकान्तप्रसिद्धिर्द्वितीयपक्षेऽपि न पर्युदासोऽनिषिद्धस्तत्स्वरूपत्वात् पूर्वभावस्वरूपवत् / प्रसज्यरूपाभावात्मकत्वेऽपि भावस्य प्रतिषिध्यमानस्याश्रयो वक्तव्यो न भवेत् मृत्पिण्डल क्षणमाश्रयस्तस्य प्रतिषिध्यमानस्य चाश्रयत्वानुपपत्तेनापि घटलक्षणं कार्यमाश्रयः कारणनिवृत्तेहि प्राग्घटस्यासत्वेनायमिति प्रत्ययाविषयत्वादयं प्रत्ययविषयत्वे चायं ब्राह्मणो न तदन्योऽयमिति वचः प्रसज्यपर्युदासो व्यवहारो दृष्टो नान्यथेति प्रतिषेधप्रधानविध्युपसजनविधिप्रधानप्रतिषेधोप-सर्जनयोः शब्दयोः प्रवृत्तिनिमित्तधर्मद्वयाधारभूतं द्रव्यं विषयत्वेनाभ्युपगन्तव्यमन्यथा तदयोगात् / तथा चानेकान्तवादापत्तिरयतसिद्धेति तथाभूतस्य वस्तुनः प्रमाणबलायातस्य निषेद्धुमशक्यत्वात्। एकान्तेन घटस्योत्पत्तेः प्रागस्तित्वे क्रियायाः प्रवृत्त्यभावः फलसद्भावात्तत्सद्भावेऽपि वृत्तावनवस्थाप्रसक्तेः कारणेऽप्येतदविशेषतस्तद्वत्प्रसङ्गद्वयोरप्यभावप्रसङ्गो न चैतदस्तितथा प्रतीतेस्तन्न मुत्पिण्डे घटस्य सत्वं नाप्येकान्ततोऽसत्वं मृत्पिण्डस्येव कथंचिद्धटरूपतया परिणतौसर्वात्मना पिण्डनिवृत्तिपूर्वोक्तदोषो न निवृत्ते घटसदसत्वयोराधारभूतमेकं द्रव्यं मृलक्षणमेकाकारतया मृत्पिण्डघटयोः प्रतीयमानमभ्युपगन्तव्यम् / न च कारणप्रवृत्तिः कारणगता मृद्रूपता तन्निवृत्तिकाले च कार्यगता सा परैव नोभयत्रामृदूपताया एकत्वं भेदप्रतिपत्तावपि मृत्पिण्डघटरूपतया कथंचिदेकवत्वस्यावाधितप्रत्ययगोचरत्वात् / उपलभ्यत एव हि कुम्भकारव्यापारस्त्वपेक्षं मृद्दव्यं पिण्डाकारपरित्यागेन शिविकद्याकार-तया परिणममानम्। न हि तत्रेदं कार्यमाधेयभूतं भिन्नमुपजातं पङ्के पङ्कजवदिति प्रतिपत्तेः, नापि तत्करणनिर्वय॑तया दण्डोत्पादितघटं नापि तत्क र्तृतया कुविन्दव्यापारसमासादितात्मलाभः पटवत्, नापि तदुपादानतया आम्रवृक्षोत्पादिताम्रफलवत्। तस्मात्पूर्वपर्यायविनाश उत्तरपर्यायोत्पादात्मकस्तद्देशकालत्वादुत्पादात्मवत्। अभावरूपत्वादा प्रदेशस्वरूपघटाद्यभाववत् प्रागभावाभावरूपत्वाद्वा घटस्वात्मवत्ता एवमनभ्युपगमे पूर्वपर्यायस्य ध्वंसादुत्तरस्य चानुत्पत्तेः शून्यताप्रस-क्तिरुत्तरपर्यायोत्पादाभ्युपगमे वा तदुत्पादः पूर्वपर्यायप्रध्वंसात्मकः प्रागभावाभावरूपत्वात् प्रध्वंसाभाववन्न च प्राक्तनपर्यायविनाशात्म-कत्वे उत्तरपर्यायभवनस्य तद्विनाशपूर्वपर्यायस्योन्मजनप्रसक्तिरभावाभावमात्रत्वानभ्युपगमाच्च / पुनस्तस्य प्रतिनियतपरिणतिरूपत्वात् भावाभावोभयरूपतया प्रतिनियतस्य वस्तुनः प्रादुर्भाव मुद्रादिव्यापारानन्तरमुपलभ्यमानस्य कपालोदरभावस्य नाहेतुकता। न चोभयस्यैकव्यापारादुत्पत्तिविरोधस्तथा प्रतीयमाने विरोधासिद्धेः / ततस्तद्विपरीत एव विरोधसिद्धरुभमयैकान्ते प्रमाणानवतारात् तथात्मकैकत्वेन प्रतीयमानप्रतिहेतोर्जनकत्वविरोधे घटक्षणसत्तायाः स्वपरविनाशोत्पाकत्वं विरुध्यते। एवंचाकारणघटक्षणान्तरोत्पत्तिर्भवत्। न च विनाशस्य प्रसज्यपर्युदासपक्षद्वयेऽपि व्यतिरिक्तादिविकल्पतो हेत्वयोगान्निहेंतुकता युक्ता सत्ताहेतुत्वेऽपितथा विकल्पनस्य समानत्वेन प्राक्प्रदर्शितत्वात्। यदपि विनाशस्य निर्हेतुकत्वात्स्वभावादनुबन्धितेति निरन्वयक्षणक्षयिता भावस्येति नान्वयस्तदप्यसङ्गतं विनाशहेतोर्मुद्रादेर्घटविनाशस्य प्रत्यक्षसिद्धत्वान्न ह्यध्यक्षसिद्धे वस्तुन्यनुमानं विपरीतधर्मोपस्थापकत्वेन प्रामाण्यमात्मनाशात्करोति। यदपि विनाशं प्रति तद्धेतोरसामात् क्रियाप्रतिषेधाच स्वरसवृत्तिविनाश इति नान्वयस्तदप्यसंगतं विनाशहेतोर्भावाभावीकरणसामर्थ्यात्। यथा हि भावहेतुर्भावीकरोति अन्यथा स्वयमेव नाशेऽपि भावानां द्वितीयक्षणे स्वयमेव भावी भवतीति भवेत् / यथा हि निष्पन्नभावस्य नाभावो