SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ कच्छा १८७-अभिघानराजेन्द्रः भाग 3 कञ्जकारणभाव प्राणताभिधानस्येन्द्रस्यैकत्वात् “दसेति" पदं त्वारणाच्युतयोर्योजनीयमच्युताभिधानस्येन्द्रस्यैकत्वादिति / स्था०७ ठा०। कच्छावई-स्वी० (कच्छकावती ) कच्छकावतीविजये," महाकच्छ पुरच्छिमेणं कच्छावईएपञ्चच्छिमेणं" जं०४ वक्ष०। कच्छावईकूड-न०(कच्छावतीकूट) महाविदेहे ब्रह्मकूटस्य चतुर्थे कूटे,। जं०४ वक्ष०॥ कच्छु (च्छू)-स्त्री० [कच्छु (च्छू)] कष-हिंसायां कषच्छश्चेति उणा० ऊ छन पृषो-वा ह्रस्वः / " सूक्ष्माः बाह्याः पिण्डकास्तापवत्यः पामेत्युक्ताः कण्डुमत्य सदाहाः। सैव स्फोटैस्तीव्रदाहरुपेता, ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च" इत्युक्तलक्षणे रोगभेदे, वाच० / जी० / व्य० / तीव्रकण्डूतिकारके फलविशेषे, प्रश्न० सं०२ द्वा०५ अ०। नि० चू०। कच्छुखसराभिभूय-त्रि०(कच्छूक [ख] सराभिभूत) कच्छू: पामा तया कसरैश्च खसरैरभिभूता व्याप्ताःयेते तथा। पामारोगार्तेषु, जं०२ वक्ष०। भ०। कच्छुडिय-त्रि०(कक्षापुटिक ) कक्षाप्रदेशे पुटा यस्य स कक्षापुटिकः। गृहीतोभयामोटके, बृ०२ उ01 कच्छुल [ल-त्रि०(कच्छूर ) कच्छूरस्त्यस्य कच्छा हस्वश्च / वाच०। कण्डूतिमति, प्रश्न०सं०२ द्वा०५ अ० वि०। कच्छूरोगयुते पुरुष, पुं० स्त्री०। पामरे च त्रि० मेदि० वाच०। गुल्मविशेषे, प्रज्ञा० 1 पद। जं०। कच्छुलणारय-पुं०(कच्छुरनारद ) स्वनामख्याते तापसे, ज्ञा०५ अ०। प्रति०। कञ्ज-त्रि० (कार्य) कृ० कर्मणि ण्यत्। घय्याजः जः८२२५। इति संयुक्तस्य जः। प्रा०! ततो द्वित्वम् / असंयोगस्यैवेति नियमात्-- कगचजतदपयवां प्रायो लुगिति न लुक् प्रा० / कृत्ये, नि०। " किं कर्ज भण्णतिजंतुकीरती तेणं" यत्कृत्वाऽतिवर्त्यते। प्रयोजने, आ० चू०१ अ० वि०। कारणे, व्य०२ उ०। कायं नाम प्रयोजनं ततोऽधिकृतप्रवृत्तेः प्रयोजकत्वात्कारणम् / एतच्चान्यत उक्तम् "कारणं ति वा कजं ति वाएगट्ठ" व्य०२ उ०। निष्पाद्ये,यदर्थचेष्टतेतत्कार्य्यम् कर्म०। अशिवादिके, “अशिवाइयंकजं भन्नति" नि० चू०१ उ०। कुलगणसङ्घविषये कृत्ये, व्य०१ उ० / व्यापारे, प्रव०१द्वा० / कर्मणि, सूत्र० 2 श्रु०५ अ०। इदं वन्दनप्रकारेण कार्य द्विविधा। वन्दनकायं कर्यकार्य च। तत्र वन्दनकार्य द्विधा अभ्युत्थानं कृतिकर्म च कार्यकाऱ्या कुलकार्यादिभेदादनेकविधम् / कार्य्यमवश्यकर्तव्यरुपं यत् कार्य तत्कार्यकार्यमिति व्युत्पत्तेः / बृ०३ उ०॥ कजंतर-न०(कार्यान्तर) अन्यत् कार्य्यम्। प्रागादिष्टकार्यादपरका-- ये, “कजंतरेण कजं तेणं कालंतरेच कजंति" पञ्चा० 12 विव०। कज्जकज्ज-त्रि० (कार्यकार्य) क० स० कुलकार्यादिभेदादनेकविधेड वश्यकर्त्तव्यरूपे कार्यो, बृ०३ उ०। कलकर-पुं० ( कार्यकर ) आदिष्टकार्यनिर्वाहके राज्ञोऽष्टादशसु श्रेणिष्यन्यतमे, चं० प्र०१३ वक्ष०ा प्रयोजननिष्पादके, त्रि०"नवा गेहे पलित्ते कूवखणणं कजकरं। जइपुण दमणं खणणं, वा पुव्वकयं होति" आ० भ० प्र०॥ ककरण-न० (कार्यकरण ) प्रयोजनविधाने,प्रश्न०१द्वा०३ अ० कजकारणभाव-पुं० ( कार्यकारणभाव ) पुं० कायं च कारणं च | तयोर्भावः / हेतुहेतुमद्भावे, यथा घटदण्डयोरत्र घटस्य दण्ड प्रति कार्य्यत्वं दण्डस्य घटं प्रति कारणत्वम्। अथात्र सत्कार्यासत्कार्य्यवादसदसत्कार्य्यवादप्रदिदर्शयिषया मतसं ग्रहमाह / तत्र असतः सज्जायते इति बौद्धाः / प्रागुत्पत्तेः सदपि कारणव्यापारादभिव्यज्यते इति साङ्ख्यादयः। तत्र सतो विवर्त इति वेदान्तिनः। परिणाम इति साङ्ख्याः। कथंचित् सत् कथंचिदसदुत्पद्यते इति आर्हता इति वाच०। तत्रासत्कार्यवादमसंभावयन् सत्कार्यवादी कापिल आह / नन्वेतत्कुतो ज्ञायते प्रागुत्पत्तेः सत्कार्यमिति हेतुकदम्बकसवात् / तत्सद्भावश्च “असदकरणादुपादानग्रहणात्सर्वसंम्भवाभावात्। शक्तस्य शक्यकरणात्कारणभावाच सत्कार्य " मितीश्वरकृष्णेन प्रतिपादितः। अत्र चासदकरणादिति प्रथमो हेतुः सत्कार्यसाधनायोपन्यस्तः एवं समर्थितः यदि हि कारणात्मनि उत्पत्तेः प्राक् कार्य न भविष्यत्तदा नतत्के नचिदकरिष्यत् / यथा गगनारविन्दप्रयोगः / यदसत्तन्न केनचित्क्रियते। यथा नभोनलिनम् असच प्रागुत्पत्तेः परमतेन कार्यमिति ध्यापकविरुद्धोपलब्धिप्रसङ्गः / न चैवं भवति / तस्माद्यत्क्रियते तिलादिभिस्तैलादिकार्य तत्तस्मात्प्रागपि सदिति सिद्धं शक्तिरूपेणोत्पत्तेः प्रागपि कारणे कार्यम् / व्यक्तिरूपतया च तत्तदा कापिलैरपि। नेष्यते उपादानग्रहणादिति द्वितीयहेतुसमर्थनम्। यद्यसद्भावे कारणे कार्य तदा पुरुषाणां प्रतिनियतोपादानग्रहणन्न स्यात् / शालिफलार्थिनस्तु शालिबीजमेवोपाददते न कोद्रवबीजं तत्र यथा शालिबीजादिषु शाल्यादीनामसत्वन्तथा यदि कोद्रवबीजादिष्वपि किमिति तुल्ये सर्वत्र शालिफलादीनामसत्वे प्रतिनियतान्येव शालिबीजादीनि गृह्णन्ति न कोद्रवबीजादिकं यावता कोद्रवादयोऽपि शालिफलार्थिभिरूपादीयेरनसत्वाविशेषात् / अथ तत्फलशून्यत्वात्तैस्ते नोपादीयन्ते यद्येवं शालिबीजमपि शालिफलार्थिना तत्फलशून्यत्वान्नोपादेयं स्यात् / कोद्रवबीजवन्न चैवं भवति तस्मात्तत्र तत्कार्यमस्तीति गम्यते / सर्वसंभवाभावादिति तृतीयो हेतुः / यदि ह्यसदेव कार्यमुत्पद्यते सर्वस्मात्तृणपश्वादेः सर्वे सुवर्णरजतादिकार्यमुत्पद्येत सर्वस्मिन्नुत्पत्तिमति भावे तृणादिकारणभावात्मताविरहस्याविशिष्टत्वात्पूर्वे कारणमुखेन प्रसङ्ग उक्तः संप्रति तु कार्यद्वारेणेति विशेषः / न च सर्व सतो भवति तस्मादयं नियमस्तत्रैव तस्य सद्भावादिति गम्यते / स्यादेतत्कारणानां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियतास्तेन कार्यस्यासत्वेऽपि किंचिदेव कार्य क्रियते गगनाम्भोरुहं किंचिदेव वोपादानमुपादीयते तदेव समर्थनतुसक् किंचिदेव च कुतश्चिद्भवतिनतु सर्व सर्वस्मादित्यसदेतद्यतः शक्ता अपि हेतवः कार्यं कुर्वाणाः शक्यक्रियमेव कुर्वन्ति नाशक्यं कुर्वन्तीति ये नैतत्प्रतिषिध्यतेभवता किंत्वसदपि कार्यं कुर्वन्तीत्येतावदुच्यते तच तेषांशक्यक्रियमेवासदेतदकारित्वाभ्युपगमादेवाशक्यक्रियं कुर्वन्ति तथा हि यदसत्तन्नीरूपं तच्छशविषाणादिवदनाधेयातिशयं यचानाधेयातिशयं तदाकाशवदविकारि तथाभूतं वा समासादितविशेषरूपं कथं केनचिच्छक्येत कर्तुम् / अथ सदवस्थाप्रतिपत्तेर्विक्रियत एव तदेतदप्यसद्विकृतावात्महानिप्राप्तेः ततो विकृताविष्यमाणायां यस्तस्यात्मा नीरूपाख्यो वर्ण्यते तस्य हानिः प्रसज्येत न ह्यसतः स्वभावापरित्यागे वा नासद्रुपता परित्यागापरित्यागे वा न सदसद्रूपता प्रतिपन्नमिति सिद्धयेदन्यदेव
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy