________________ कजकारणभाव १९०-अभिधानराजेन्द्रः भाग 3 कज्जकारणभाव अपि च यद्यत्कार्यातिशयं तत्तदसन्न क्रियत इत्यभिधीयते तदपि सर्वस्य भावनिष्पत्तेरकार्यातिशयमेवेति कथं क्रियते। ततः शक्तस्य शक्यकरणादित्ययमत्यनैकान्तिकः / सत्कार्यवादे च कारणभावस्याघटमानत्वात्कारणभावादित्ययमप्यनैकान्तिकः / अथवा कार्यसंभवस्य सतः प्राक् प्रतिपादितत्वादसत्कार्यवाद एव चोपादानग्रहणदिनियमस्य युज्यमानत्वादुपादनग्रहणादित्यादिहेतुचतुष्टयस्य साध्यविपर्ययसाधनविरुद्धताऽवसेया / यद्यसदेवोत्पद्यत इति भवतां मतं तत् कथं सद सतोरुत्पादः सूत्रे प्रतिषिद्धः उक्तं च। तत्रानुत्पन्नाश्च महामतेः सर्वधाः सदसतोरनुत्पन्नत्वादिति वस्तूनां पूर्वापरकोटिशून्यक्षणमात्रावस्थायी स्वभाव एव उत्पाद उच्यतेन तत्वान्तरं प्रतिक्षणेन तन्मात्रजिज्ञासायांन पुनर्वभाषिकपरिकल्पिता जातिः संस्कृतलक्षणा प्रतिषेत्स्यमानत्यात्तस्याः / नापि वैशेषिकादिपरिकल्पितसामान्यसमवायः स्वकारणसमवायो वा निषेत्स्यमानत्त्वात्तयोः परमतेन नित्यस्य च जन्मानुपपत्तेः / “सत्तास्वकारणाश्लेषकरणाकारणं किल। सा सत्तास संबन्धो, नित्यःकार्यमथेह कि" मिति // 1 // स एवमात्मक उत्पादो नासतस्तादात्म्येन संबध्यते सदसतोर्विरोधात्न ह्यसत्सद्भयति। नापि सत्तापूर्वभाविना संबध्यतेतस्य पूर्वमसत्वात्कल्पनाबुद्ध्या तु केवलं सत्ता वस्तुसंबध्यतेनह्यसन्नाम किंचिदस्ति यदुत्पत्तिमाविशेत्। असदुत्पद्यत इति तु कल्पनाविरचितव्यवहारमात्रं कल्पनावीजं तु प्रतिनियतपदानिन्तरोपलब्धस्य रूपस्योपलब्धिलक्षणं प्राप्तस्योत्पत्त्यवस्थातः प्रागनुपलब्धिस्तदेवमुत्पत्तेः प्राक्कार्यस्य न सत्वं धर्मो नाप्यसत्वं तस्यैवाभावात्। अपि च पयःप्रभृतिषु कारणेषु दध्यादिकं कार्यमस्तीति यदि कल्पते तदा वक्तव्यं किं व्यक्तिरूपेण तत्तत्र सत् अथशक्तिरूपेण तत्र यदि व्यक्तिरूपेणेति पक्षः स न युक्तः क्षीराद्यवस्थायामपि दध्यादीनां स्वरूपेणोपलग्धिप्रसङ्गात् नापि शक्तिरूपेण यतस्तद्रूपं दध्यादेः कार्यानुपलब्धिल-क्षणरूपात् किमन्यदाहोश्वित्तदेव / यदि तदेव तदा पूर्वमेवोपलब्धिप्रसङ्गो दध्यादेः / अथान्यदिति पक्षस्तदा कारणात्मनि कार्यमस्तीति अभ्युपगभस्त्यक्तो भवेत्। कार्याद्भिन्नतनोः शक्तिनिधानस्य पदार्थान्तरस्य सद्भावाभ्युपगमात्तथा हि दुग्धे याऽऽविर्भूतविशिष्टरसवीर्यविपाकादिगुणसम्पत्किमेतदेव दध्यादिकं कार्यमुच्यते क्षीरावस्थायां च तदुपलब्धिलक्षणप्राप्तमनुपलभ्यमानमसद्वयवहारविषयत्वमवतरति यचान्यच्छक्तिरूपंतत्कार्यमेवन भवतिन चान्यस्य भावेऽन्यत्सद्भवत्यतिप्रसङ्गात् / न चोपकारकल्पनया तद्व्यपदेशसद्भावेऽपि वस्तुव्यवस्था सद्वस्तु ( पुस्तकान्तरे शब्दस्तु वस्तु इति ) प्रतिबन्धाभावात्तद्भावेऽपि वस्तुसद्भावासिद्धेः सम्म०।अने०। सदसत्कार्यवादी सैद्धान्तिकस्त्वाह / यद्येकान्तेन कारणे कार्यमस्ति तदा कारणस्वरूपवत् कार्यस्वरूपानुत्पत्तिप्रसक्तिर्न हि सदेवोत्पद्यते उत्पत्तेरविरामप्रसङ्गात् / न च कारणव्यापारसाफल्यं तद्व्यापारनिवर्त्यस्य विद्यमानत्वात् तथा हि कारणव्यापारः किं कार्योत्पादने आहोश्वित् कार्याभिव्यक्तावुत तदावरणविनाश इति पक्षाः / तत्र न तावत्कार्योत्पादनेतस्य सत्वे कारकव्यापारवैफल्पादसत्वेस्वाभ्युपगमविरोधादभिव्यक्तावपि पक्षद्वयेऽप्येतदेव दूषणम्। आवरणविनाशेऽपि न कारकव्यापारःसतो विनाशाभावादसतो भावस्योत्पादवत् तन्न सत्कार्यवादे कारकव्यापारसाफल्यम् / न चान्धकारपिहितघटाद्यनुपलम्भेऽन्धकारोपलम्भवत् कार्यावरकोपलम्भो येन प्रतिनियतं किंचित्तदावारकं व्यवस्थाप्येत न च कारणमेव कार्यावारकं तस्य तदुपकारकत्वे प्रसिद्धेः न ह्यालोकादिरूपज्ञानोपकारकं तदावरकत्वेन वक्तुं शक्यम्। किं च आवारकस्य मूर्तत्वे कारणमूर्तत्वे चन कारणरूपस्य तदभ्यन्तरप्रवेशो मूर्तस्य मूर्तेन प्रतिघातादप्रतिद्याते च यथा कार्य कारणाभ्यन्तरप्रविष्टत्वात्तेनावृतमिति नोपलभ्यते तथा कारणस्याप्यनुपलब्धिप्रसङ्गः अप्रतिघातेनतदनुप्रविष्टत्वाविशेषात्। अथान्धकारवत् तदर्शनप्रतिबन्धकत्वेनतदावारकं नन्वेवमदर्शनेऽपि तस्य स्पर्शापलम्भप्रसङ्गस्तस्याप्यभावे तस्यासत्वमिति तदावारकं तत्स्वरूपविनाशकत्वं प्रसक्तम् / न च पटादेरिव घटादिकं प्रति कारणस्य कार्यावारकत्वमिति न स्पर्शोपलब्धिः पटध्वंस इव मृत्पिण्डध्वंसे तदावृतकायोपलब्धिप्रसङ्गात् एकाभिव्यङ्गयोपलब्धेश्च भवेदेकप्रदीपव्यापारात्तत्संनिधानव्यवस्थितानेकधादिवत् / किं च कारणं कार्यस्य सत्वे स काल इव कथमसौ तेनाप्रियतेनापि मृत्पिण्डकार्यतया पटादिवत् घटोव्यपदिश्येत असत्वेचनावृतिरविद्यमानत्वादेवैकान्तसतः करणविरोधादसत्करणादिभ्यो न सत्कार्यसिद्धिः / प्रतिक्षिप्तश्च प्रागेव सत्कार्यवाद इति न पुनरुच्यते / अनन्तिरभूतपरिणामवादोऽपि प्रतिक्षित एव न ह्यर्थान्तरपरिणामाभावे परिणाम्येव कारणलक्षणोऽर्थः पूर्वापरयोरेकत्वविरोधान्न च परिणामाभावे परिणामिनोऽपि भावो युक्तः परिणामनिबन्धनत्वात् परिणामित्वस्याभिन्नस्य हि पूर्वापरावस्थाहानोपादानात्मतया एकस्य वृत्तिलक्षणपरिणामो न युक्तियुक्तस्तन्नैकान्ताभेदे कारणमेवा नर्थान्तरकार्यमित्ययमष्येकान्तो मिथ्यावाद एव कार्योत्पत्तिकाले कारणस्याविचलितरूपस्य कार्यादिव्यतिरिक्तस्य सत्वे पूर्वोक्तदोषप्रसङ्गात्तद्व्यतिरिक्तस्य तस्य सद्भावे कारणस्य प्राक्तनस्वरूपेणैवाप्यस्थितत्वात् अकारणकार्योत्पत्तिर्भवेत् कारणस्य प्राक्तनकारणस्वरूपापरित्यागात्। परित्यागे वा कार्यकारणस्वरूपस्वीकारेण तस्यैवावस्थितत्वादनेकान्तसिद्धः / व्यतिरेकेच कारणात्कार्यस्य पृथगुपलम्भप्रसङ्गो न च तदाश्रितत्वेन तस्योत्पत्तेर्न तत्प्रसङ्ग इति वक्तव्यमवयविनः समवायस्य च निषेत्स्यमानत्वान्निषिद्धत्वाच्च कारणाव्यतिरिक्तं तत्रासदेव कार्यमित्ययमपि पक्षो मिथ्यात्वमेवा तथा हि एकान्ततो निवृत्ते कारणे कार्यमुत्पद्यत इत्यत्र कारणनिवृत्तिः। सद्रूपासद्रूपा वेति वक्तव्यं सदूपत्वेऽपि न तावत्कारणस्य नित्यत्वप्रसक्तिः निवृत्तिकालेऽपि कारणसद्भावात् / न चाविचलितस्वरूपमृत्पिण्डसद्भावे घटोत्पत्तिर्दृष्टा कार्यानुत्पत्तिप्रसक्तेः नापि कार्यरूपा तन्निवृत्तिः कारणनिवृत्ती कार्यस्यैवानुत्पत्तेरेवं च कार्यानुत्पादकत्वेन कारणस्याप्यसत्वमेव। न चोत्पत्तिरेव कारणनिवृत्तिरिति कारणनिवृत्तेने कार्योत्पत्तिरिति नायं दोषः कार्यगतोत्पादस्य कारणगतविनाशरूपत्वायोगाद्विन्नाधिकारणत्वात् कारणनिवृत्तेश्च कार्यरूपत्वे कारणं कार्यरूपेण परिणतमिति घटस्य मृत्स्वरूपवत्कपालेष्वप्युपलब्धिप्रसङ्गः। नाप्युभयरूपातन्निवृत्तिर्मूत्पिण्डविनाशकाले विवक्षितमृत्पिण्डघटव्यतिरिक्ताशेषजगदुत्पत्तिप्रसक्तिः। अथासद्रूपा तन्निवृत्तिस्तथापि यदि कारणाभावात् कार्योत्पादप्रसक्तेर्निर्हेतुकः कार्योत्पाद इति देशकालाकारनियमः कार्यस्य न स्यात् अभावाच कार्योत्पत्तौ विश्वमदरिद्र भवेत्। नापि कार्याभावरूपा तन्निवृत्तिः कार्यानुत्पत्तिप्रसङ्गात्। नाप्युभयाभावस्वभावा द्वयोरप्यनुपलब्धिप्रसक्तेः / नाप्यनुभयाभावरूपा विवक्षितकारणकार्यव्यतिरिके ण सर्वस्यानुपलब्धिप्रसक्तेः कारण