SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ कजकारणभाव १८८-अभिधानराजेन्द्रः भाग 3 कज्जकारणभाव हि सद्रूपमन्यचासद्रूपं परस्परपरिहारेण तयोरवस्थितत्वात्तस्माद्यदसत्तदशक्यक्रियमेवातस्तथाभूतपदार्थकारित्वाभ्युपगमे कारणानाम-- शक्यकारित्वमेवाभ्युपगतं स्यान्न चाशक्यं केनचित्क्रियते। यथा गगनाम्भोरुहः। सतः शक्तिप्रतिनियमादित्यनुत्तरमेतदेतेन शक्तस्य शक्यकरणादिति चतुर्थोऽपि हेतुस्समर्थितः। कार्यस्यैवमयोगाच किं कुर्वत्कारणं भवेत्ततः कारणभावोऽपि बीजादे वकल्पत इति पञ्चमहेतुसमर्थनमस्यार्थः / एवं यथोक्ताद्धेतुचतुष्टयादसत्कार्यवादेसर्वथापिकार्यस्यायोगात्किं कुर्वदीजादिरविद्यमानकार्यत्वाद्गनाब्जवन चैवं भवति तस्माद्विपर्यय इति सिद्धं प्रागुत्पत्तेः सत्कार्यमिति। अथैतदसत्कार्यवादी दूषयति। यदेतदसदकरणादित्यादिदूषणमभ्यधायितत्सत्कार्यवादेऽपि तुल्यंतथा | हि असत्कार्यवादिनाऽपि शक्यमिदमित्थमभिधातुं न सदकरणादुपादानग्रहणात्सर्वसंभवाभावाच्छक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यमिति। अत्र च न सत्कार्यमिति व्यवहितेन संबन्धो विधातव्यः। कस्मात्सदकरणादुपादानग्रहणादित्यादेर्हेतुसमूहादुभययोर्यश्च दोषस्तमेकः प्रेर्यो न भवति। तथा हि यदि दुग्धादिषु दध्यादीनि काज्यादिना विभक्तेन रूपेण दध्यवस्थावत्सन्ति तदा तेषां किमपरमुत्पाद्यं रूपमवशिष्यते यत्तैर्जन्यं स्यात् न हि विद्यमानमेव कारणायत्तोत्पत्तिकं भवति प्रकृतिचैतन्यरूपवत्। अत्र प्रयोगो यत्सर्वात्मना कारणे सन्न तत्केनधि-- जन्यं यथा प्रकृतिश्चैतन्यं वा तदेवं वा मध्यावस्थया कार्य स तु सर्वात्मना परमनेन क्षीरादौ दध्यादीति व्यापकविरुद्धोपलब्धिप्रसङ्ग / न च हेतोरनैकान्तिकताऽनुत्पाद्यातिशयस्यापि जननीयत्वे सर्वेषां जन्यत्वप्रसक्तिश्च विपर्यये वाधकम्। प्रमाणजनितस्यापि पुनर्जन्यत्वप्रसङ्गात् तदेवं कार्यत्वाभिमतानामकार्यत्वप्रसक्तिः। सत्कार्यवादाभ्युपगमे कारणातिशयानामपि मूलप्रकृतिबीजदुग्धादीनां पदार्थानां विवक्षितमहदाद्यारदध्यादिजनकत्वं न प्राप्रोत्यविद्यमानसाध्यत्वात् मुक्तात्मवत्। प्रयोगो यदविद्यमानसाध्यं न तत्कारणं यथा चैतन्यं विद्यमानसाध्यश्चाभिमतः पदार्थ इति व्यापकानुपलब्धिः। प्रसङ्गसाधनं चैतत्द्वयमप्यतो नोभयसिद्धोदाहरणेन प्रयोजनं भोग प्रत्यात्मनोऽपि कर्तव्याभ्युपगमे मुक्तात्मा उदाहर्तव्यः। न च प्रथमप्रयोगे अभिव्यक्तादिरूपेणापि सविशेषेण हेतावुपादीयमाने सिद्धता नह्यस्माभिरभिव्यक्त्यादिरूपेणापि सत्वमिष्यते कार्यस्य किं तर्हि शक्तिरूपेण निर्विशेषणे तुतस्मिन्ननैकान्तिकता यतोऽभिव्यक्त्यादिलक्षणस्यातिशयस्योत्पद्यमानत्वान्न सर्वस्य कार्यत्वप्रसङ्गो भविष्यति / अत एव द्वितीयोऽपि हेतुरसिद्धो विद्यमानत्वात्साध्यस्याभिव्यक्त्युनेकानुद्रेकाद्यवस्थाविशेषस्येति वक्तव्यम् / यतोऽत्र विकल्पद्वयं किमसावतिशयोऽभिव्यक्त्याद्यवस्थातः प्रागासीदाहोश्विनेति यद्यासीन्न तहसिद्धतादिदूषणं प्रयोगद्वयोपन्यस्तहेतुद्वयस्य। अथ नासीदेवमप्यतिशयः कथं हेतुभ्यः प्रादुर्भावमश्नुवीत असदकारणादिति भवद्भिभ्युपगतत्वात् / तस्थितं सत्कणान्न सत्कार्यं यथोक्तनीत्या सत्कार्यवादे साध्यस्याभावादुपादानग्रहणमनुपपन्नं स्यात्तत्साध्यस्याफलवाञ्छयैव प्रेक्षावद्भिरुपादानपरिग्रहान्नियतादेव क्षीरादेर्दध्यादीनामुद्भव इत्येतदप्युपपन्नं स्यात्साध्यस्यासंभवादेवयतः सर्वस्मात्सं-- भवाभाव एवं नियताज्जन्मेत्युच्यते तच्च सत्कार्यवादपक्षे न घटमानकम्। तथा शक्तस्य शक्यकारणादित्येतदपि सत्कार्यवादे न युक्तिसङ्गतं साध्याभावादेव यतो यदि किंचित्केनचिदभिनिर्व]त तदा निर्वर्तकस्य शक्तिर्व्यवस्थाप्येत निर्वर्त्यस्य च कारणं सिद्धिमध्यासीतेति नान्यथा कारणभावानां साध्याभावादेव सत्कार्यवादेनयुक्तिसंगतो न चैतद् दृष्टं च तस्मान्न सत्कार्य कारणावस्थायाममिप्रसङ्गविपर्ययः पशस्वपि प्रसङ्गसाधनेषु योज्योऽपि च सर्वमेव हि साधनं स्वविषये प्रवर्तमानं दद्वयं विदधाति स्वप्रमेयार्थविषये उत्पद्यमानौ संशयविपर्यासौ निवर्तयति। स्वसाध्यविषयं च निश्चयमुपजनयति / न चैतत्सत्कार्यवादे युक्त्या संगच्छते / तथा हि संदेहविपर्यासौ भवद्भिः किं चैतन्यस्वभावी अभ्युपगम्येते आहोश्विबुद्धिमनःस्वरूपौ तत्र यदि प्रथमः पक्षः स न युक्तश्चैतन्यरूपतया तयोर्भवद्भिरनभ्युपगमादभ्युगमे वा मुक्त्यवस्थायामपि चैतन्याभ्युपगमात्तत्स्वभावयोस्तयोरप्युत्पत्त्यनिवृत्तेरनिर्मोक्षप्रसङ्गः साधनव्यापारात्तयोरनिवृत्तिश्च चैतन्यवन्नित्यत्वातत् / द्वितीयपक्षोऽपि न युक्तः बुद्धिमनसोर्नित्यत्वेन तयोरपि नित्यत्वानिवृत्तयोगान्न च निश्चयोत्पत्तिरपि साधनात्संभवति / तस्या अपि सर्वदावस्थितेरन्यथा सत्कार्यवादो विशीर्येत इति / साधनोपन्यासप्रयासो विफलः कापिलानां स्ववचनविरोधश्च प्राप्रोति / तथा हि निश्चयोत्पादनार्थ साधनं ब्रुवता निश्चयस्यासत उत्पत्तिरङ्गीकृता भवेत् सत्कार्यमिति च प्रतिज्ञा या सा निषिद्धेति। स्ववचनविरोधः स्पष्ट एव साधनप्रयोगवैयर्थ्यता प्रापदिति। निश्चयोऽसन्नेव साधनादुत्पद्यत इत्य-- ङ्गीक्रियते / तहसदकरणादित्यादेर्हेतुपञ्चकस्यानैकान्तिकता स्वत एवाभ्युपगता भवति निश्चयवत्कार्यस्यासतएव उत्पज्यविरोधात्। तथा हि यथा निश्चयस्यासतोऽपि करणं तदुत्पत्तिनिमित्तं च यथा विशिष्टसाधनपरिग्रहो न च यथा तस्य सर्वस्मात्साधनाभासादेः संभवो यथा चासन्नप्यसौ शक्तौ हेतुर्निवयते यथाच कारणभावो हेतूनां समस्ति तथा कार्येऽपि भविष्यतीति कथं नानैकान्तिकनिश्चयेनासदकरणा-दित्यादि हेतवः / न च यद्यपि प्राक् साधनप्रयोगात्सन्नेव निश्चय- स्तस्यापि न साधनवैयर्थ्य यतः प्रागनभिव्यक्तो निश्चयः पश्चात्साधनेभ्यो व्यक्तिमासादयतीत्यभिव्यक्त्यर्थं साधनप्रयोगः सफल इति नानर्थक्यमेषामिति वक्तव्य व्यक्तेरसिद्धत्वात् / तथा हि किं स्वभावातिशयोत्पत्तिरभिव्यक्तिरभिधीयते आहोश्वित्तद्विषयं ज्ञानम् उत तदुपलम्भावारकापगम इति पक्षाः तत्र न तावत्स्वभावातिशयोत्पत्तिरभिव्यक्तिर्यतोऽसौ स्वभावातिशयो विश्वयस्वभावाद व्यतिरिक्तः स्यादव्यतिरिक्तो वा / यद्यव्यतिरिक्तस्तदा निश्चयस्वरूपवत्तस्य सर्वदैवावस्थितेनों व्यक्तिर्युक्तमती। अथ व्यतिरिक्तस्तथापि तस्यासाविति संबन्धानुत्पत्तिस्तथा ह्याधाराधेयलक्षणो जन्यजनकस्वभावोऽसौ भवेत् / न भवेत्प्रथमः परस्परमनुपकार्योपकारयोस्तदसंभवादुपकाराभ्युगपगममेवोपकारकस्यापि नपृथग्भावे संबन्धासिद्धिः। अपरोपकारकल्पनायां चानवस्थाप्रशक्तिः / अथ पृथग्भावे च साधनोपन्यासवैयर्थ्यनिश्चयादेवोपकारपृथग्भूतस्यातिशयस्योत्पत्तेः। न चातिशयस्य कश्चिदाधारो युक्तो मूर्तत्वेनाधःप्रसर्पणाभावादधोगतिप्रतिबन्धकत्वेनाधारस्य व्यवस्थानात् / जन्यजनकभावलक्षणोऽपि न संबन्धो युक्तः सर्वदैव संबन्धाख्यस्य कारणस्य सन्निहितत्वान्नित्यमतिशयोत्पत्तिप्रसत्तेः / न च साधनप्रयोगापेक्षस्य निश्चयस्यातिशयोत्पादकत्वं युक्तमनुपकारिण्यपेक्षायोगात् उपकाराभ्युपगमे वा दोषः पूर्ववद्वाच्यः / अपि चातिशयोऽपि पृथग्भूतः क्रियमाणः किमसत् क्रियते आहोश्वित्सन्निति कल्पनाद्वयम् / असत्वं पूर्व
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy